.. संन्यासोपनिषत्..
संन्यासोपनिषद्वेद्यं संन्यासिपटलाश्रयम् .
सत्तासामान्यविभवं स्वमात्रमिति भावये ..
ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु . ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ अथातः संन्यासोपनिषदं व्याख्यास्यामो
योऽनुक्रमेण संन्यस्यति स संन्यस्तो भवति . कोऽयं संन्यास
उच्यते कथं संन्यस्तो भवति . य आत्मानं क्रियाभिर्गुप्तं करोति
मातरं पितरं भार्यां पुत्रान्बन्धूननुमोदयित्वा ये
चास्यर्त्विजस्तान्सर्वांश्च पूर्ववत्प्राणित्वा वैश्वानरेष्टिं
निर्वपेत्सर्वस्वं दद्याद्यजमानस्य गा ऋत्विजः सर्वैः पात्रैः
समारोप्य यदाहवनीये गार्हपत्ये वान्वहार्यपचने
सभ्यावसथ्योश्च प्राणापानव्यानोदानसमानान्सर्वान्सर्वेषु
समारोपयेत् . सशिखान्केशान्विसृज्य यज्ञोपवीतं छित्त्वा पुत्रं
दृष्ट्वा त्वं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् .
यद्यपुत्रो भवत्यात्मानमेवेमं ध्यात्वाऽनवेक्षमाणः
प्राचीमुदीचिं वा दिशं प्रव्रजेच्च . त्रिषु वर्णेषु
भिक्षाचर्यं चरेत् . पाणिपात्रेणानाशनं कुर्यात् .
औषधवदहनमाचरेत् . औषधवदशनं प्राश्नीयात् .
यथालाभमश्नीयात्प्राणसन्धारणार्थं यथा मेदोवृद्धिर्न
जायते . कृशो भूत्वा ग्राम एकरात्रं नगरे पञ्चरात्रं
चतुरोमासान्वार्षिकान्ग्रामे वा नगरे वापि वसेत् .
विशीर्णवस्त्रं वल्कलं वा प्रतिगृह्णीयानान्यत्प्रतिगृह्णीयाद्यद्यशक्तो
भवति क्लेशतस्तप्यते तप इति . यो वा एवं क्रमेण संन्यस्यति यो वा
एवं पश्यति किमस्य यज्ञोपवीतं कास्य शिखा कथं वास्योपस्पर्शनमिति .
तं होवाचेदमेवास्य तद्यज्ञोपवीतं यदात्मध्यानं विद्या शिखा
नीरैः सर्वत्रावस्थितैः कार्यं निर्वर्तयन्नुदरपात्रेण जलतीरे निकेतनम् .
ब्रह्मवादिनो वदन्त्यस्तमित आदित्ये कथं वास्योपस्पर्शनमिति .
तान्होवाच यथाहनि तथा रात्रौ नास्य नक्तं न दिवा तदप्येतदृषिणोक्तम् .
संकृद्दिवा हैवास्मै भवति य एवंविद्वानेतेनात्मानं संधत्ते ..
इति प्रथमोऽध्यायः .. १..
ॐ चत्वारिंषत्संस्कारसंपन्नः सर्वतो
विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहंकारं
दग्ध्वा साधनचतुष्टयसंपन्न एव संन्यस्तुमर्हति .
संन्यासं निश्चयं कृत्वा पुनर्न च करोति यः .
स कुर्यात्कृच्छ्रमात्रं तु पुनः संन्यस्तुमर्हति ., १..
संन्यासं पातयेद्यस्तु पतितं न्यासयेत्तु यः .
संन्यासविघ्नकर्ता च त्रीनेतान्पतितान्विदुः .. २.. इति..
अथ षण्डः पतितोऽङ्गविकलः स्त्रैणो बधिरोऽर्भको मूकः
पाषण्डश्चक्री लिङ्गी कुष्ठी वैखानसहरद्विजौ
भृतकाध्यापकः शिपिविष्टोऽनग्निको नास्तिको वैराग्यवन्तोऽप्येते
न संन्यासार्हाः . संन्यस्ता यद्यपि महावाक्योपदेशे नाधिकारिणः ..
आरूढपतितापत्यं कुनखी श्यावदन्तकः .
क्षीबस्तथाङ्गविकलो नैव संन्यस्तुमर्हति .. ३..
संप्रत्यवसितानां च महापातकिनां तथा .
व्रात्यानामभिशस्तानां संन्यासं न कारयेत् .. ४..
