.. .. षड्जगीता..
१६१
व्
इत्युक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः .
पप्रच्छावसरं गत्वा भ्रातॄन्विदुर पञ्चमान् .. १..
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता .
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः .. २..
कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै .
सन्तुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ .. ३..
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् .
जगाद विरुदो वाक्यं धर्मशास्त्रमनुस्मरन् .. ४..
बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा .
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः .. ५..
एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः .
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् .. ६..
धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः .
धर्मेण देवा दिविगा धर्मे चार्थः समाहितः .. ७..
धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते .
कामो यवीयानिति च प्रवदन्ति मनीषिणः .
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना .. ८..
समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः .
पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः .. ९..
कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते .
कृषिवाणिज्य गोरक्ष्यं शिल्पानि विविधानि च .. १०..
अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः .
न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः .. ११..
विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम् .
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः .. १२..
अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः .
अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः .. १३..
उद्भूतार्थं हि पुरुषं विशिष्टतर योनयः .
ब्रह्माणमिव भूतानि सततं पर्युपासते .. १४..
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः .
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् .. १५..
काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः .
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः .. १६..
अर्थार्थिनः सन्ति के चिदपरे स्वर्गकाङ्क्षिणः .
कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः .. १७..
आस्तिका नास्तिकाश्चैव नियताः संयमे परे .
अप्रज्ञानं तमो भूतं प्रज्ञानं तु प्रकाशता .. १८..
भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् .
एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् .
अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः .. १९..
ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् .
नकुलः सहदेवश्च वाक्यं जगदतुः परम् .. २०..
आसीनश्च शयानश्च विचरन्नपि च स्थितः .
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि .. २१..
अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिय .
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः .. २२..
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः .
मध्विवामृत संयुक्तं तस्मादेतौ मताविह .. २३..
अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः .
तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः .. २४..
तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना .
विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि .. २५..
धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् .
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् .. २६..
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ .
भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे .. २७..
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति .
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते .. २८..
कामेन युक्ता ऋषयस्तपस्येव समाहिताः .
पलाशफलमूलाशा वायुभक्षाः सुसंयताः .. २९..
वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः .
श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे .. ३०..
वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा .
दैवकर्म कृतश्चैव युक्ताः कामेन कर्मसु .. ३१..
समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः .
कामो हि विविधाकारः सर्वं कामेन सन्ततम् .. ३२..
नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् .
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ .. ३३..
नव नीतं यथा दध्नस्तथा कामोऽर्थधर्मतः .
श्रेयस्तैलं च पिण्याकाद्धृतं श्रेय उदश्वितः .. ३४..
श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः .
पुष्पितो मध्विव रसः कामात्सञ्जायते सुखम् .. ३५..
सुचारु वेषाभिरलङ्कृताभिर्
मदोत्कटाभिः प्रियवादिनीभिः .
रमस्व योषाभिरुपेत्य कामं
कामो हि राजंस्तरसाभिपाती .. ३६..
बुद्धिर्ममैषा परिषत्स्थितस्य
मा भूद्विचारस्तव धर्मपुत्र .
स्यात्संहितं सद्भिरफल्गुसारं
समेत्य वाक्यं परमानृशंस्यम् .. ३७..
धर्मार्थकामाः सममेव सेव्या
यस्त्वेकसेवी स नरो जघन्यः .
द्वयोस्तु दक्षं प्रवदन्ति मध्यं
स उत्तमो यो निरतिस्त्रिवर्गे .. ३८..
प्राज्ञः सुहृच्चन्दनसारलिप्तो
विचित्रमाल्याभरणैरुपेतः .
ततो वचः सङ्ग्रहविग्रहेण
प्रोक्त्वा यवीयान्विरराम भीमः .. ३९..
ततो मुहूर्तादथ धर्मराजो
वाक्यानि तेषाम् अनुचिन्त्य सम्यक् .
उवाच वाचावितथं स्मयन्वै
बहुश्रुतो धर्मभृतां वरिष्ठः .. ४०..
निःसंशयं निश्चित धर्मशास्त्राः
सर्वे भवन्तो विदितप्रमाणाः .
विज्ञातु कामस्य ममेह वाक्यम्
उक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे .
इह त्ववश्यं गदतो ममापि
वाक्यं निबोधध्वमनन्यभावाः .. ४१..
यो वै न पापे निरतो न पुण्ये
नार्थे न धर्मे मनुजो न कामे .
विमुक्तदोषः समलोष्ट काञ्चनः
स मुच्यते दुःखसुखार्थ सिद्धेः .. ४२..
भूतानि जाती मरणान्वितानि
जरा विकारैश्च समन्वितानि .
भूयश्च तैस्तैः प्रतिबोधितानि
मोक्षं प्रशंसन्ति न तं च विद्मः .. ४३..
स्नेहे न बुद्धस्य न सन्ति तानीत्य्
एवं स्वयम्भूर्भगवानुवाच .
बुधाश्च निर्वाणपरा वदन्ति
तस्मान्न कुर्यात्प्रियमप्रियं च .. ४४..
एतत्प्रधानं न तु कामकारो
यथा नियुक्तोऽस्मि तथा चरामि .
भूतानि सर्वाणि विधिर्नियुङ्क्ते
विधिर्बलीयानिति वित्तसर्वे .. ४५..
न कर्मणाप्नोत्यनवाप्यमर्थं
यद्भावि सर्वं भवतीति वित्त .
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं
तस्मादिदं लोकहिताय गुह्यम् .. ४६..
ततस्तदग्र्यं वचनं मनोऽनुगं
समस्तमाज्ञाय ततोऽतिहेतुमत् .
तदा प्रणेदुश्च जहर्षिरे च ते
कुरुप्रवीराय च चक्रुरञ्जलीन् .. ४७..
सुचारु वर्णाक्षर शब्दभूषितां
मनोऽनुगां निर्धुत वाक्यकण्टकाम् .
निशम्य तां पार्थिव पार्थ भाषितां
गिरं नरेन्द्राः प्रशशंसुरेव ते .
पुनश्च पप्रच्छ सरिद्वरासुतं
ततः परं धर्ममहीन सत्त्वः .. ४८..\>>>>>>>>>>>>>>>>>>>>>>>>>>
.. इति षड्जगीता समाप्ता ..
Please send corrections to Sunder Hattangadi( sunderh@hotmail.com OR sanskrit@cheerful.com) ;
Last updated October 12 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com