.. श्री शिवाष्टोत्तर शतनाम स्तोत्रम् ..
शिवो महेश्वरश्शंभुः पिनाकी शशिशेखरः .
वामदेवो विरूपाक्षः कपर्दी नीललोहितः .. १..
शंकरश्शूलपाणिश्च खट्वांगी विष्णुवल्लभः .
शिपिविष्टोऽम्बिकानाथः श्रीकंठो भक्तवत्सलः .. २..
भवश्शर्वस्त्रिलोकेशश्शितिकंठश्शिवप्रियः .
उग्रः कपाली कामारी अंधकासुरसूदनः .. ३..
गंगाधरो ललाटाक्षः कालकालः कृपानिधिः .
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः .. ४..
कैलासवासी कवची कठोरस्त्रिपुरांतकः .
वृषांको वृषभारूढो भस्मोद्धूलितविग्रहः .. ५..
सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः .
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः .. ६..
हविर्यज्ञमयस्सोमः पंचवक्त्रस्सदाशिवः .
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः .. ७..
हिरण्यरेतः दुर्धर्षः गिरीशो गिरिशोनघः .
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः .. ८..
कृत्तिवासः पुरातनर्भगवान् प्रमथाधिपः .
मृत्युंजयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः .. ९..
व्योमकेशो महासेनजनकश्चारुविक्रमः .
रुद्रो भूतपतिः स्थाणुरहिर्भुध्नो दिगंबरः .. १०..
अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः .
शाश्वतः खंडपरशुरजः पाशविमोचकः .. ११..
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः .
भगनेत्रभिदव्यक्तो दक्षाध्वरहरो हरः .. १२..
पूषदंतभिदव्यग्रो सहस्राक्षस्सहस्रपात् .
अपवर्गप्रदोऽनंतस्तारकः परमेश्वरः .. १३..
इति श्री शिवाष्टोत्तरशतनामस्त्रोत्रम् समाप्तम् ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com