.. शाण्डिल्य भक्ति सूत्रम् ..
शाण्डिल्य भक्ति सूत्रम्
प्रथमोऽध्यायः
प्रथममाह्निकम्
०१ ०१ ००१ अथातो भक्तिजिज्ञासा .. १..
०१ ०१ ००२ सा पराऽनुरक्तिरीश्वरे .. २..
०१ ०१ ००३ तत्संस्थस्यामृतत्वोपदेशात् .. ३..
०१ ०१ ००४ ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः .. ४..
०१ ०१ ००५ तयोपक्षयाच्च .. ५..
०१ ०१ ००६ द्वेषप्रतिपक्षभावाद्रसशब्दाच्च रागः .. ६..
०१ ०१ ००७ न क्रिया कृत्यनपेक्षणाज्ज्ञानवत् .. ७..
०१ ०१ ००८ अत एव फलानन्त्यम् .. ८..
०१ ०१ ००९ तद्वतः प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत् .. ९..
द्वितीयमाह्निकम्
०१ ०२ ००१ सा सुख्येतरापेक्षितत्वात् .. १०..
०१ ०२ ००२ प्रकरणाच्च .. ११..
०१ ०२ ००३ दर्शनफलमिति चेन्न तेन व्यवधानात् .. १२..
०१ ०२ ००३ दृष्टत्वाच्च .. १३..
०१ ०२ ००४ अत एव तदभावाद्वल्लवीनाम् .. १४..
०१ ०२ ००५ भक्त्या जानातीति चेन्नाभिज्ञप्त्या साहाय्यात् .. १५..
०१ ०२ ००६ प्रागुक्तं च .. १६..
०१ ०२ ००७ एतेन विकल्पोऽपि प्रत्युक्तः .. १७..
०१ ०२ ००८ देवभक्तिरितरस्मिन् साहचर्यात् .. १८..
०१ ०२ ००९ योगस्तूभयार्थमपेक्षणात् प्रयाजवत् .. १९..
०१ ०२ ०१० गौण्या तु समाधिसिद्धिः .. २०..
०१ ०२ ०११ हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत् .. २१..
०१ ०२ ०१२ तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात् .. २२..
०१ ०२ ०१३ प्रश्ननिरूपणाभ्यामाधिक्यसिद्धेः .. २३..
०१ ०२ ०१४ नैव श्रद्धा तु साधारण्यात् .. २४..
०१ ०२ ०१५ तस्यां तत्त्वे चानवस्थानात् .. २५..
०१ ०२ ०१६ ब्रह्मकाण्डं तु भक्तौ तस्यानुज्ञानाय सामान्यात् .. २६..
समाप्तश्च प्रथमोऽध्यायः .. १..
द्वितीयोऽध्यायः
प्रथममाह्निकम्
०२ ०१ ००१ बुद्धिहेतुप्रवृत्तिराविशुद्धेरवघातवत् .. २७..
०२ ०१ ००२ तदङ्गानां च .. २८..
०२ ०१ ००३ तामैश्वर्यपरां काश्यपः परत्वात् .. २९..
०२ ०१ ००४ आत्मैकपरां बादरायणः .. ३०..
०२ ०१ ००५ उभयपरां शाण्डिल्यः शब्दोपपत्तिभ्याम् .. ३१..
०२ ०१ ००६ वैषम्यादसिद्धमिति चेन्नाभिज्ञानवदवैशिष्टयात् .. ३२..
०२ ०१ ००७ न च क्लिष्टः परः स्यादनन्तरं विशेषात् .. ३३..
०२ ०१ ००८ ऐश्वर्यं तथेति चेन्न स्वाभाव्यात् .. ३४..
०२ ०१ ००९ अप्रतिषिद्धं परैश्वर्यं तद्भावाच्च नैवमितरेषाम् .. ३५..
०२ ०१ ०१० सर्वानृते किमिति चेन्नैवम्बुद्ध्यानन्त्यात् .. ३६..
०२ ०१ ०११ प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानात् .. ३७..
०२ ०१ ०१२ तत्प्रतिष्ठा गृहपीठवत् .. ३८..
०२ ०१ ०१३ मिथोऽपेक्षणादुभयम् .. ३९..
०२ ०१ ०१४ चेत्याचितोर्न तृतीयम् .. ४०..
०२ ०१ ०१५ युक्तौ च सम्परायात् .. ४१..
०२ ०१ ०१६ शक्तित्वान्नानृतं वेद्यम् .. ४२..
०२ ०१ ०१७ तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्यः .. ४३..
०२ ०१ ०१८ सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्यातितदर्थप्राणस्थानतदीयतासर्वतद्भा-
वाप्रातिकूल्यादीनि च स्मरणेभ्यो वाहुल्यात् .. ४४..
०२ ०१ ०१९ द्वेषादयस्तु नैवम् .. ४५..
०२ ०१ ०२० तद्वाक्यशेषात् प्रादुर्भावेष्वपि सा .. ४६..
०२ ०१ ०२१ जन्मकर्मविदश्चाजन्मशब्दात् .. ४७..
०२ ०१ ०२२ तच्च दिव्यं स्वशक्तिमात्रोद्भवात् .. ४८..
०२ ०१ ०२३ मुख्यं तस्य हि कारुण्यम् .. ४९..
०२ ०१ ०२४ प्राणित्वान्न विभूतिषु .. ५०..
०२ ०१ ०२५ द्यूतराजसेवयोः प्रतिषेधाच्च .. ५१..
०२ ०१ ०२६ वासुदेवेऽपीति चेन्नाकारमात्रत्वात् .. ५२..
