.. शनैश्चरस्तोत्रम् ..
.. श्रीशनैश्चरस्तोत्रम् ..
अस्य श्रीशनैश्चरस्तोत्रस्य दशरथ ऋषिः . शनैश्चरो देवता . त्रिष्टुप् छन्दः . . शनैश्चरप्रीत्यर्थ जपे विनियोगः.
दशरथ उवाच --
कोणोऽण्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगलमन्दोसौरिः .
नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय .. १..
सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगाश्च .
पीड्यन्ति सर्वे विषमश्थितेन तस्मैइ नमः श्रीरविनन्दनाय .. २..
नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृङ्गाः .
पीड्यन्ति सर्वे विषमश्थितेन तस्मैइ नमः श्रीरविनन्दनाय .. ३..
देशाश्च दुर्गाणि वनाणि यत्र सेनानिवेशाः पुरपत्तनानि .
पीड्यन्ति सर्वे विषमश्थितेन तस्मैइ नमः श्रीरविनन्दनाय .. ४..
तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा .
प्रीणाति मन्त्रैर्निजवसरे च तस्मै नमः श्रीरविनन्दनाय .. ५..
प्रयागकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् .
यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय .. ६..
अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यत् .
गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय .. ७..
स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी .
एकस्त्रिधाअ ऋग्ययजुःसाममूर्तिस्तस्मै नमः श्रीरविनन्दनाय .. ८..
शन्यष्टकं यः प्रयतः प्रभते
नित्यं सुपुत्रैः पशुबान्धवैश्च .
पठेत्तु सौख्यं भुवि भोगयुक्तः
प्राप्नोति निर्वाणपदं तदन्ते .. ९..
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः .
सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः .. १०..
एतानि दश नामाअनि प्रातरुत्थाय यः पठेत् .
शनैश्चरकृता पीडा न कदाचिद्भविष्यति .. ११..
.. इति श्रीब्रह्माण्डपुराणे श्रीशनैश्चरस्तोत्रं संपूर्णम् ..
Please send corrections to Mike Magee (ac70@cityscape.co.uk)
Last updated October 20 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com