व्रतयज्ञतपोदानहोमस्वाध्यायवर्जितम् .
सत्यशौचपरिभ्रष्टं संन्यासं न कारयेत् .. ५..
एते नार्हन्ति संन्यासमातुरेण विना क्रमम् .
ॐ भूः स्वाहेति शिखामुत्पाट्य यज्ञोपवीतं
बहिर्न निवसेत् . यशो बलं ज्ञानं वैराग्यं
मेधां प्रयच्छेति यज्ञोपवीतं छित्त्वा ॐ भूः
स्वाहेत्यप्सु वस्त्रं कटिसूयं च विसृज्य संन्यस्तं
मयेति त्रिवारमभिमन्त्रयेत् .
संन्यासिनं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः .
एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति .. ६..
षष्टिं कुलान्यतीतानि षष्टिमागामिकानि च .
कुलान्युद्धरते प्राज्ञः संन्यस्तमिति यो वदेत् .. ७..
ये च सन्तानजा दोषा ये दोषा देहसंभवाः .
प्रैषाग्निर्निर्दहेत्सर्वांस्तुषारिन्निव काञ्चनम् .. ८..
सखा मा गोपायेति दण्डं परिग्रहेत् .
दण्डं तु वाणवं सौम्यं सत्वचं समपर्वकम् .
पुण्यस्थलसमुत्पन्नं नानाकल्मषशोधितम् .. ९..
अदग्धमहतं कीटैः पर्वग्रन्थिविराजितम् .
नासादघ्नं शिरस्तुल्यं भ्रुवोर्वा बिभृयाद्यतिः .. १०..
दण्डात्मनोस्तु संयोगः सर्वथा तु विधीयते .
न दण्डेन विना गच्छेदिषुक्षेपत्रयं बुधः .. ११..
जगज्जीवनं जीवनाधारभूतं माते मामन्त्रयस्व सर्वसौम्येति
कमण्डलुं परिगृह्य योगपट्टाभिषिक्तो भूत्वा यथासुखं विहरेत् ..
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज .
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज .. १२..
वैराग्यसंन्यासी ज्ञानसंन्यासी ज्ञानवैराग्यसंन्यासी
कर्मसंन्यासीति चातुर्विध्यमुपागतः . तद्यथेति दृष्टानुश्रविक-
विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मविशेषात्संन्यस्तः
स वैराग्यसंन्यासी . शास्त्रज्ञानात्पापपुण्यलोकानुभवश्रवणा-
त्प्रपञ्चोपरतो देहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा
वमनान्नमिव प्रवृत्तिं सर्वं हेयं मत्वा साधनचतुष्टयसंपन्नो
यः संन्यस्यति स एव ज्ञानसंन्यासी . क्रमेण सर्वमभ्यस्य सर्वमनुभूय
ज्ञानवैराग्याभ्यां स्वरूपानुसन्धानेन देहमात्रावशिष्टः संन्यस्य
जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी . ब्रह्मचर्यं समाप्य
गृही भूत्वा वानप्रस्थाश्रममेत्य वैराग्याभावेऽप्याश्रमक्रमानुसारेण
यः संन्यस्यति स कर्मसंन्यासी . स संन्यासः षड्विधो भवति
कुटीचकबहूदकहंसपरमहंसतुरीयातीतावधूताश्चेति . कुटीचकः
शिखायज्ञोपवीति दण्डकमण्डलुधरः कौपीनशाटीकन्थाधरः
पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमात्रसाधनपर
एकत्रान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः . बहूदकः शिखादिकन्थाधर-
स्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो मधुकरवृत्त्याष्टकवलाशी .
हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी असंक्लृप्तमाधूकरान्नाशी
कौपीनखण्डतुण्डधारी . परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेषु
करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा
भस्मोद्धृलनपरः सर्वत्यागी तुरीयातीतो गोमुखवृत्त्या फलाहारी अन्नाहारी
चेद्गृहत्रये देहमात्रावशिष्टो दिगंबरः कुणपवच्छरीन्वृत्तिकः .
अवधूतस्त्वनियमः पतिताभिशस्तवर्जनपूर्वकं सर्ववर्णेष्वजगरवृत्त्याहारपरः स्वरूपानुसन्धानपरः .
जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् . यद्बाह्यं
जडमत्यन्तं तत्स्यां कथमहं विभुः .. १३..
कालेनाल्पेन विलयी देहो नाहमचेतनः .
जडया कर्णशष्कुल्या कल्पमानक्षणस्थया .. १४..
शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः .
त्वचा क्षणविनाशिन्या प्राप्योऽप्राप्योऽयमन्यथा .. १५..
चित्प्रसादोपलब्धात्मा स्पर्शो नाहमचेतनः .
लब्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया .. १६..
स्वल्पस्यन्दो द्रव्यनिष्ठो रसो नाहमचेतनः .
दृश्यदर्शनयोर्लीनं क्षयिक्षणविनाशिनोः .. १७..
केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम् .
नासया गन्धजडया क्षयिण्या परिकल्पितः .. १८..
पेलवो नियताकारो गन्धो नाहमचेतनः .
निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः .. १९..
शुद्धचेतन एवाहं कलाकलनवर्जितः .
चैत्यवर्जितचिन्मात्रमहमेषोऽवभासकः .. २०..
सबाह्याभ्यन्तरव्यापी निष्कलोऽहं निरञ्जनः .
निर्विकल्पचिदाभास एक आत्मास्मि सर्वगः .. २१..
मयैव चेतनेनेमे सर्वे घटपटादयः .
सूर्यान्ता अवभास्यन्ते दीपेनेवात्मतेजसा .. २२..
मयैवैताः स्फुरन्तीह विचित्रेन्द्रियवृत्तयः .
तेजसान्तःप्रकाशेन यथाग्निकणपङ्क्तयः .. २३..
अनन्तानन्दसंभोगा परोपशमशालिनी .
शुद्धेयं चिन्मयी दृष्टिर्जयत्यखिलदृष्टिषु .. २४..
सर्वभावान्तरस्थाय चैत्यमुक्तचिदात्मने .
प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः .. २५..
विचित्राः शक्तयः स्वच्छाः समा या निर्विकारया .
चिता क्रियन्ते समया कलाकलनमुक्तया .. २६..
कालत्रयमुपेक्षित्र्या हीनायाश्चैत्यबन्धनैः .
चितश्चैत्यमुपेक्षित्र्याः समतैवावशिष्यते .. २७..
सा हि वाचामगम्यत्वादसत्तामिव शाश्वतीम् .
नैरात्मसिद्धात्मदशामुपयातैव शिष्यते .. २८..
ईहानीहामयैरन्तर्या चिदावलिता मलैः .
सा चिन्नोत्पादितुं शक्ता पाशबद्धेव पक्षिणी .. २९..
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः .
धराविवरमग्नानां कीटानां समतां गताः .. ३०..
आत्मनेऽस्तु नमो मह्यमविच्छिन्नचिदात्मने .
परामृष्टोऽस्मि लब्धोऽस्मि प्रोदितोऽस्म्यचिरादहम् .
उद्धृतोऽस्मि विकल्पेभ्यो योऽस्मि सोऽस्मि नमोऽस्तु ते .. ३१..
तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने .
नमस्तुभ्यं परेशाय नमो मह्यं शिवाय च .. ३२..
तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति .
शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते .. ३३..
सुलभश्चायमत्यन्तं सुज्ञेयश्चाप्तबन्धुवत् .
शरीरपद्मकुहरे सर्वेषामेव षट्पदः .. ३४..
न मे भोगस्थितौ वाञ्छा न मे भोगविसर्जने .
यदायाति तदायातु यत्प्रयाति प्रयातु तत् .. ३५..
मनसा मनसि च्छिन्ने निरहंकारं गते .
भावेन गलिते भावे स्वस्थस्तिष्ठामि केवलः .. ३६..
निर्भावं निरहंकारं निर्मनस्कमनीहितम् .
केवलास्पन्दशुद्धात्मन्येव तिष्ठति मे रिपुः .. ३७..
तृष्णारज्जुगणं छित्वा मच्छरीरकपञ्जरात् .
न जाने क्व गतोड्डीय निरहंकारपक्षिणी .. ३८..
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते .
यः समः सर्वभूतेषु जीवितं तस्य शोभते .. ३९..
योऽन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया .
साक्षिवत्पश्यतीदं हि जीवितं तस्य शोभते .. ४०..
येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता .
चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते .. ४१..
ग्राह्यग्राहकसंबन्धे क्षीणे शान्तिरुदेत्यलम् .
स्थितिमभ्यागता शान्तिर्मोक्षनामाभिधीयते .. ४२..
भ्रष्टबीजोपमा भूयो जन्माङ्कुअरविवर्जिता .
हृदि जीवद्विमुक्तानां शुद्धा भवति वासना .. ४३..