०२ ०१ ०२७ प्रत्यभिज्ञानाच्च .. ५३..
०२ ०१ ०२८ वृष्णिषु श्रैष्ठ्येन तत् .. ५४..
०२ ०१ ०२९ एवं प्रसिद्धेषु च .. ५५..
द्वितीयमाह्निकम्
०२ ०२ ००१ भक्त्या भजनोपसंहाराद्गौण्या परायै तद्धेतुत्वात् .. ५६..
०२ ०२ ००२ रागार्थप्रकीर्तिसाहचर्याच्चेतरेषाम् .. ५७..
०२ ०२ ००३ अन्तराले तु शेषाः स्युरुपास्यादौ च काण्डत्वात् .. ५८..
०२ ०२ ००४ ताभ्यः पावित्र्यमुपक्रमात् .. ५९..
०२ ०२ ००५ तासु प्रधानयोगात् फलाधिक्यमेके .. ६०..
०२ ०२ ००६ नाम्नेति जैमिनिः सम्भवात् .. ६१..
०२ ०२ ००७ अत्राङ्गप्रयोगानां यथाकालसम्भवो गृहादिवत् .. ६२..
०२ ०२ ००८ ईश्वरतुष्टेरेकोऽपि बली .. ६३..
०२ ०२ ००९ अबन्धोऽर्पणस्य मुखम् .. ६४..
०२ ०२ ०१० ध्याननियमस्तु दृष्टसौकर्यात् .. ६५..
०२ ०२ ०११ तद्यजिः पूजायामितरेषां नैवम् .. ६६..
०२ ०२ ०१२ पादोदकं तु पाद्यमव्याप्तेः .. ६७..
०२ ०२ ०१३ स्वयमर्पितं ग्राह्यमविशेषात् .. ६८..
०२ ०२ ०१४ निमित्तगुणाव्यपेक्षणादपराधेषु व्यवस्था .. ६९..
०२ ०२ ०१५ पत्रादेर्दानमन्यथा हि वैशिष्टयम् .. ७०..
०२ ०२ ०१६ सुकृतजत्वात् परहेतुभावाच्च क्रियासु श्रेयस्यः .. ७१..
०२ ०२ ०१७ गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम् .. ७२..
०२ ०२ ०१८ बहिरन्तस्थमुभयमवेष्टिसववत् .. ७३..
०२ ०२ ०१९ स्मृतिकीर्त्योः कथादेश्चार्तौ प्रायश्चित्तभावात् .. ७४..
०२ ०२ ०२० भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्महत्स्वपि .. ७५..
०२ ०२ ०२१ लघ्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात् .. ७६..
०२ ०२ ०२२ तत्स्थानत्वादनन्यधर्मः खलेवालीवत् .. ७७..
०२ ०२ ०२३ आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत् .. ७८..
०२ ०२ ०२४ अतो ह्यविपक्वभावानामपि तल्लोके .. ७९..
०२ ०२ ०२५ क्रमैकगत्युपपत्तेस्तु .. ८०..
०२ ०२ ०२६ अत्क्रान्तिस्मृतिवाक्यशेषाच्च .. ८१..
०२ ०२ ०२७ महापातकिनां त्वार्तौ .. ८२..
०२ ०२ ०२८ सैकान्तभावो गीतार्थप्रत्यभिज्ञानात् .. ८३..
०२ ०२ ०२९ परां कृत्वैव सर्वेषां तथा ह्याह .. ८४..
समाप्तश्च द्वितीयोऽध्यायः .. २..
तृतीयोऽध्यायः
प्रथममाह्निकम्
०३ ०१ ००१ भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात् .. ८५..
०३ ०१ ००२ तच्चक्तिर्माया जडसामान्यात् .. ८६..
०३ ०१ ००३ व्यापकत्वाद्वयाप्यानाम् .. ८७..
०३ ०१ ००४ न प्राणिबुद्धिभ्योऽसम्भवात् .. ८८..
०३ ०१ ००५ निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पितृवत् .. ८९..
०३ ०१ ००६ मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात् .. ९०..
०३ ०१ ००७ फलमस्माद्बादरायणो दृष्टत्वात् .. ९१..
०३ ०१ ००८ व्युत्क्रमादप्ययस्तथा दृष्टम् .. ९२..
द्वितीयमाह्निकम्
०३ ०२ ००१ तदैक्यं नानात्वैकत्वमुपाधियोगहानादादित्यवत् .. ९३..
०३ ०२ ००२ पृथगिति चेन्न परेणासम्बन्धात् प्रकाशानाम् .. ९४..
०३ ०२ ००३ न विकारिणस्तु करणविकारात् .. ९५..
०३ ०२ ००४ अनन्यभक्त्या तदूबुद्धिर्बुद्धिलयादत्यन्तम् .. ९६..
०३ ०२ ००५ आयुश्चिरमितरेषां तु हानिरनास्पदत्वात् .. ९७..
०३ ०२ ००६ संसृतिरेषामभक्तिः स्यान्नाज्ञानात् कारणासिद्धेः .. ९८..
०३ ०२ ००७ त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत् .. ९९..
०३ ०२ ००८ आविस्तिरोभावा विकाराः स्युः क्रियाफलसंयोगात् .. १००..
समाप्तश्च तृतीयोऽध्यायः .. ३..
इति श्रीशाण्डिल्यमहर्षिप्रणीतभक्तिसूत्रम्
Bhakti Sutras of \'Sa\dn\ddilya
transliterated by Anshuman Pandey
14 August 1996
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com