.. सरस्वतीरहस्योपनिषत् ..
प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् .
अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ..
ॐ वाङ्मे मनसि प्रतिष्ठिता
मनो मे वाचि प्रतिष्ठितम् ..
आविरावीर्म एधि वेदस्य म आणीस्थः
शृतं मे मा प्रहासीः अनेनाधीतेनाहोरात्रान्सन्दधामि
ऋतं वदिष्यामि सत्यं वदिष्यामि ..
तन्मामवतु तद्वक्तारमवतु
अवतु मामवतु वक्तारमवतु वक्तारम् ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ ..
ऋषयो ह वै भगवन्तमाश्वलायनं संपूज्य पप्रच्छुः
केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् . यदुपासनया
तत्त्वं जानासि भगवन्वद .. १..
सरस्वतीदशश्लोक्या सऋचा बीजमिश्रया .
स्तुत्वा जप्त्वा परां सिद्धिमलभं मुनिपुङ्गवाः .. २..
ऋषयः ऊचुः .
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत .
महासरस्वती येन तुष्टा भगवती वद .. ३..
स होवाचाश्वलायनः .
अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य .
अहमाश्वलायन ऋषिः . अनुष्टुप् छन्दः .
श्रीवागीश्वरी देवता . यद्वागिति बीजम् . देवीं वाचमिति
शक्तिः .
ॐ प्रणो देवीति कीलकम् . विनियोगस्तत्प्रीत्यर्थे . श्रद्धा
मेधा
प्रज्ञा धारणा वाग्देवता महासरस्वतीत्येतैरङ्गन्यासः ..
नीहारहारघनसारसुधाकराभां
कल्याणदां कनकचम्पकदामभूषाम् .
उत्तुङ्गपीनकुचकुम्भमनोहराङ्गीं
वाणीं नमामि मनसा वचसा विभूत्यै .. १..
ॐ प्रणो देवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः .
गायत्री छन्दः . श्रीसरस्वती देवता . प्रणवेन
बीजशक्तिः कीलकम् . इष्टार्थे विनियोगः . मन्त्रेण न्यासः ..
या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः .
नामरूपात्मना व्यक्ता सा मां पातु सरस्वति .. १..
ॐ प्रणो देवी सरस्वती वाजेभिर्वाजेनीवती .
धीनामवित्र्यवतु .. १..
आ नो दिव इति मन्त्रस्य अत्रिरृषिः . त्रिष्टुप् छन्दः .
सरस्वती देवता . ह्रीमिति बीजशक्तिः कीलकम् . इष्टार्थे
विनियोगः .
मन्त्रेण न्यासः ..
या साङ्गोपाङ्ग वेदेषु चतुर्श्वेकैव गीयते .
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ..
ह्रीं आ नो दिवो बृहतः पर्वतादा
सरस्वती यजतागं तु यज्ञम् .
हवं देवी जुजुषाणा घृताची
शग्मां नो वाचमुषती श्रुणोतु .. २..
पावका न इति मन्त्रस्य . मधुच्छन्द ऋषिः .
गायत्री छन्दः . सरस्वती देवता .
श्रीमिति बीजशक्तिः कीलकम् . इष्टार्थे विनियोगः .
मन्त्रेण न्यासः ..
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते .
अनादिनिधनानन्ता सा मां पातु सरस्वती ..
श्रीं पावका नः सरस्वती वाजेभिर्वाजिनीवती .
यज्ञं वष्टु धिया वसुः .. ३..
चोदयत्रीति मन्त्रस्य मधुच्छन्द ऋषिः .
गायत्री छन्दः . सरस्वती देवता .
ब्लूमिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः ..
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी .
प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ..
ब्लूं चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् .
यज्ञं दधे सरस्वती .. ४..
महो अर्ण इति मन्त्रस्य . मधुच्छन्द ऋषिः .
गायत्री छन्दः . सरस्वती देवता . सौरिति बीजशक्तिः
कीलकम् . मन्त्रेण न्यासः .
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति .
रुद्रादित्यादिरूपस्था यस्यामावेश्यतां पुनः .
ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती .
सौः महो अर्णः सरस्वती प्रचेतयति केतुना .
धियो विश्वा विराजति .. ५..
चत्वारि वागिति मन्त्रस्य उचथ्यपुत्रो दीर्घतमा ऋषिः .
त्रिष्टुप् छन्दः . सरस्वती देवता . ऐमिति बीजशक्तिः
कीलकम् . मन्त्रेण न्यासः .
या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते .
व्यापिनि ज्ञप्तिरूपैका सा मां पातु सरस्वती ..
ऐं चत्वारि वाक् परिमिता पदानि
तानि विदुर्ब्राह्मणा ये मनीषिणः .
गुहा त्रीणि निहिता नेङ्गयन्ति
तुरीयं वाचो मनुष्या वदन्ति .. ६..
यद्राग्वदन्तीति मन्त्रस्य भार्गव ऋषिः .
