||षट्विंशत्तत्त्व सन्दोह ||
षट्त्रिंशत्तत्त्व सन्दोह
ShaTtri.nshattattva sandoha
यदयमनुत्तरमूर्तिर्निजेच्छयाखिलमिदं जगत्स्रष्टुं |
पस्पन्दे स स्पन्दः प्रथमश्शिवतत्त्वमुच्यते तज्ज्ञैः ||१||
इह हि स्वतंत्रशिवाद्वयदर्शने
परमेश्वरस्स्वतंत्रश्चिद्घनसंवित्स्वभावस्स्वया
स्वातंत्र्याख्यया
शक्त्या सततं शिवादिधरण्यन्ततत्तद्भुवनभूततत्त्वात्मना
क्रीडनादिशीलत्वात् कृत्यपञ्चकविधायी वस्तुतः
क्रमराहित्येऽपि
विश्वसृष्टौ आभासनमात्रसारेण
पारमार्थिककार्यकारणभावेन
क्रममपि उद्भावयन् अनाख्यत्वेऽपि स्वेच्छयैव स्वात्मभित्तौ
तत्तच्छिवादि
तत्त्वाभिख्यामवभासयति | तथात्वेऽपि
षट्त्रिंशत्तत्त्वमयकुलस्वरूपपरामर्शनाताखण्ड्येन
स्वचमत्कारविमर्शसारामनुत्तर आनंदधनावस्थान्नोज्झतीति
वास्तवाशयावबोधनाय कश्चिंमहामाहेश्वरः
परमेशशक्तिपातानुगृहीतः
तत्त्वक्रमप्रक्रियामार्याभिरेकविंशत्या
समुपनिबबन्ध यदयमित्यादिना | अनुत्तरमूर्तेभगवतः
परमेश्वरस्य
प्रकाशघनस्वात्मैकात्भ्येनावस्थितं विश्वं सिसृक्षोः
दर्पणनगरवत स्वेच्छयैव स्वात्मन्याद्या
प्रोंमिमीलयिषावस्था
शिवतत्त्वव्यपदेश्या पञ्चशक्तिनिर्भरत्वात्स्वातंत्रियात्
चिदादिप्राधान्येन क्रमशः शुद्धाध्वनि
तत्त्वसृष्ट्यवभासनं
मायाविद्यादेस् संवित्प्रकाशघनपरमशिवात्
व्यतिरेकानतिरेकविकल्पैरुपहतत्वात्
स्वतंत्रियमेव केवलं विश्वोत्पत्तिसंहरणादौ
मूर्धाभिषिक्तं
तत्तदनन्तशक्तिनियमानां क्रोडीकारित्वात् वक्ष्यमाणेऽपि
तत्तद्रूपोपग्रहणे स्वतंत्र्यामुक्तत्वान्न
प्राच्यस्वभावापायः ||१||
इच्छा सैवस्वच्छा संततसमवायिनी सती शक्तिः |
सचराचरस्य जगतो बीजं निखिलस्य निजनिलीनस्य ||२||
तस्य स्वाभिन्ना स्वतंत्रेच्छाशक्तिरेवोद्भविष्यतो विश्वस्य
स्वांतर्निलीनत्वात्बीजभूता शक्तितत्त्वतां
याति शक्तेश्शक्तिमद्धर्मत्वेऽपि
नांयदर्शनाभिमतवत्तस्मात्व्यतिरेकः
नैष्कर्म्येणात्रेच्छायास्स्वच्छत्वात्
हृदयसारोर्मिप्रभृतिभिः संज्ञाभि तत्तद्दर्शनेषु अभिधानं |
परमेश्वर एव हि स्वैश्वर्योच्छलत्तया
पूर्णाहन्ताचमत्कारतारतम्येन
शक्तिदर्शामधिशेते इत्यत्रानन्दशक्तिप्राधान्यं ||२||
स्वेच्छाशक्त्युद्गीर्णं जगदात्मतया समाच्छाद्य |
निवसन्स एव निखिलानुग्रहनिरतस्सदाशिवोऽमिहितः ||३||
तस्यैव परमेश्वरस्य स्वस्वातन्त्र्योद्भासितस्य विश्वस्य
विशुद्धसंविन्मात्राधिकरण्येन स्वात्मन्येव
समुल्लासनात्सदित्याख्यानात्सदाशिवतत्त्वावस्थातस्स
भाविनस्समस्तभावराशेस्सम्यक्
बहिरवबिभासयिषालक्षणक्रीडारसिकत्वातनुग्रहनिरततद्भूमिकां
गृह्णातीत्यतो निवसन्नित्युक्तं ||३||
विश्वं पश्चात्पश्यन् इदन्तया निखिलमीश्वरो जातः |
