.. सावित्र्युपनिषद् ..
सावित्र्युपनिषद्वेद्यचित्सावित्रपदोज्ज्वलम् .
प्रतियोगिविनिर्मुक्तं रामचन्द्रपदं भजे .. १..
सावित्र्यात्ना पाशुपतं परं ब्रह्मावधूतकम् .
त्रिपुरातपनं देवी त्रीपुरा कठभावना .. २..
ॐ आप्यायन्तु ममान्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बल-मिन्द्रियाणि च . सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
नि-राकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-स्त्वनिराकरणं
मेऽस्तु . तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि
सन्तु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ ..
कः सविता क सावित्री अग्निरेव सविता पृथिवी सावित्री स
यत्राग्निस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी
तदेकं मिथुनम् ..~१..
कः सविता का सवित्री वरुण एव सवितापः सावित्री स यत्र
वरुण-स्तदापो यत्र वा आपस्तद्वरुणस्ते द्वे योनिस्तदेकं
मिथुनम् ..~२..
कः सविता क सावित्री वायुरेव सविताकाशः सावित्री स यत्र
वायुस्तदाकाशो यत्र वा आकाशस्तद्वायुस्ते द्वे योनिस्तदेकं
मिथुनम् ..~३..
कः सविता का सावित्री यज्ञ एव सविता चन्दांसि सावित्री स
यत्र यज्ञस्तत्र चन्दांसि यत्र वा चन्दांसि स यज्ञस्ते द्वे
योनिस्तदेकं मिथुनम् .. ४..
कः सविता का सावित्री स्तनयित्रुरेव सविता विद्युत्सावित्री स
यत्र स्तनयित्रुस्तद्विद्युत् यत्र वा विद्युत्तत्र स्तनयित्रुस्ते द्वे
योनिस्तदेकं मिथुनम् .. ५..
कः सविता का सावित्री आदित्य एव सविता द्यौः सावित्री स
यत्रादित्यस्तद्द्यौर्यत्र वा द्यौस्तदादित्यस्ते द्वे योनिस्तदेकं
मिथुनम् .. ६..
कः सविता का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री
स यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणे स चन्द्रमास्ते
द्वे योनिस्तदेकं मिथुनम् .. ७..
कः सविता का सावित्री मन एव सविता वाक् सावित्री स यत्र
मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनिस्तदेकं
मिथुनम् .. ८..
कः सविता का सावित्री पुरुप एव सविता स्त्री सावित्री स यत्र
पुरुषस्तत्स्त्री यत्र वा स्त्री स पुरुषस्ते द्वे योनिस्तदेकं
मिथुनम् ..~९..
तस्या एव प्रथमः पादो भूस्तत्सवितुर्वरेण्यमित्यग्निर्वै
वरेण्यमापो वरेण्यं चन्द्रमा वरेण्यम् . तस्या एव द्वितीयः
पादो भर्गमयोऽपि भुव्प् भर्गो देवस्य धीमहीत्यग्निर्वै भर्ग
आदित्यो वै भर्गश्चन्द्रमा वै भर्गः . तस्या एष तृतीयः
पादः स्वर्धियो यो नः प्रचोदयादिति स्त्री चैव पुरुषश्च
प्रजनयतो यो वा एतां सावित्रीमेवं वेद स पुनर्मृत्युं
जयति बलातिबलयोर्विराट् पुरुषः . गायत्री चन्दः .
गायत्री देवता . अकारोकारमकारा वीजाद्याः .
क्षुधादिनिरसने विनियोगः . क्लामित्यादिषडन्गन्यासः .
द्यानम् . अमृतकरतलार्द्रौ
सर्वसंजीवनाढ्यावघहरणसुदक्षौ वेदसारे मयूखे .
प्रणवमयविकारौ भास्कराकारदेहौ सततमनूभवे्अं तौ
बलातिबलान्तौ ..
ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं
चतुर्विधपुरुषार्थसिद्धिप्रदे तत्सवितुर्वरदात्मिके
ह्रीं बरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्वदयामूर्ते
बले सर्वक्षुद्भ्रमोपनाशिनि धीमहि धियो यो नो जाते प्रचुर्यः
या प्रचोदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स्वाहा .
एवं विद्वान् कृतकृत्यो भवति सावित्र्या एव सलोकतां
जयतीत्युपनि-षत् ..
ॐ आप्यायन्तु ममान्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बल-मिन्द्रियाणि च . सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
नि-राकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-स्त्वनिराकरणं
मेऽस्तु . तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि
सन्तु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ तत्सत् ..
इति सावित्र्युपनिषत्समाप्ता ..
Savitri Upani\dsad
transliterated by: Anshuman Pandey
31 December 1996
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com