पावनी परमोदारा शुद्धसत्त्वानुपातिनी .
आत्मध्यानमयी नित्या सुषुप्तिस्थेव तिष्ठति .. ४४..
चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते .
निर्मनस्कस्वभावत्वान्न तत्र कलनामलम् .. ४५..
सा सत्यता सा शिवता सावस्था पारमात्मिकी .
सर्वज्ञता सा संतृप्तिर्नतु यत्र मनः क्षतम् .. ४६..
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि .
निरस्तमननानन्दः संविन्मात्रपरोऽस्म्यहम् .. ४७..
मलं संवेद्यमुत्सृज्य मनो निर्मूलयन्परम् .
आशापाशानलं छित्त्वा संविन्मात्रपरोऽस्म्यहम् .. ४८..
अशुभाशुभसंकल्पः संशान्तोऽस्मि निरामयः .
नष्टेष्टानिष्टकलनः संमात्रपरोस्म्यहम् .. ४९..
आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ .
वज्रस्तंभवदात्मानमवलंब्य स्थिरोऽस्म्यहम् .. ५०..
निर्मलायां निराशायां स्वसंवित्तौ स्थितोऽस्म्यहम् .
ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः .. ५१..
कदान्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः .
कदोपशान्तमननो धरणीधरकन्दरे .. ५२..
समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना .
निरंशध्यानविश्रान्तिमूकस्य मम मस्तके .. ५३..
कदा तार्णं करिष्यन्ति कुलायं वनपुत्रिकाः .
संकल्पपादपं तृष्णालतं छित्त्वा मनोवनम् .. ५४..
विततां भुवमासाद्य विहराभि यथासुखम् .
पदं तदनु यातोऽस्मि केवलोऽस्मि जयाम्यहम् .. ५५..
निर्वाणोऽस्मि निरीहोऽस्मि निरंशोऽस्मि निरीप्सितः .
स्वच्छतोर्जितता सत्ता हृद्यता सत्यता ज्ञता .. ५६..
आनन्दितोपशमता सदा प्रमुदितोदिता .
पूर्णतोदारता सत्या कान्तिसत्ता सदैकता .. ५७..
इत्येवं चिन्तयन्भिक्षुः स्वरूपस्थितिमञ्जसा .
निर्विकल्पस्वरूपज्ञो निर्विकल्पो बभूव ह .. ५८..
आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः .
न शूद्रस्त्रीपतितोदक्या संभाषणम् .
न यतेर्देवपूजनोत्सवदर्शनम् .
तस्मान्न संन्यासिन एष लोकः .
आतुरकुटीचकयोर्भूलोकभुवर्लोकौ .
बहूदकस्य स्वर्गलोकः .
हंसस्य तपोलोकः . परमहंसस्य सत्यलोकः .
तुरीयातीतावधूतयोः स्वात्मन्येव कैवल्यं
स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् .
स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्राभ्यास
उष्ट्रकुंकुमभारवद्व्यर्थः . न योगशास्त्रप्रवृत्तिः .
न सांख्यशास्त्राभ्यासः . न मन्त्रतन्त्रव्यापारः .
नेतरशास्त्रप्रवृत्तिर्यतेरस्ति . अस्ति चेच्छवालंकारव-
त्कर्माचर विद्यादूरः .
न परिव्राण्नामसंकीर्तनपरो यद्यत्कर्म करोति तत्तत्फलमनुभवति .
एरण्डतैलफेनवत्सर्वं परित्यजेत् . न देवताप्रसादग्रहणम् .
न बाह्यदेवाभ्यर्चनं कुर्यात् . स्वव्यतिरिक्तं सर्वं त्यक्त्वा
मधुकरवृत्त्याहारमाहरन्कृशीभूत्वा मेदोवृद्धिमकुर्वन्विहरेत् .
माधूकरेण करपात्रेणास्यपात्रेण वा कालं नयेत् .
आत्मसंमितमाहारमाहरेदात्मवान्यतिः .
आहारस्य च भागौ द्वौ तृतीयमुदकस्य च .
वायोः संचरणार्थाय चतुर्थमवशेषयेत् ..५९..
भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् .
निरीक्षन्ते त्वनुद्विग्नास्तद्गृहं यत्नतो व्रजेत् .. ६०..
पञ्चसप्तगृहाणां तु भिक्षामिच्छेत्क्रियावताम् .
गोदोहमात्रमाकाङ्क्षेन्निष्क्रान्तो न पुनर्व्रजेत् .. ६१..
