.. श्री शारदा भुजङ्गप्रयात स्तवनम् ..
.. दक्षिणाम्नाय श्रिङ्गेरी श्रीशारदापीठाधिपति
शङ्कराचार्य जगद्गुरुवर्यो श्री सच्चिदानन्द शिवाभिनव
नृसिंहभारती महास्वामिभिः विरचितम् ..
ॐ स्मितोद्धूतराका निशानायकायै कपोलप्रभानिर्जितादर्शकायै .
स्वनेत्रावधूताङ्गजातध्वजायै सरोजोत्थ सत्यै नमः शारदायै ..
भवाम्बोधिपारं न यन्त्यै स्वभक्तान् विनाऽयासलेशं कृपानौकयैव .
भवाम्भोजनेत्रादि सम्सेवितायै अजस्रं हि कुर्मो नमः शारदायै ..
सुधाकुम्भमुद्राविराजत्करायै व्यथाशून्यचित्तैः सदा सेवितायै .
क्रुधाकामलोभादिनिर्वापणायै विधातृप्रियायै नमः शारदायै ..
नतेष्टप्रदानाय भूमिं गतायै गतेनाच्छबर्हाभिमानं हरंत्यै .
स्मितेनेन्दु दर्पं च तोषां व्रजन्त्यै सुतेनेव नम्रैर्नमः शारदायै ..
नतालीयदारिद्र्यदुःखापहन्त्र्यै तथाभीतिभूतादिबाधाहरायै .
फणीन्द्राभवेण्यै गिरीन्द्रस्तनायै विधातृप्रियायै नमः शारदायै ..
सुधाकुम्भमुद्राक्षमालाविराजत् करायै कराम्भोजसम्मर्दितायै .
सुराणां वराणां सदा मानिनीनां मुदा सर्वदायै नमः शारदायै ..
समस्तैश्च वेदैः सदागीतकीर्त्यै निराशान्तरङ्गाम्बुजात स्थितायै .
पुराराति पद्माक्ष पद्मोद्भवाद्यैर्मुदा पूजितायै नमः शारदायै ..
अविद्यापदुद्धार बद्धादरायै तथा बुद्धि सम्पत्प्रदानोत्सुकायै .
नतेभ्यः कदाचित्स्वपादाम्बुजाते विधेः पुण्यतत्यै नमः शारदायै ..
पदाम्भोजनम्रान् कृतेभीतभीतान् द्रुतं मृत्युभीतेर्विमुक्तान् विधातुम् .
सुधाकुम्भमुद्राक्षमाला करायै द्रुतं पाययित्वा यथा तृप्ति वाणी ..
महान्तो हि मह्यं हृदम्भोरुहाणि प्रमोदात्समर्प्यासते सौख्यभाजः .
इति ख्यापनायानतानां कृपाब्धे सरोजान्यसंख्यानि धत्से किमम्ब ..
शरच्चन्द्रनीकाशवस्त्रेणवीता कनद्भर्मयष्टेरहङ्कार भेत्री .
किरीटं सताटङ्कमत्यन्तरम्यं वहन्ति हृदब्जे स्फुरत्वं सुमूर्तिः ..
निगृह्याक्षवर्गं तपोवाणि कर्तुं न शक्नोमि यस्यादवश्याक्षवर्गः .
ततो मय्यनाथे दया पारशून्या विधेया विधातृप्रिये शारदाम्ब ..
विलोक्यापि लोको न तृप्तिं प्रयाति प्रसन्नं मुखेन्दुं कलङ्कादिशून्यम् .
यदीयं ध्रुवं प्रत्यहं तां कृपाब्धिं भजे शारदाम्बामजस्रम्मदम्बाम् ..
पुरा चन्द्रचूडो धृताचार्यरूपो गिरौ शृङ्गपूर्वे प्रतिष्ठाप्य चक्रे .
समाराध्य मोदं ययौ यामपारं भजे शारदाम्बामजस्रम्मदम्बाम् ..
भवाम्बोधिपारं नयन्तीं स्वभक्तान् भवाम्भोजनेत्राजसम्पूज्यमानाम् .
भवद्भव्यभूताघ विध्वंसदक्षां भजे शारदाम्बामजस्रम्मदम्बाम् ..
वराक त्वरा का तवेष्टप्रदाने कथं पुण्यहीनाय तुभ्यं ददानि .
इति त्वं गिरां देवि मा ब्रूहि यस्मादघारण्यदावानलेति प्रसिद्धा .. ॐ ..
Encoded by R. Harshananda harshanand\__16@rediffmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com