.. श्री शारदा परमेश्वरी सुप्रभातम् ..
ॐ श्रीशारदे जगन्मातः पूर्वा संध्या प्रवर्तते .
उत्तिष्ठ करुणापाङ्गैः कर्तव्यं विश्वमङ्गलम् ..
श्रीशृङ्गाद्रिपुरी रत्नसिंहासननिवासिनी .
उत्तिष्ठ शारदाम्ब श्री शङ्कराचार्य सन्नुते ..
उत्तिष्ठोत्तिष्ठ भगवत्पादशङ्करमूर्तिभिः .
जगद्गुरुभिराराध्ये जगज्जननि शारदे ..
ब्रह्मर्षयोऽम्ब सनकादय एत्य भक्त्या
ब्राह्मीमनन्य मनसो हृदि ब्रह्मविद्याम् .
त्वामामनन्त्युपनिषत्सरसीज हंसीम्
श्रीशारदाम्ब वरदे तव सुप्रभातम् ..
फुल्लानि पङ्कजवनानि सतां मनाम्सि
धीवृत्तयश्च सरितश्च दिशः प्रसान्नाः .
अज्ञानमाशु तिमिरं च विलीयतेऽम्ब
श्री शारदे विजयते तव सुप्रभातम् ..
हंसः प्रयात्युदयमम्बुज काननेषु
हंसाः प्रसन्नमनसो मुदिता रमन्ते .
हंसात्मना परमहंसकुलं मुदास्ते
श्री शारदे विजयते तव सुप्रभातम् ..
श्रद्धाघनाश्शमदमादियुता विनेयाः
शुद्धाशया विदलिताखिलकर्मबन्धाः .
आज्ञाविमुक्ति पदभाज इमे ब्रुवन्ति
श्री शारदाम्ब विमलं तव सुप्रभातम् ..
गीर्वाणवृन्दमखिलं पुरतो विधाय
गीर्वाणवन्द्यमुपयात्युचितोपहारैः .
शर्वादिसन्नुतपदामिह सेवितुं त्वाम्
श्री शारदाम्ब शिवदं तव सुप्रभातम् ..
सर्वार्तिहारिणि समस्त सुखप्रदात्रि
दुर्वादिगर्वशमयित्रि जगज्जनित्रि .
निर्वाणदात्रि निगमान्त विबोधयित्रि
श्री शारदे शिवस्वरूपिणि सुप्रभातम् ..
सद्वेदशास्त्र निगमान्त रहस्य विज्ञाः
प्राज्ञास्त्वदङ्घ्रि सरसीज परागगन्धम् .
आघ्राय दिव्यमभवन्निखिलाः कृतार्थाः
श्री शारदे सुमनसस्तव सुप्रभातम् ..
मुक्तिस्थिता करतले हृदये प्रमोदः
जिह्वाग्रगाश्च सहसैव समस्तविद्याः .
त्वद्दर्शनं भवति यस्य हि तस्य पुंसः
श्री शारदाम्ब शुभदं तव सुप्रभातम् ..
त्वत्संस्मृतेऽरपि नरं विजहात्यलक्Sमीः
लक्ष्मीः समाश्रयति नूनमचञ्चलाम्ब .
श्रद्धावतां त्वयि विमुक्तिरयत्नसिद्धा
श्री शारदे जगदधीश्वरि सुप्रभातम् ..
ब्रह्मात्मभावमधिगम्य हृदा सदात्मा
रामा अपि त्वदमलाङ्घ्रि सरोजरेणून् .
वाञ्छत्यमी परमहंसकुलावतंसाः
शी शारदाम्ब हृदये तव सुप्रभातम् ..
तुङ्गासरिद्विमलवारि तरङ्गरङ्ग
रिङ्गत्सरोजवनदिव्य सुगन्धवाहः .
अङ्गीकुरुष्व पवनः प्रकरोति सेवाम्
श्री शारदाम्ब कृपया तव सुप्रभातम् ..
प्राक् सिन्धु पाथसि त्रयीतनुरेषभक्त्या
स्नातस्तथोदय गिरावुदितस्तपस्वी .
त्वत्पादपद्मभजनाय सहस्रभानुः
श्री शारदाम्ब समुदेति च सुप्रभातम् ..
ब्रह्माच्युतत्रिनयना विनयेन भक्त्या
सिंहासने स्थितवतीं प्रणवस्वरूपाम् .
वाचा हृदा च वपुषा च समाश्रयन्ति
श्री शारदाम्ब परमेश्वरि सुप्रभातम् ..
इन्द्रानलादय इमे दिगधीश्वराश्च
सूर्येन्दुभौमबुधगीष्पति शुक्रमुख्याः .