त्रिष्टुप् छन्दः . सरस्वती देवता .
क्लीमिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः .
नामजात्यादिमिर्भेदैरष्टधा या विकल्पिता .
निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ..
क्लीं यद्वाग्वदन्त्यविचेतनानि
राष्ट्री देवानां निषसाद मन्द्रा .
चतस्र ऊर्जं दुदुहे पयांसि
क्व स्विदस्याः परमं जगाम .. ७..
देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः .
त्रिष्टुप् छन्दः . सरस्वती देवता .
सौरिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः .
व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् .
सर्वकामदुघा धेनुः सा मां पातु सरस्वती ..
सौः देवीं वाचमजनयन्त
देवास्ता विश्वरूपाः पशवो वदन्ति .
सा नो मन्द्रेषमूर्जं दुहाना
धेनुर्वागस्मानुपसुष्टुतैतु ..८..
उत त्व इति मन्त्रस्य बृहस्पतिरृशिः .
त्रिष्टुप्छन्दः . सरस्वती देवता .
समिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः .
यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना .
योगी याति परं स्थानं सा मां पातु सरस्वती ..
सं उत त्वः पश्यन्न ददर्श वाचमुत त्वः
शृण्वन्न शृणोत्येनाम् . उतो त्वस्मै तन्वं १ विसस्रे
जायेव पत्य उशती सुवासाः .. ९..
अम्बितम इति मन्त्रस्य गृत्समद ऋषिः .
अनुष्टुप् छन्दः . सरस्वती देवता .
ऐमिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः .
नामरूपात्मकं सर्वं यस्यामावेश्य तं पुनः .
ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ..
ऐं अम्बितमे नदीतमे देवितमे सरस्वती .
अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि .. १०..
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम .
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती .. १..
नमस्ते शारदे देवि काश्मीरपुरवासिनी .
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे .. २..
अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी .
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा .. ३..
कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता .
महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् .. ४..
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा .
भक्तजिह्वाग्रसद्ना शमादिगुणदायिनी .. ५..
नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् .
भवानीं भवसन्तापनिर्वापणसुधानदीम् .. ६.
यः कवित्वं निरातङ्कं भक्तिमुक्ती च वाञ्छति .
सोऽभ्यैर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् .. ७..
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् .
भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् .. ८..
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा .
गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः .. ९..
अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः .
इत्येवं निश्चयं विप्राः सा होवाच सरस्वती .. १०..
आत्मविद्या मया लब्धा ब्रह्मणैव सनातनी .
ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः .. ११..
प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः .
सत्यमाभाति चिच्छाया दर्पणे प्रतिबिम्बवत् .. १२..
तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः .
प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते .. १३..
शुद्धसत्त्वप्रधानायां मायायां बिम्बितो ह्यजः .
सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते .. १४..
सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि .
वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु .. १५..
सात्त्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि .
जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते .. १६..
यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः .
शक्तिद्वयं हि मायया विक्षेपावृत्तिरूपकम् .. १७..
विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् .
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः .. १८..
आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् .
साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् .. १९..
चितिच्छाया समावेशाज्जीवः स्याद्व्यावहारिकः .
अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते .. २०..
आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् .
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति .. २१..
या शक्तिस्त्वद्वशाद्ब्रह्म विकृतत्वेन भासते .
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः .. २२..
भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि क्वचित् .
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् .. २३..
आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् .
अपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः .. २४..
समाधिं सर्वदा कुर्याधृदये वाथ वा बहिः .
सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि .. २५..
दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा .
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् .. २६..
ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः .
असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः .. २७..
अस्मीतिशब्दविद्धोऽयं समाधिः सविकल्पकः .
स्वानुभूतिरसावेशाद्दृश्यशब्दाद्यपेक्षितुः .. २८..
निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् .
हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि .. २९..
समाधिराद्यसन्मात्रान्नामरूपपृथक्कृतिः .
स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः .. ३०..
एतैः समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् .
देहाभिमाने गलिते विज्ञाते परमात्मनि .
यत्र यत्र मनो याति तत्र तत्र परामृतम् .. ३१..
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयः .
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे .. ३२..
मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि .
इति यस्तु विजानाति स मुक्तो नात्र संशयः .. ३३..
ॐ वाङ्मे मनसि प्रतिष्ठिता .
मनो मे वाचि प्रतिष्ठितम् .
आविरावीर्म एधि . वेदस्य म आणीस्थः .
शृतं मे मा प्रहासीः .
अनेनाधीतेनाहोरात्रान्सन्दधामि .
ऋतं वदिष्यामि . सत्यं वदिष्यामि .
तन्मामवतु . तद्वक्तारमवतु .
अवतु मामवतु वक्तारमवतु वक्तारम् ..
.. इति सरस्वतीरहस्योपनिषत्समाप्ता ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com