नक्ताद्वरश्चोपवास उपवासादयाचितः .
अयाचिताद्वरं भैक्ष्यं तस्मात्भैक्षेण वर्धयेत् .. ६२..
नैव सव्यापसव्येन भिक्षाकाले विशेद्गृहान् .
नातिक्रामेद्गृहं मोहाद्यत्र दोषो न विद्यते .. ६३..
श्रोत्रियान्नं न भिक्षेत श्रद्धाभक्तिबहिष्कृतम् .
व्रात्यस्यापि गृहे भिक्षेच्छ्रद्धाभक्तिपुरस्कृते .. ६४..
माधूकरमसंक्लृप्तं प्राक्प्रणीतमयाचितम् .
तात्कालिकं चोपपन्नं भैक्षं पञ्चविधं स्मृतम् .. ६५..
मनःसंकल्परहितांस्त्रीन्गृहान्पञ्च सप्त वा .
मधुमक्षिकवत्कृत्वा माधूकरमिति स्मृतम् .. ६६..
प्रातःकाले च पूर्वेद्युर्यद्भक्तैः प्राथितं मुहुः .
तद्भैक्षं प्राक्प्रणीतं स्यात्स्थितिं कुर्यात्तथापि वा .. ६७..
भिक्षाटनसमुद्योगाद्येन केन निमन्त्रितम् .
अयाचितं तु तद्भैक्षं भोक्तव्यं च मुमुक्षुभिः .. ६८..
उपस्थानेन यत्प्रोक्तं भिक्षार्थं ब्राह्मणेन तत् .
तात्कालिकमिति ख्यातं भोक्तव्यं यतिभिस्तदा .. ६९..
सिद्धमन्नं यदानीतं ब्राह्मणेन मठं प्रति .
उपपन्नमिति प्राहुर्मुनयो मोक्षकाङ्क्षिणः .. ७०..
चरेन्माधूकरं भैक्षं यतिर्म्लेच्छकुलादपि .
एकान्नं नतु भुञ्जीत बृहस्पतिसमादपि .
याचितायाचिताभ्यां च भिक्षाभ्यां कल्पयेत्स्थितम् .. ७१..
न वायुः स्पर्शदोषेण नाग्निर्दहनकर्मणा .
नापो मूत्रपुरीषाभ्यां नान्नदोषेण मस्करी .. ७२..
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने .
कालेऽपराह्णे भूयिष्ठे भिक्षाचरणमाचरेत् .. ७३..
अभिशतं च पतितं पापण्डं देवपूजकम् .
वर्जयित्वा चरेद्भैक्षं सर्ववर्णेषु चापदि .. ७४..
घृतं स्वमूत्रसदृशं मधु स्यात्सुरया समम् .
तैलं सूकरमूत्रं स्यात्सूपं लशुनसंमितम् .. ७५..
माषापूषादि गोमांसं क्षीरं मूत्रसमं भवेत् .
तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यतिः .
घृतसूपादिसंयुक्तमन्नं नाद्यात्कदाचन .. ७६..
पात्रमस्य भवेत्पाणिस्तेन नित्यं स्थितिं नयेत् .
पाणिपात्रश्चरन्योगी नासकृद्भैक्षमाचरेत् .. ७७..
आस्येन तु यदाहारं गोवन्मृगयते मुनिः .
तदा समः स्यात्सर्वेषु सोऽमृतत्वाय कल्पते .. ७८..
आज्यं रुधिरमिव त्यजेदेकत्रान्नं पललमिव
गन्धलेपनमशुद्धलेपनमिव क्षारमन्त्यजमिव
वस्त्रमुच्छिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव
मित्राह्लादकं मूत्रमिव स्पृहां गोमांसमिव
ज्ञातचरदेशं चण्डालवाटिकादिव स्त्रियमहिमिव
सुवर्णं कालकूटमिव सभास्थलं श्मशानस्थलमिव
राजधानीं कुंभीपाकमिव शवपिण्डवदेकत्रान्नं न
देवतार्चनम् . प्रपञ्चवृत्तिं परित्यय जीवन्मुक्तो भवेत् ..
आसनं पात्रलोपश्च संचयः शिष्यसंचयः .
दिवास्वापो वृथालापो यतेर्बन्धकराणि षट् .. ७९..
वर्षाभ्योऽन्यत्र यत्स्थानमासनं तदुदाहृतम् .
उत्कालाब्वादिपात्राणामेकस्यापीह संग्रहः .. ८०..
