.. शारीरकोपनिषत् .. ६२..
तत्त्वग्रामोपायसिद्धं परतत्त्वस्वरूपकम् .
शारीरोपनिषद्वेद्यं श्रीरामब्रह्म मे गतिः ..
ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्वि नावधीतमस्तु . मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ अथातः पृथिव्यादिमहाभूतानां समवायं शरीरम् .
यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति
स वायुर्यत्सुषिअरं तदाकाशम्
श्रोत्रादीनि ज्ञानेन्द्रियाणि . श्रोत्रमाकाशे वायौ त्वगग्नौ चक्षुरप्सु
जिह्वा पृथिव्यां घ्राणमिति .
एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धाश्चैते
विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः .
वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि .
तेषां क्रमेण वचनादानगमनविसर्गानन्दश्चैते विषयाः
पृथिव्यादिमहाभूतेषु क्रमेणोत्पनाः .
मनोबुद्धिरहङ्कारश्चित्तमत्यन्तःकरणचतुष्टयम् .
तेषां क्रमेण सङ्कल्पविकल्पाध्यवसायाभिमानावधारणास्वरूपश्चैते
विषयाः .
मनःस्थानं गलान्तं बुद्धेर्वदनमहङ्कारस्य हृदयं चित्तस्य नाभिरिति .
अस्थिचर्मनाडीरोममांसाश्चेति पृथिव्यंशाः .
मूत्रश्लेष्मरक्तशुक्रस्वेदा अबंशाः .
क्षुत्तृष्णालस्यमोहमैथुनान्यग्नेः .
प्रचारणविलेखनस्थूलाक्ष्युन्मेषनिमेषादि वायोः .
कामक्रोधलोभमोहभयान्याकाशस्य .
शब्दस्पर्शरूपरसगन्धाः पृथिवीगुणाः .
शब्दस्पर्शरूपरसाश्चापां गुणाः .
शब्दस्पर्शरूपाण्यग्निगुणाः .
शब्दस्पर्षाविति वायुगुणौ .
शब्द एक आकाशस्य .
सात्त्विकराजसतामसलक्षणानि त्रयो गुणाः ..
अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः .
अक्रोधो गुरुशुश्रुषा शौचं सन्तोष आर्जवम् .. १..
अमानित्वमदम्भित्वमास्तिकत्वमहिंस्रता .
एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः .. २..
अहं कर्ताऽस्म्यहं भोक्ताऽस्म्यहं वक्ताऽभिमानवान् .
एते गुणा राजसस्य प्रोच्यन्ते ब्रह्मवित्तमैः .. ३..
निद्रालस्ये मोहरागौ मैथुनं चौर्यमेव च .
एते गुणस्तामसस्य प्रोच्यन्ते ब्रह्मवादिभिः .. ४..
ऊर्ध्वे सात्विको मध्ये रजसोऽधस्तामस इति .
सत्यज्ञानं सात्त्विकम् . धर्मज्ञानं राजसम् . तिमिरान्धं तामसमिति .
जाग्रत्स्वप्नसुषुप्तितुरीयमिति चतुर्विधा अवस्थाः .
ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणचतुष्टयं चतुर्दशकरणयुक्तं जाग्रत् .
अन्तःकरणचतुष्टयैरेव संयुक्तः स्वप्नः .
चित्तैककरणा सुषुप्तिः .
केवलजीवयुक्तमेव तुरीयमिति .
उन्मीलितनिमीलितमध्यस्थजीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इति विज्ञायते ..
बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया .
शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते .. ५..
मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः .
एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे .. ६..
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् .
पायूपस्थौ करौ पादौ वाक्चैव दशमी मता .. ७..
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च .
त्रयोविंशतिरेतानि तत्त्वानि प्रकृतानि तु .
चतुर्विंशतिरव्यक्तं प्रधानं पुरुषः परः .. ८..
इत्युपनिषत् ..
ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्वि नावधीतमस्तु . मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
.. इति कृष्णयजुर्वेदीय शारीरकोपनिषत्समाप्ता ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com