सर्वे ग्रहाश्च भयभक्तियुता नमन्ति
श्री शारदे तव महेश्वरि सुप्रभातम् ..
देवाङ्गनामणिगणश्च शचीमुखोऽयम्
त्वामीश्वरीं त्रिजगदेक समर्चनीयाम् .
संसेवितुं सुसमये समुपागतेऽस्मिन्
श्री शारदाम्ब विहिते तव सुप्रभातम् ..
वाचा सुधा मधुरया रमणीय सप्त
तन्त्रीप्रकर्श मधुरस्वनया महत्या .
देवर्षिवर्य इह गायति भक्तिनम्रः
श्री शारदाम्ब मधुरं तव सुप्रभातम् ..
त्वत्पादपङ्कज पराग सुगन्धलेशम्
आघ्राय सत्कविमदभ्रमरा प्रहृष्टाः .
गायन्ति कोमलमनोहरवृत्तपद्यैः
श्री शारदाम्ब ललितैस्तव सुप्रभातम् ..
श्री व्यासशङ्करसुरेश्वरपद्मपादा
द्याचार्यवर्यपरिपूजित पादपद्मे .
लीलाशुकाक्षवलयोज्वल पाणिपद्मे
श्री शारदाम्ब परमे तव सुप्रभातम् ..
पद्माक्षि पद्ममुखि पद्मभवादिवन्द्ये
पद्मालयेऽखिलवराभय पाणिपद्मे .
हृत्पद्मपीठमधितिष्ठ ममापि मातः
श्री शारदे करुणया तव सुप्रभातम् ..
यः पुस्तकाक्षवलयाञ्चित पाणिपद्माम्
वागीश्वरीं हृदयपद्मगतां स्मरेत्वाम् .
वागीशतां समुपयाति स सद्य एव
श्री शारदाम्ब भुवने तव सुप्रभातम् ..
संसारसागरमपारमनन्तलोल
कल्लोल दुर्ललितमेतमतीत्यतूर्णम् .
तीर्णः स्वयं स खलु तारयति श्रिताम्श्च
श्री शारदे स्मरति यस्तव सुप्रभातम् ..
राकाशशाङ्करमणीय मनोज्ञकान्तिम्
सोमावतम्समकुटां सुमकोमलाङ्गीम् .
त्वां संस्मरामि कृपयैव विलोकयन्तीम्
श्री शारदाम्ब हृदि मां तव सुप्रभातम् ..
दातुं त्रिवर्गमपवर्गमपि त्रिलोक्याः
नूनं निजस्मरणतोऽपि समेधमाने .
त्वद्वक्त्र चन्द्रमसि चन्द्रमसापयातम्
श्री शारदाम्ब शशिना तव सुप्रभातम् ..
पूर्णे कलङ्करहिते भुवनार्तिहारि-
ण्यज्ञानसन्तमसभेदिनि त्वन्मुखेन्दौ .
नित्योदिते जगति भक्तचकोरलोकः
श्री शारदाम्ब मुदितस्तव सुप्रभातम् ..
पुण्याः स्त्रियाश्च पुरुषाश्च कलावपि त्वाम्
मातर्यदा कृतयुगे परयाम्ब भक्त्या .
संसेव्य शृङ्गगिरिपीठगतां कृतार्थाः
श्री शारदे कृतधियस्तव सुप्रभातम् ..
त्वत्सेवनाय भवबन्धविमुक्तिकामाः
कारुण्यकल्पलतिके कतिचिन्महान्तः .
आयान्ति शुद्धचरितास्सुधियश्च भक्ताः
श्री शारदे प्रमुदितास्तव सुप्रभातम् ..
श्री चन्द्रशेखर जगद्गुरु सार्वभौम
श्री पाणि पद्मज जगद्गुरुसार्वभौमैः .
तत्पाणिपङ्कज समुत्थ गुरूत्तमैश्च
श्री शारदाम्ब विनुते तव सुप्रभातम् ..
ये सज्जना अनुदिनं मुदिताः प्रभाते
भक्त्या पठन्ति परया भुवि शारदायाः .
श्रीसुप्रभात विनुतिं सकलैर्विमुक्ताः
क्लेशैः प्रयान्ति पुरुषार्थ चतुष्टयं द्राक् ..
ये सुप्रभातमिदमाश्रितवत्सलायाः
श्रद्धायुता अनुदिनं हृदि शारदायाः .
प्रातः पठन्ति मनुजा जगदम्बिकायाः
ते प्राप्नुवन्ति सुजनास्सकालानभीष्टान् ..
श्री शारदा सुप्रभात स्मरणात्करुणानिधिः .
पारदा स्यात् क्षणेनैवापारसंसार वारिधेः ..
Encoded by R. Harshananda harshanand\__16@rediffmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com