.. शान्तिपाठ ..
.. शान्तिपाठ ..
ऋग्वेद ---ऐतरेय उपनिषत् .
ॐ वाङ्मे मनसि प्रतिष्ठिता .
मनो मे वाचि प्रतिष्ठितम् .
आविराविर्म एधि .
वेदस्य म आणीस्थः .
श्रुतं मे मा प्रहासीः .
अनेनाधीतेनाहोरात्रान् संदधामि .
ऋतं वदिष्यामि सत्यं वदिष्यामि .
तन्मामवतु तद्वक्तारमवतु .
अवतु मामवतु वक्तारम् ..
ॐ शान्तिः शान्तिः शान्तिः ..
सामवेद ---केन ,छांदोग्य
ॐ आप्यायंतु ममांगानि वाक्प्राणश्चक्षुःश्रोत्रम् .
अथो बलमिन्द्रियाणि च सर्वाणि .
सर्वं ब्रह्मौपनिषदं माहं ब्रह्मनिराकुर्याम् .
मा मा ब्रह्मनिराकरोदनिराकरणमस्तु .
अनिराकरणं मेस्तु .
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि संतु .
ते मयि संतु ..
ॐ शान्तिः शान्तिः शान्तिः ..
कृष्ण-यजुर्वेद ---कठ
ॐ सह नाववतु .
सह नौ भुनक्तु .
सह वीर्यं करवावहै .
तेजस्वि नावधीतमस्तु .
मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
कृष्ण-यजुर्वेद ---तैत्तिरीय
ॐ शं नो मित्रः शं वरुणः .
शं नो भवत्वर्यमा .
शं न इन्द्रो बृहस्पतिः .
शं नो विष्णुरुरुक्रमः .
नमो ब्रह्मणे नमस्ते वायो .
त्वमेव प्रत्यक्षं ब्रह्मासि .
त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि .
ऋतं वदिष्यामि सत्यं वदिष्यामि .
तन्मामवतु तद्वक्तारमवतु .
अवतु मामवतु वक्तारम् ..
ॐ शान्तिः शान्तिः शान्तिः ..
शुक्ल-यजुर्वेद ---ईशावास्य,बृहदारण्यक
ॐ पूर्णमदः पूर्णमिदम् पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
अथर्व-वेद ---प्रश्न ,मुंडक ,मांडुक्य
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः .
भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः .
व्यशेम देवहितं यदायुः ..
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः .
स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .
स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः शान्तिः शान्तिः ..
Please send corrections to Sunder Hattangadi (sunderh@hotmail.com)
Last updated on October 20 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com