.. शरभोपनिषत् ..
सर्वं सन्त्यज्य मुनयो यद्भजन्त्यात्मरूपतः .
तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .
भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .
व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्वदेवाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन्
ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येयः
स्यात्तत्त्वमेव नो ब्रूहीति .
तस्मै स होवाच पितामहश्च
हे पैप्पलाद शृणु वाक्यमेतत् .
बहूनि पुण्यानि कृतानि येन
तेनैव लभ्यः परमेश्वरोऽसौ .
यस्याङ्गजोऽहं हरिरिन्द्रमुख्या
मोहान्न जानन्ति सुरेन्द्रमुख्याः .. १..
प्रभुं वरेण्यं पितरं महेशं
यो ब्रह्माणं विदधाति तस्मै .
वेदांश्च सर्वान्प्रहिणोति चाग्र्यं
तं वै प्रभुं पितरं देवतानाम् .. २..
ममापि विष्णोर्जनकं देवमीड्यं
योऽन्तकाले सर्वलोकान्संजहार .. ३..
स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च .
यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः .
नृसिंहं लोकहन्तारं संजघान महाबलः .. ४..
हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः .
मावधीः पुरुषं विष्णुं विक्रमस्व महानसि .. ५..
कृपया भगवान्विष्णुं विददार नखैः खरैः .
चर्माम्बरो महावीरो वीरभद्रो बभूव ह .. ६..
स एको रुद्रो ध्येयः सर्वेषां सर्वसिद्धये . यो ब्रह्मणः पञ्चवक्रहन्ता
तस्मै रुद्राय नमो अस्तु .. ७..
यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति .
पुनश्च सृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति .
तस्मै रुद्राय नमो अस्तु .. ८..
यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् .
तस्मै रुद्राय नमो अस्तु .. ९..
यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः .
तस्मै रुद्राय नमो अस्तु .. १०..
यो दक्षयज्ञे सुरसङ्घान्विजित्य
विष्णुं बबन्धोरगपाशेन वीरः .
तस्मै रुद्राय नमो अस्तु .. ११..
यो लीलयैव त्रिपुरं ददाह
विष्णुं कविं सोमसूर्याग्निनेत्रः .
सर्वे देवाः पशुतामवापुः
स्वयं तस्मात्पशुपतिर्बभूव .
तस्मै रुद्राय नमो अस्तु .. १२..
यो मत्स्यकूर्मादिवराहसिंहा-
न्विष्णुं क्रमन्तं वामनमादिविष्णुम् .
विविक्लवं पीड्यमानं सुरेशं
भस्मीचकार मन्मथं यमं च .
तस्मै रुद्राय नमो अस्तु .. १३..
एवं प्रकारेण बहुधा प्रतुष्ट्वा
क्षमापयामासुर्नीलकण्ठं महेश्वरम् .
तापत्रयसमुद्भूतजन्ममृत्युजरादिभिः .
नाविधानि दुःखानि जहार परमेश्वरः ..१४..
एवं मन्त्रैः प्रार्थ्यमान आत्मा वै सर्वदेहिनाम् .
शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः .. १५..
यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह .
स्तुत्वा स्तुत्यं महेशानमवाङ्मनसगोचरम् .. १६..
भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः .
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह .
आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति .. १७..
अणोरणीयान्महतो महीया-
नात्मास्यजन्तोर्निहितो गुहायाम् .
तमक्रतुं पश्यति वीतशोको
धातुःप्रसादान्महिमानमीशम् .. १८..
वसिष्ठवैयासकिवामदेव-
विरिञ्चिमुख्यैर्हृदि भाव्यमानः .
सनत्सुजातादिसनातनाद्यै-
रीड्यो महेशो भगवानादिदेवः .. १९..
सत्यो नित्यः सर्वसाक्षी महेशो
नित्यानन्दो निर्विकल्पो निराख्यः .
अचिन्त्यशक्तिर्भगवान्गिरीशः
स्वाविद्यया कल्पितमानभूमिः .. २०..
अतिमोहकरी माया मम विष्णोश्च सुव्रत .
तस्य पादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् .. २१..
विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह .
ममांशसंभवो भूत्वा पालयत्यखिलं जगत् .. २२..
विनाशं कालतो याति ततोऽन्यत्सकलं मृषा .
ॐ तस्मै महाग्रासाय महादेवाय शूलिने .
महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु .. २३..
एको विष्णुर्महद्भूतं पृथग्भूतायनेकशः .
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः .. २४..
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चमिरेव च .
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु .. २५..
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् .
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना .. २६..
शरा जीवास्तदङ्गेषु भाति नित्यं हरिः स्वयम् .
ब्रह्मैव शरभः साक्षान्मोक्षदोऽयं महामुने .. २७..
मायावशादेव देवा मोहिता ममतादिभिः .
तस्य माहात्म्यलेशांशं वक्तुं केनाप्य शक्यते .. २८..
परात्परतरं ब्रह्म यत्परात्परतो हरिः .
परात्परतरो हीशस्तस्मात्तुल्योऽधिको न हि .. २९..
एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा .
तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् .. ३०..
शिव एव सदा ध्येयः सर्वसंसारमोचकः .
तस्मै महाग्रासाय महेश्वराय नमः .. ३१..
पैप्पलादं महाशास्त्रं न देयं यस्य कस्यचित् .
नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने .. ३२..
दांभिकाय नृशंसाय शठायानृतभाषिणे .
सुव्रताय सुभक्ताय सुवृत्ताय सुशीलिने .. ३३..
गुरुभक्ताय दान्ताय शान्ताय ऋजुचेतसे .
शिवभक्ताय दातव्यं ब्रह्मकर्मोक्तधीमते .. ३४..
स्वभक्तायैव दातव्यमकृतघ्नाय सुव्रतम् .
न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम .. ३५..
एतत्पैप्पलादं महाशास्त्रं योऽधीते श्रावयेद्द्विजः
स जन्ममरणेभ्यो मुक्तो भवति . यो जानीते सोऽमृतत्वं
च गच्छति . गर्भवासाद्विमुक्तो भवति . सुरापानात्पूतो
भवति . स्वर्णस्तेयात्पूतो भवति . ब्रह्महत्यात्पूतो
भवति . गुरुतल्पगमनात्पूतो भवति . स सर्वान्वेदानधीतो
भवति . स सर्वान्देवान्ध्यातो भवति . स समस्तमहापातको-
पपातकात्पूतो भवति . तस्मादविमुक्तमाश्रितो भवति .
स सततं शिवप्रियो भवति . स शिवसायुज्यमेति . न स
पुनरावर्तते न स पुनरावर्तते . ब्रह्मैव भवति . इत्याह
भगवान्ब्रह्मेत्युपनिषत् ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .
भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .
व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः शान्तिः शान्तिः ..
इति शरभोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com