सा भवति शुद्धविद्या येदन्ताहन्तयोरभेदमतिः ||४||
एवं क्रमावभासनात्विश्वस्य शुद्धसंविन्मात्राधिकरण
एव स्फुटतया परामृश्यमानस्याहमंशे
अभिषेचनात्स एव परमेश्वर ईश्वरतत्त्वदशामधिश्रयत्यत्र
वेद्यजातस्य स्फुटावभासनाज्ज्ञानशक्त्युद्रेकः |
आन्तरदशाय उद्रिक्तत्वात्सदाशिवावस्था
बर्हिभावपरतोद्रेकात् तु ईश्वरावस्था इत्यनयोर्विशेषः |
प्ररूढभेदस्य इदन्तांशस्य
समधृततुलापुटन्यायेनाहमंशस्फुरणायां
शुद्धविद्यातत्त्वं |
अत्र विश्वस्य स्फुटतरं परामर्शनात्क्रियाशक्तिः प्रधाना |
इयति च शुद्धस्वातंत्र्यमेव तत्तद्वैचित्र्येण प्रस्फुरतीति
शुद्धोध्वा ||४||
माया विभेद बुद्धिर्निजांशजातेषु निखिलजीवेषु |
नित्यं तस्य निरङ्कुशविभवं वेलेव वारिधे रुन्धे ||५||
अशुद्धे पुनरध्वनि परमेश्वरैव
स्वात्मप्रच्छादनसामक्रीषयाधोरभट्टारकभूमिं
मन्त्रमहेश्वररूपां गृहीत्वा दुर्घटसम्पादनसामर्थ्येन
मायाशक्त्या स्वतोऽन्योन्यतश्च भिन्नमणुनां भोगसिद्धये
कलादिक्षित्यन्तं जडाजडवर्गं क्रमतोऽक्रमतोऽप्यवभासयति
तत्र भिन्नभिन्नप्रथात्मकमयीयमलेन स्वाङ्गकल्पेष्वपि
जडवेद्यवर्गेषु विभिन्नतया बुद्धिरेव मायाख्यं तत्त्वं येन
तस्य
निरर्गलं स्वातंत्र्यं प्रतिहंयते वेलयेवाब्धितरङ्गाणां
वैभवं ||५||
स तया परिमितमूर्तिस्सङ्कुचितसमस्तशक्तिरेष पुमान् |
रविरिव संध्यारक्तस्संहृतशक्तिस्स्वभासनेऽप्यपटुः ||६||
अविकार्यस्यापि तस्य चिदात्मनः स्वशक्तीनां
सङ्कोचनपुरः सरं शक्तिदारिद्र्यमापन्नस्याण्वपर
पर्याया पुरुषसंज्ञा संहृतशक्तित्वेन परिमितात्मा
स स्वात्मैश्वर्यामपि प्रत्यभिज्ञातुमपटुः सञ्चरति
विभिन्नयोनिषु |
यदा
पुनश्शक्तिपाततारतंयात्विज्ञापितैश्वर्यस्स्वाङ्गकल्पमेव
विश्वं प्रत्यभिजानीयात् तदा जीवत् शिवभावं प्रत्यापद्यते ||६||
संपूर्णकर्तृताद्या बह्व्यस्सन्त्यस्य शक्तयस्तस्य |
सङ्कोचात्सङ्कुचिताः कलादिरूपेण रूढयन्त्येवं ||७||
शत्तयन्तरक्रोडीकारिण्या स्वातन्त्रशक्त्यावियुक्तत्वादेव
परमेश्वरस्य बहुशक्तित्वं सङ्कोचग्रहणादेव
सर्वास्तच्छक्तयस्सङ्कुचितीभूय कलादितत्त्वपञ्चकेन
प्ररोहमुपगच्छन्ती | ता यथा
सर्ता सर्वज्ञता तृप्तिः नित्यता स्वातन्त्र्यमित्येतत्पञ्चकं
शुद्धाशुद्धभेदेन द्विधा परमेशविषयतया शुद्धं
संसारविषयतया तु अशुद्धं ||७||
तत्सर्वकर्तृता सा सङ्कुचिता कतिपयार्थमात्रपरा |
किञ्चित्कर्तारममुं कलयन्ति कीर्त्यते कला नाम ||८||
गोपितस्वरूपत्वान्निरुद्धशक्तेः परमेश्वरस्य
सर्वकर्तृताशक्तिः प्राणादिपरिमितप्रमातृभावे किञ्चित्
कर्तृतोद्वलनात्मना कलनेन कलातत्त्वात्मतां याति
यद्वशात्किञ्चिदेव कर्तुमुत्सहते अणुः न सर्वत्र कर्तृत्वमिति ||८||
