.. शिव स्तोत्र - स्वामी विवेकानन्द ..
.. शिवस्तोत्रम् ..
ॐ नमः शिवाय .
निखिलभुवनजन्मस्थमभङ्गप्ररोहाः
अकलितमहिमानः कल्पिता यत्र तस्मिन् .
सुविमलगगनाभे ईशसंस्थेऽप्यनीशे
मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ..
निहतनिखिलमोहेऽधीशता यत्र रूढा
प्रकटितपरप्रेम्ना यो महादेव संज्ञः .
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य
प्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम् ..
वहति विपुलवातः पूर्व संस्काररूपः
प्रमथति बलवृंदं घूर्णितेवोर्मिमाला .
प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतम्
अतिविकलितरूपं नौमि चित्तं शिवस्थम् ..
जनकजनितभावो वृत्तयः संस्कृताश्च
अगणनबहुरूपा यत्र एको यथार्थः .
शमितविकृतवाते यत्र नांतर्बहिश्च
तमहह हरमौडे चित्तवृत्तेर्निरोधम् ..
गलिततिमिरमालः शुभ्रतेजःप्रकाशः
धवलकमलशोभः ज्ञानपुञ्जाट्टहासः .
यमिजनहृदिगम्यः निष्कलं ध्यायमानः
प्रणतमवतु मं सः मानसो राजहंसः ..
दुरितदलनदक्षं दक्षजादत्तदोषम्
कलितकलिकलङ्कं कम्रकल्हारकांतम् .
परहितकरणाय प्राणविच्छेदसूत्कम्
नतनयननियुक्तं नीलकंठं नमामः ..
--स्वामी विवेकानन्द
Please send corrections to Sunder Hattangadi (sunderh@hotmail.com)
Last updated October 20 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com