यतेः संव्यवहराय पात्रलोपः स उच्यते .
गृहीतस्य तु दण्डादेर्द्वितीयस्य परिग्रहः .. ८१..
कालान्तरोपभोगार्थं संचयः परिकीर्तितः .
शुश्रूषालाभपूजार्थं यशोर्थं वा परिग्रहः .. ८२..
शिष्याणां नतु कारुण्याच्छिष्यसंग्रह ईरितः .
विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते .. ८३..
विद्याभ्यासे प्रमादो यः स दिवास्वाप उच्यते .
आध्यात्मिकीं कथां मुक्त्वा भिक्षावार्तां विना तथा .. ८४..
अनुग्रहं परिप्रश्नं वृथाजल्पोऽन्य उच्यते .
एकान्नं मदमात्सर्यं गन्धपुष्पविभूषणम् .. ८५..
ताम्बूलाभ्यञ्जने क्रीडा भोगाकाङ्क्षा रसायनम् .
कत्थनं कुत्सनं स्वस्ति ज्योतिश्च क्रयविक्रयम् .. ८६..
क्रियाकर्मविवादश्च गुरुवाक्यविलङ्घनम् .
संधिश्च विग्रहो यानं मञ्चकं शुक्लवस्त्रकम् .. ८७..
शुक्लोत्सर्गो दिवास्वापो भिक्षाधारस्तु तैजसम् .
विषं चैवायुधं बीजं हिंसां तैक्ष्ण्यं च मैथुनम् .. ८८..
त्यक्तं संन्यासयोगेन गृहधर्मादिकं व्रतम् .
गोत्रादिचरणं सर्वं पितृमातृकुलं धनम् .
प्रतिषिद्धानि चैतानि सेवमानो व्रजेदधः .. ८९..
सुजीर्णोऽपि सुजीर्णासु विद्वांस्त्रीषु न विश्वसेत् .
सुजीर्णास्वपि कन्थासु सज्जते जीर्णमम्बरम् .. ९०..
स्थावरं जङ्गमं बीजं तैजसं विषमायुधम् .
षडेतानि न गृह्णीयाद्यतिर्मूत्रपुरीषवत् .. ९१..
नैवाददीत पाथेयं यतिः किंचिदनापदि .
पक्वमापत्सु गृण्हीयाद्यावदन्नं न लभ्यते .. ९२..
नीरुजश्च युवा चैव भिक्षुर्नावसथे वसेत् .
परार्थं न प्रतिग्राह्यं न दद्याच्च कथंचन .. ९३..
दैन्यभावात्तु भूतानां सौभगाय यतिश्चरेत् .
पक्वं वा यदि वाऽपक्वं याचमानो व्रजेदधः .. ९४..
अन्नपानपरो भिक्षुर्वस्त्रादीनां प्रतिग्रही .
आविकं वानाविकं वा तथा पट्टपटानपि .. ९५..
प्रतिगृह्य यतिश्चैतान्पतत्येव न संशयः .
अद्वैतं नावमाश्रित्य जीवन्मुक्तत्वमाप्नुयात् .. ९६..
वाग्दण्डे मौनमातिष्टेत्कायदण्डे त्वभोजनम् .
मानसे तु कृते दण्डे प्राणायामो विधीयते .. ९७..
कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते .
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः .. ९८..
रथ्यायां बहुवस्त्राणि भिक्षा सर्वत्र लभ्यते .
भूमिः शय्यास्ति विस्तीर्णा यतयः केन दुःखितः .. ९९..
प्रपञ्चमखिलं यस्तु ज्ञानाग्नौ जुहुयाद्यतिः .
आत्मन्यग्नीन्समारोप्य सोऽग्निहोत्री महायतिः .. १००..
प्रवृत्तिर्द्विविधा प्रोक्ता मार्जारी चैव वानरी .
ज्ञानाभ्यासवतामोतुर्वानरीभाक्त्वमेव च .. १०१..
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः .
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् .. १०२..
सर्वेषामेव पापानां सङ्घाते समुपस्थिते .
तारं द्वादशसाहस्रमभ्यसेच्छेदनं हि तत् .. १०३..
यस्तु द्वादशसाहस्रं प्रणवं जपतेऽन्वहम् .
तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते.. १०४..
इत्युपनिषत् हरिः ॐ तत्सत् .. इति द्वितीयोऽध्यायः .. २..
ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु . ॐ शान्तिः शान्तिः शान्तिः ..
इति संन्यासोपनिषत्समाप्ता ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com