सर्वज्ञतास्य शक्तिः परिमिततनुरल्पवेद्यमात्रपरा |
ज्ञानमुत्पादयन्ती विद्येति निगद्यते बुधैराद्यैः ||९||
एवं तस्यैव सर्वज्ञताशक्तिस्सङ्कोचं गृहीतवती
किञ्चिज्ज्ञेयमात्रपरत्वेन ज्ञानोत्पादनात्विद्यातत्त्वं
विद्ययैव बुद्धिदर्पणे प्रतिफलिता भावा विविच्यंते
गुणसङ्कीर्णनतया तस्य विवेक्तुमक्षमत्वात्तस्मात्
विद्ययैवार्थविवेकः ||९||
नित्यपरिपूर्णतृप्तिः शक्तिस्तस्यैव परमिता तु सती |
भोगेषु रज्जयन्ती सततममुं रागतत्त्वतां याता ||१०||
परमेश्वरस्य नित्यपरिपूर्णतृप्तिर्नाम शक्तिः पारमित्य
याता यत्र क्वचन उपादेयाद्यभिमते
किञ्चन्मे भूयात् इति सामान्येन अभिष्वङ्गमात्रादापद्यते
रागतत्त्वं |
विशेषाभिष्वङ्गस्तु अस्यैव पल्लवितप्रायेत्येतदेव कलाविद्ययोः
प्रागुक्तयोः किञ्चिद्भागे निमित्तं ||१०||
सा नित्यतास्य शक्तिर्निकृष्य निधनोदयप्रदानेन |
नियतपरिच्छेदकरी क्लृप्ता स्यात्कालतत्त्वरूपेण ||११||
अकालकलितस्य चिदात्मनो नित्यत्वाख्या
शक्तिन्यग्भावमाश्रित्य कार्यारूषितकर्तृत्वकलनय
आणुं तुट्यादिक्रमाभासनात्मना कालेन संयोज्य
कालतत्त्वव्यपदेश्या कल्प्यते येनायमणुः
भूतादिक्रियाक्रमकलितः
कालवशतामपद्यते ||११||
यास्य स्वतन्त्रताख्या शक्तिस्सङ्कोचशालिनी सैव |
कृत्याकृत्येष्ववशं नियतममुं नियमन्त्यभून्नियतिः ||१२||
स्वतंत्र्यमेवास्य परप्रमातुस्सङ्कुचन्नियतितत्त्व तामाभासयति
यतः कार्याकार्येषु नियमाधानात्
विशिष्टे कार्ये विशिष्तं कारणं एवादध्यान् नानियतं इति |
एतेन कलादिना कञ्चुकेना वृतोऽयं शक्तिदारिद्र्यमनुभूय
कलादि
मुखेनैव स्ववैभवात् प्रतिवितीर्णकिञ्चिदंशः पशुरित्युच्यते ||१२||
इच्छादित्रिसमष्टिश्शक्तिश्शान्तास्य सङ्कुचद्रूपा |
सङ्कलितेच्छाद्यात्यकसत्त्वादिक साम्यरूपिणी तु सती ||१३||
बुद्ध्यादिसामरस्यस्वरूपचित्तात्मिका गता प्रकृतिः |
इच्छास्य रजोरूपाहङ्कृतिरासीदहं प्रतीतिकरी ||१४||
अस्य शान्ताख्याशक्तिरक्षुब्धत्वातिच्छादीनां
शक्तीनां गर्भीकरणात्समष्टिरूपा पारमित्यग्रहणाच्च
गुणानामविभागावस्था प्रकृतितत्त्वं |
गुणानामिच्छादिशक्तित्रिकेनान्वारब्धत्वात्त्रित्वं यत्प्रक्षोभात्
प्रकृतिकसर्गस्य प्रसरः | तत्र चित्तात्मके बुद्धयकृन्मनांसि
सम्यावस्थामधिश्रियन्ति | अत्र तत्त्वक्रमप्रसरे
शिवादिसकलान्तेषु
प्रभातृवर्गेषु ज्ञानक्रियाशक्ती एव मुख्यमुपकरणं ते एव
सङ्कुचिद्रूपे ईश्वरशुद्धविद्ये सङ्कुचिते विद्याकले
अत्यन्तसङ्कुचिते
बुद्धिकर्मेन्द्रियाणि क्रियायाः सङ्कोचसीम्नि भूतसूक्ष्मादि इति
विज्ञेयं | अणोः रजः परिणामिनी इच्छशक्ति
अहमित्याभिमानलक्षणा अहङ्कृतिः ||१३-१४||
ज्ञानापि सत्त्वरूपा निर्णयबोधस्य कारणं बुद्धिः |
तस्य क्रिया तमोमयमूर्तिर्मनोच्यते विकल्पकरी ||१५||
सत्त्वपरिणामिनी ज्ञानशक्तिरेवार्थाध्यवसायलक्षणा
बुद्धिः | तमः परिणामिनी क्रियाशक्तिः |
विकल्पकरणलक्षणं
मनस्तत्त्वमुच्यते ||१५||
वामादिपञ्चभेदस्सैव सङ्कुचितविग्रहो देवः |
ज्ञानक्रियोपरागप्राधान्याद्विविधविषरूपोऽभूत् ||१६||
सैव क्रीडासतत्त्वो वामोदेवादिपञ्चमूर्तितत्त्वात् सङ्कुचितो
भूत्वा ज्ञानशक्त्युपरञ्जनप्रधानतया
ज्ञानेन्द्रियतद्विषयशरीरतां क्रियाशक्त्युपाधिप्राधान्यात्
कर्मेन्द्रियव्यापारवत्त्वं च उपादत्ते | शक्तिपञ्चकोपादानात्
करणानां पञ्चधात्वं बोध्यं ||१६||
श्रोत्रं चक्षुस्स्पर्शनजिह्वाघ्राणानि बोधकरणानि |
शद्बस्पर्शरूपरसगन्धौ चेति भूतसुक्ष्माणि ||१७||
श्रोत्रादीनि ज्ञानेन्द्रियाणि शब्दादीनि तन्मात्राणि ||१७||
अयमेवातिनिकृष्टो जातो भूतात्मनापि भूतेशः |
गगनमनिलश्च तेजस्सलिलं भूमिश्च पञ्चभूतानि ||१८||
अत्यन्तसङ्कोचग्रहणातचिद्रूपतामवभास्याकाशदीनि
पञ्चभूतानि ||१८||
श्रोत्रादिकरणवेद्याश्शब्दाद्यास्तानि वेदकान्येषां |
वचनकरी वागासीत् पाणिस्स्यात्करणभूतादाने ||१९||
शब्दादिज्ञानसाधनानि श्रोत्रादिकरणानि
वचनादिक्रियासाधनानि
वागादीनि कर्मेंद्रियाणि ||१९||
गमनविसर्गानन्दत्रितये पादादिकं करणं |
गन्धवती भूमिस्स्यादापस्सांसिद्धिकद्रवास्तेजः ||२०||
उष्णस्पर्शमरूपस्पर्शो वायुरम्बरं सशब्दं |
षट्त्रिंशत्तत्त्वमयं वन्दे कुलातिगं शंभुं ||२१||
आदिना पायूपस्थौ गृह्येते | गंधवत्त्वं भूमेर्लक्षणं
सांसिद्धिकद्रवत्वमब्लक्षणमुष्ण स्पर्शेन तेजो
लक्ष्यते अरूपस्पर्शो वायुलक्षणं शब्दाकशस्येति प्रत्येकं
मुख्यगुणनिर्देशः | तत्त्वानामुत्तरोत्तरं व्याप्यव्यापकभावेन
भूमिर्व्याप्या जलादिशिवान्तं व्यापकानि पञ्चत्रिंशतेवं
भूतसृष्टौ व्योमादिगुणा व्यामकत्वेनानुगतास्संति |
परमशिवतत्त्वस्य
सर्वत्रानुगतत्वात्विश्वमयतदुत्तीर्णयामलकौलस्वरूपमेव
भक्तानामिति वन्दनोपसंहारोक्ययोपक्षिप्तमिति शिवं ||२० -२१||
||इति षट्त्रिशत्तत्त्वसंदोहश्श्रीमद्राजानकानन्दाचार्यविरचितविवरणोपेतः समाप्तः ||
Encoded and proofread by Sorin Suciu aka SeSe at sorins at hotmail.com.
%@@1
% File name : shhattrim.itx
%--------------------------------------------
% Text title : ShaT.hvi.nshattattva sandoha
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : ????Source
% Transliterated by : Sorin Suciu aka SeSe at sorins at hotmail.com
% Proofread by : Sorin Suciu aka SeSe at sorins at hotmail.com
% Latest update : November 1, 2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .