.. शिवोपनिषद् ..
कैलासशिखरासीनमशेषामरपूजितम् |
कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम् || १- १||
संपूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः |
सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः || १- २||
ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः |
ते मुच्यन्ते कथं घोराद्भगवन्भवसागरात् || १- ३||
एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता |
मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते || १- ४||
महादेव उवाच
पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः |
देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः || १- ५||
आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नॄणामिह |
तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम् || १- ६||
ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः |
सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः || १- ७||
सारादपि महासारं शिवोपनिषदं परम् |
अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम् || १- ८||
शिवः शिव इमे शान्त- नाम चाद्यं मुहुर्मुहुः |
उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः || १- ९||
अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः |
यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः || १- १०||
गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च |
भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः || १- ११||
पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम् |
पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः || १- १२||
सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः |
मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात् || १- १३||
षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे |
सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः || १- १४||
यस्माच्छिवः सुसंपूर्णः सर्वज्ञः सर्वगः प्रभुः |
तस्मात्स पाशहरितः स विशुद्धः स्वभावतः || १- १५||
पशुपाशपरः शान्तः परमज्ञानदेशिकः |
शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते || १- १६||
एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम् |
विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि || १- १७||
सकृदुच्चारितं येन शिव इत्यक्षरद्वयम् |
बद्धः परिकरस्तेन मोक्षोपगमनं प्रति || १- १८||
द्व्यक्षरः शिवमन्त्रो ऽयं शिवोपनिषदि स्मृतः |
एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः || १- १९||
नामसंकीर्तणादेव शिवस्याशेषपातकैः |
यतः प्रमुच्यते क्षिप्रं मन्त्रो ऽयं द्व्यक्षरः परः || १- २०||
यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत् |
एकाक्षरं वा सततं स याति परमं पदम् || १- २१||
मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम् |
अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम् || १- २२||
विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः |
आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते || १- २३||
हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम् |
हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते || १- २४||
पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम् |
अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम् || १- २५||
कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् |
पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः || १- २६||
धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः |
प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम् || १- २७||
इति दिव्योपचारैश्च संपूज्य परमं शिवम् |
जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः || १- २८||
ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः |
मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा || १- २९||
तत्र भुक्त्वा महाभोगान्प्रलये सर्वदेहिनाम् |
शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात् || १- ३०||
ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम् |
भोगान्भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः || १- ३१||
तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः |
सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः || १- ३२||
स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम् |
ते भोगान्प्राप्य मुच्यन्ते प्रलये शिवविद्यया || १- ३३||
विद्या संकीर्तनीया हि येषां कर्म न विद्यते |
ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत् || १- ३४||
शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम् |
विद्यादानं च कुर्वीत भोगमोक्षजिगीषया || १- ३५||
शिवयोगी शिवज्ञानी शिवजापी तपोऽधिकः |
क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः || १- ३६||
कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः |
लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते || १- ३७||
|| इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ||
अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत् |
गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये || २- १||
यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः |
लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः || २- २||
भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः |
तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम् || २- ३||
भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः |
पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम् || २- ४||
अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः |
ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः || २- ५||
एत एव त्रयो लोका एत एव त्रयो गुणाः |
एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा || २- ६||
नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः |
विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम् || २- ७||
गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते |
गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम् || २- ८||
प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः |
भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता || २- ९||
मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत् |
गर्भादर्धेन विस्तारमायामं च सुशोभनम् || २- १०||
गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत् |
गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता || २- ११||
जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना |
प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः || २- १२||
मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता |
प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम् || २- १३||
प्राकारं तत्समन्ताच्च गुपुरादालभूषितम् |
प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम् || २- १४||
नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ |
प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम् || २- १५||
पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत् |
प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम् || २- १६||
स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम् |
तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम् || २- १७||
स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम् |
कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम् || २- १८||
शमीन्धनकुशस्थानमायुधानां च नैरृतम् |
सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत् || २- १९||
श्रीमदायतनं शम्भोर्योगिनां विजने वने |
शिवस्यायतने यावत्समेताः परमाणवः || २- २०||
मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे |
महाप्रतिमलिङ्गानि महान्त्यायतनानि च || २- २१||
कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम् |
लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती || २- २२||
पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत् |
पालाशोदुम्बराश्वत्थ- पृषदाज्यतिलैर्यवैः || २- २३||
अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम् |
शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः || २- २४||
एवं मध्ये ऽवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु |
अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः || २- २५||
प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात् |
महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत् || २- २६||
गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम् |
यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम् || २- २७||
दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत् |
सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम् || २- २८||
कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत् |
रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः || २- २९||
एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु |
कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः || २- ३०||
कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः |
विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः |
तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात् || २- ३१||
|| इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ||
अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः |
शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम् || ३- १||
गृहस्येशानदिग्भागे कार्यमुत्तरतो ऽपि वा |
खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः || ३- २||
शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः |
दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत् || ३- ३||
हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम् |
चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम् || ३- ४||
गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम् |
उदगर्वाक्च्छ्रितां(?)किंचिच्चतुःशीर्षकसंयुताम् || ३- ५||
त्रिहस्तायामविस्ताराम्षोडशाङ्गुलमुच्छ्रिताम् |
तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च || ३- ६||
शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः |
मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत् || ३- ७||
शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः |
स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम् || ३- ८||
षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च |
गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत् || ३- ९||
त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने |
सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम् || ३- १०||
सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत् |
आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी || ३- ११||
वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन् |
तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् || ३- १२||
निर्दोषं सुलभं चैव पूजयेत्सततं बुधः |
यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा || ३- १३||
तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः |
प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः |
तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे || ३- १४||
|| इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ||
अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम् |
पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे || ४- १||
तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम् |
पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना || ४- २||
द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम् |
तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये || ४- ३||
दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम् |
सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम् || ४- ४||
द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम् |
अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च || ४- ५||
गवाक्षकद्वयं कार्यमपिधानं सुशोभनम् |
धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः || ४- ६||
आग्नेयभागात्परितः कार्या जालगवाक्षकाः |
ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया || ४- ७||
शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः |
चतुरश्रवेदि(kA)श्रीमन्मेखलात्रयभूषितम् || ४- ८||
कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम् |
शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम् || ४- ९||
जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत् |
बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम् || ४- १०||
ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत् |
चतुःप्रेगीवकोपेतम्(?)एकप्रेगीवकेन वा(?)|| ४- ११||
सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम् |
शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम् || ४- १२||
बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा |
तावदेव च विस्तीर्णा मेखलादिविभूषिता || ४- १३||
कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः |
द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता || ४- १४||
अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना |
दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता || ४- १५||
रुद्रमातृगणानां च दिक्पतीनां च सर्वदा |
सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत् || ४- १६||
वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका |
वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम् || ४- १७||
अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे |
व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका || ४- १८||
प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम् |
पुष्पारामजलोपेतं प्राकारान्तं च कारयेत् || ४- १९||
मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम् |
भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः || ४- २०||
शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम् |
शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम् || ४- २१||
ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः |
धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः || ४- २२||
गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः |
अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत् || ४- २३||
इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत् |
अप्येकं दिवसं भक्त्या तस्य पुण्यफलं शृणु || ४- २४||
कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः |
कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात् || ४- २५||
नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः |
हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः || ४- २६||
ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः |
इच्छया क्रीडते तावद्यावदाभूतसंप्लवम् || ४- २७||
ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम् |
दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात् || ४- २८||
ततः संपृच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान् |
तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात् || ४- २९||
अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते |
पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः || ४- ३०||
सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात् |
ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति || ४- ३१||
इत्येतदखिलं कार्यं फलमुक्तं समासतः |
उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम् || ४- ३२||
सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम् |
कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात्फलम् || ४- ३३||
यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता |
तावत्कोट्यस्तु वर्षाणि भोगान्भुङ्क्ते शिवे पुरे || ४- ३४||
एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम् |
वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत् || ४- ३५||
यावत्केसरसंख्यानं कुसुमस्यानले हुतम् |
तावद्युगसहस्राणि शिवलोके महीयते || ४- ३६||
नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम् |
यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम् || ४- ३७||
यत्पुष्पधूपभष्यान्न- दधिक्षीरघृतादिभिः |
पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम् || ४- ३८||
हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः |
पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम् || ४- ३९||
पलाशाअङ्कुरजारिष्ट- पालाल्यः(?)समिधः शुभाः |
पृषदाज्यप्लुता हुत्वा शृणु यत्फलमाप्नुयात् || ४- ४०||
पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत् |
तावत्कल्पान्महाभोगैः शिवलोके महीयते || ४- ४१||
तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः |
कल्पार्धसंमितं कालं भोगान्भुङ्क्ते शिवे पुरे || ४- ४२||
शमीसमित्फलं देयमब्दानपि च लक्षकम् |
शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः || ४- ४३||
तिलसंख्यांस्तिलान्हुत्वा ह्याज्याक्ता(?)यावती भवेत् |
तावत्स वर्षलक्षांस्तु भोगान्भुङ्क्ते शिवे पुरे || ४- ४४||
यावत्सुरौषधीरज्ञस्(?)तिलतुल्यफलं स्मृतम् |
इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम् || ४- ४५||
लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः |
दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः || ४- ४६||
पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम् |
क्षीरवृक्षसमृद्धे ऽग्नौ फलं सार्धार्धिकं भवेत् || ४- ४७||
असमिद्धे सधूमे च होमकर्म निरर्थकम् |
अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा || ४- ४८||
न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत् |
शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत् || ४- ४९||
एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात् |
तत्र कल्पशतं भोगान्भुङ्क्ते दिव्यान्यथेप्सितान् || ४- ५०||
स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च |
याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते || ४- ५१||
एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः |
सर्वकाममवाप्नोति शिवलोके व्यवस्थितः || ४- ५२||
अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः |
आभूतसंप्लवं यावद्भोगान्भुङ्क्ते यथेप्सितान् || ४- ५३||
ततश्च प्रलये प्राप्ते संप्राप्य ज्ञानमुत्तमम् |
प्रसादादीश्वरस्यैव मुच्यते भवसागरात् || ४- ५४||
शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति |
सो ऽपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत् || ४- ५५||
शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः |
ते ऽपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः || ४- ५६||
शिवयज्ञमहावेद्या जायते ये न सन्ति वा |
ते ऽपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः || ४- ५७||
पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत् |
होमयेदतसीतैलं तिलतैलं विना नरः || ४- ५८||
सर्षपेङ्गुडिकाशाम्र- करञ्जमधुकाक्षजम् |
प्रियङ्गुबिल्वपैप्पल्य- नालिकेरसमुद्भवम्(?)|| ४- ५९||
इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत् |
दूर्वया बिल्वपत्त्रैर्वा समिधः संप्रकीर्तिताः || ४- ६०||
अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा |
तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः || ४- ६१||
परिधीनामभावेन शरैर्वंशैश्च कल्पयेत् |
इन्धनानामभावेन दीपयेत्तृणगोमयैः || ४- ६२||
गोमयानामभावेन महत्यम्भसि होमयेत् |
अपामसंभवे होमं भूमिभागे मनोहरे || ४- ६३||
विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः |
छागस्य दक्षिणे कर्णे कुशमूले च होमयेत् || ४- ६४||
स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे |
अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः || ४- ६५||
आपत्काले ऽपि यः कुर्याच्छिवाग्नेर्मनसार्चनम् |
स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात् || ४- ६६||
प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः |
बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः || ४- ६७||
|| इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ||
अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम् |
सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम् || ५- १||
अग्निरूपेण रुद्रेण स्वतेजः परमं बलम् |
भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम् || ५- २||
यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम् |
रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च || ५- ३||
यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम्(?)|
अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते || ५- ४||
आहारमर्धभुक्तं च कीटकेशादिदूषितम् |
तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति || ५- ५||
आरण्यं गोमयकृतं करीषं वा प्रशस्यते |
शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना || ५- ६||
स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना |
गोमयेषु च दग्धेषु हीष्टकानि च येषु च || ५- ७||
सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम्(duHkhopAr)|
शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम् || ५- ८||
भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा |
मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा || ५- ९||
पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम् |
शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम् || ५- १०||
जातिकारुकवाक्काय- स्थानदुष्टं च पञ्चमम् |
पापघ्नं शांकरं रक्षा- पवित्रं योगदं गुणाः(?)|| ५- ११||
शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च |
भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम् || ५- १२||
भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम् |
जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम् || ५- १३||
अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम् |
नदीतडागवापिषु गिरिप्रस्रवणेषु च || ५- १४||
स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम् |
असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम् || ५- १५||
त्रिकालं वारुणस्नानादनारोग्यं प्रजायते |
आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम् || ५- १६||
संध्यात्रये ऽर्धरात्रे च भुक्त्वा चान्नविरेचने |
शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च || ५- १७||
भस्मास्तृते महीभागे समे जन्तुविवर्जिते |
ध्यायमानः शिवं योगी रजन्यन्तं शयीत च || ५- १८||
एकरात्रोषितस्यापि या गतिर्भस्मशायिनः |
न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि || ५- १९||
गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः |
यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात् || ५- २०||
शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत् |
हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी || ५- २१||
गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा |
शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत् || ५- २२||
संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च |
यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं शृनु || ५- २३||
शिवभस्मनि यावन्तः समेताः परमाणवः |
तावद्वर्षसहस्राणि शिवलोके महीयते || ५- २४||
एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः |
मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः || ५- २५||
तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान् |
ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात् || ५- २६||
भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम्(?)|
अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ || ५- २७||
भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने |
ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम् || ५- २८||
इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम् |
त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात् || ५- २९||
भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने |
कल्पं शिवपुरे भोगान्भुक्त्वान्ते स्याद्द्विजोत्तमः || ५- ३०||
आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम् |
मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम् || ५- ३१ ||
आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम् |
अम्भसा वारुणं स्नानम्कार्यं वारुणमूर्तिना || ५- ३२||
मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत् |
ध्यायमानः शिवं शान्तम्मन्त्रस्नानं परं स्मृतम् || ५- ३३||
गवां खुरपुटोत्खात- पवनोद्धूतरेणुना |
कार्यं वायव्यकं स्नानम्मन्त्रेण मरुदात्मना || ५- ३४||
व्यभ्रे ऽर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः |
आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम् || ५- ३५||
उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत् |
अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते || ५- ३६||
पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च |
तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा || ५- ३७||
न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः |
पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति || ५- ३८||
आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत |
क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया || ५- ३९||
यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम् |
यैव योगाभियुक्तानां गतिः सैव क्षमावताम् || ५- ४०||
ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः |
निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत् || ५- ४१||
मेध्यामेध्यरसं यद्वदपि वत्स विना करैः |
नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः || ५- ४२||
एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत् |
अशुद्धभावः स्नातो ऽपि पूजयन्नाप्नुयात्फलम् || ५- ४३||
जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः |
ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम् || ५- ४४||
अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम् |
तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः || ५- ४५||
यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते |
तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम्(?)|| ५- ४६||
मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते |
करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम् || ५- ४७||
वामपाणितले तीर्थमौमम्नाम प्रकीर्तितम् |
शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम् || ५- ४८||
देवान्दैवेन तीर्थेन तर्पयेदकृताम्भसा |
उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः || ५- ४९||
प्राचीनावीतिना कार्यं पितॄणां तिलवारिणा |
तर्पणं सर्वभूतानामारिषेण निवीतिना || ५- ५०||
सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा |
प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते || ५- ५१||
पितॄणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत् |
उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम् || ५- ५२||
|| इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ||
अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् |
यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत् || ६- १||
यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत् |
शिवाय स शिवे लोके कल्पकोटिं प्रमोदते || ६- २||
यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत् |
गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु || ६- ३||
श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे |
वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत् || ६- ४||
कपित्थमेकं यः पक्वमीश्वराय निवेदयेत् |
वर्षलक्षं महाभोगैः शिवलोके महीयते || ६- ५||
एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् |
वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे || ६- ६||
एकं वटफलं पक्वं यः शिवाय निवेदयेत् |
वर्षलक्षं महाभोगैः शिवलोके महीयते || ६- ७||
यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम् |
शिवाय गुरवे वापि तस्य पुण्यफलं शृणु || ६- ८||
यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम् |
तावदष्टायुतान्युच्चैः शिवलोके महीयते || ६- ९||
द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत् |
भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु || ६- १०||
यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम् |
तावद्युगसहस्राणि रुद्रलोके महीयते || ६- ११||
द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च |
तदेव राजवृक्षेषु पारावतफलेषु च || ६- १२||
यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे |
अष्टलक्षं महाभोगैः कृडते स शिवे पुरे || ६- १३||
बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च |
जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च || ६- १४||
पनसं नारिकेलं वा शिवाय विनिवेदयेत् |
वर्षलक्षं महाभोगैः शिवलोके महीयते || ६- १५||
पुरुषं च प्रियालं च मधूककुसुमानि च |
जम्बूफलानि पक्वानि वैकङ्कतफलानि च || ६- १६||
निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले |
दशवर्षसहस्राणि रुद्रलोके महीयते || ६- १७||
क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत् |
वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे || ६- १८||
वालुकात्रपुसादीनि यः फलानि निवेदयेत् |
शिवाय गुरवे वापि पक्वं च करमर्दकम् || ६- १९||
दशवर्षसहस्राणि रुद्रलोके महीयते |
बदराणि सुपक्वानि तिन्तिडीकफलानि च || ६- २०||
दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च |
एवमादीनि चान्यानि शाकमूलफलानि च || ६- २१||
निवेदयति शर्वाय शृणु यत्फलमाप्नुयात् |
एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः || ६- २२||
पञ्चवर्षसहस्राणि रुद्रलोके महीयते |
गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम् || ६- २३||
निवेदयीत शर्वाय तस्य पुण्यफलं शृणु |
यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत् || ६- २४||
तावद्वर्षसहस्राणि रुद्रलोके महीयते |
यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत् || ६- २५||
गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु |
इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते || ६- २६||
साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम् |
निवेद्य परमेशाय शुक्तिमात्ररसस्य तु || ६- २७||
वर्षकोटिं महाभोगैः शिवलोके महीयते |
निवेद्य फाणितं शुद्धं शिवाय गुरवे ऽपि वा || ६- २८||
रसात्सहस्रगुणितं फलं प्राप्नोति मानवः |
गुडस्य फलमेकं यः शिवाय विनिवेदयेत् || ६- २९||
अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते |
खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम् || ६- ३०||
खण्डात्सहस्रगुणितं शर्कराया निवेदने |
मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत् || ६- ३१||
कल्पकोटिं नरः साग्रं शिवलोके महीयते |
परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम् || ६- ३२||
मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात् |
अशेषफलदानेन यत्पुण्यं परिकीर्तितम् || ६- ३३||
तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने |
पनसानि च दिव्यानि स्वादूनि सुरभीणि च || ६- ३४||
निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु |
कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः || ६- ३५||
पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते |
दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत् || ६- ३६||
सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु |
महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः || ६- ३७||
तत्पुण्यं सकलं प्राप्य शिवलोके महीयते |
यदिष्टमात्मनः किंचिदन्नपानफलादिकम् || ६- ३८||
तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता |
न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित् || ६- ३९||
किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते |
न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम् || ६- ४०||
पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम् |
सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम् || ६- ४१||
अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात् |
तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते || ६- ४२||
तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना |
यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम् || ६- ४३||
नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम् |
यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते || ६- ४४||
तावद्वर्षसहस्राणि सुरलोके महीयते |
पलाशकदलीपद्म- पत्त्राणि च विशेषतः || ६- ४५||
दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात् |
यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम् || ६- ४६||
तावदब्दायुतानां स लोके भोगानवाप्नुयात् |
यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत् || ६- ४७||
तावन्ति वर्षलक्षाणि शिवलोके महीयते |
यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत् || ६- ४८||
ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु |
यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत् || ६- ४९||
तावद्वर्षसहस्राणि रुद्रलोके महीयते |
जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम् || ६- ५०||
इत्येतानि सुगन्धीनि फलानि विनिवेदयेत् |
फले फले महाभोगैर्वर्षलक्षं तु यत्नतः || ६- ५१||
कामिकेन विमानेन क्रीडते स शिवे पुरे |
त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ || ६- ५२||
वर्षकोटिं महाभोगैः शिवलोके महीयते |
पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत् || ६- ५३||
वर्षकोट्यष्टकं भोगैः शिवलोके महीयते |
यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत् || ६- ५४||
मोदते स शिवे लोके वर्षकोटीश्चतुर्दश |
मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे || ६- ५५||
प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः |
माणिक्यं कलशं पात्रीं स्थाल्यादीन्भाण्डसंपुटान् || ६- ५६||
दत्त्वा शिवाग्रजस्तेभ्यः शिवलोके महीयते |
तोयाधारपिधानानि मृद्वस्त्रतरुजानि वा || ६- ५७||
वंशालाबुसमुत्थानि दत्त्वाप्नोति शिवं पुरम् |
पञ्चसंमार्जनीतोयं गोमयाञ्जनकर्पटान् || ६- ५८||
मृत्कुम्भपीटिकां दद्याद्भोगाञ्छिवपुरे लभेत् |
यः पुष्पधूपगन्धानां दधिक्षीरघृताम्भसाम् || ६- ५९||
दद्यादाधारपात्राणि शिवलोके स गच्छति |
वंशतालादिसंभूतं पुष्पाधारकरण्डकम् || ६- ६०||
इत्येवमाद्यान्यो दद्याच्छिवलोकमवाप्नुयात् |
यः स्रुक्स्रुवादिपात्राणि होमार्थं विनिवेदयेत् || ६- ६१||
वर्षकोटिं महाभागैः शिवलोके महीयते |
यः सर्वधातुसंयुक्तं दद्याल्लवणपर्वतम् || ६- ६२||
शिवाय गुरवे वापि तस्य पुण्यफलं शृणु |
कल्पकोटिसहस्राणि कल्पकोटिशतानि च || ६- ६३||
स गोत्रभृत्यसंयुक्तो वसेच्छिवपुरे नरः |
विमानयानैः श्रीमद्भिः सर्वकामसमन्वितैः || ६- ६४||
भोगान्भुक्त्वा तु विपुलांस्तदन्ते स महीपतिः |
मनःशिलां हरीतालं राजपट्टं च हिङ्गुलम् || ६- ६५||
गैरिकं मणिदन्तं च हेमतोयं तथाष्टमम् |
यश्च तं पर्वतवरं शालितण्डुलकल्पितम् || ६- ६६||
शिवायगुरवे वापि तस्य पुण्यफलं शृणु |
कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे || ६- ६७||
यः सर्वधान्यशिखरैरुपेतं यवपर्वतम् |
घृततैलनदीयुक्तं तस्य पुण्यफलं शृणु || ६- ६८||
कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे |
समस्तकुलजैः सार्धं तस्यान्ते स महीपतिः || ६- ६९||
तिलधेनुं प्रदद्याद्यः कृत्वा कृष्णाजिने नरः |
कपिलायाः प्रदानस्य यत्फलं तदवाप्नुयात् || ६- ७०||
घृतधेनुं नरः कृत्वा कांस्यपात्रे सकाञ्चनान् |
निवेद्य गोप्रदानस्य समग्रं फलमाप्नुयात् || ६- ७१||
द्वीपिचर्मणि यः स्थाप्य प्रदद्याल्लवणाढकम् |
अशेषरसदानस्य यत्पुण्यं तदवाप्नुयात् || ६- ७२||
मरिचाढेन कुर्वीत(?)मारीचं नाम पर्वतम् |
दद्याद्यज्जीरकं पूर्वमाग्नेयं हिङ्गुमुत्तमम् || ६- ७३||
दक्षिणे गुडशुण्ठीं च नैरृते नागकेसरम् |
पिप्पलीं पश्चिमे दद्याद्वायव्ये कृष्णजीरकम् || ६- ७४||
कौबेर्यामजमोदं च त्वगेलाश्चेशदैवते |
कुस्तुम्बर्याः प्रदेयाः स्युर्बहिः प्राकारतः स्थिताः || ६- ७५||
ककुभामन्तरालेषु समन्तात्सैन्धवं न्यसेत् |
सपुष्पाक्षततोयेन शिवाय विनिवेदयेत् || ६- ७६||
यावत्तद्दीपसंख्यानं सर्वमेकत्र पर्वते |
तावद्वर्षशतादूर्ध्वं भोगान्भुङ्क्ते शिवे पुरे || ६- ७७||
कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत् |
दक्षिणे क्षीरतुम्बीं तु वृन्ताकं पश्चिमे न्यसेत् || ६- ७८||
पटीसान्युत्तरे स्थाप्य कर्कटीमीशदैवते |
न्यसेद्गजपटोलांश्च मधुरान्वह्निदैवते || ६- ७९||
कारवेल्लांश्च नैरृत्यां वायव्यां निम्बकं फलम् |
उच्चावचानि चान्यानि फलानि स्थापयेद्बहिः || ६- ८०||
अभ्यर्च्य पुष्पधूपैश्च समन्तात्फलपर्वतम् |
शिवाय गुरवे वापि प्रणिपत्य निवेदयेत् || ६- ८१||
यावत्तत्फलसंख्यानं तद्दीपानां च मध्यतः |
तावद्वर्षसहस्राणि रुद्रलोके महीयते || ६- ८२||
मूलकं मध्यतः स्थाप्य तत्पूर्वे वालमूलकम् |
आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकम् || ६- ८३||
पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत् |
कुहद्रकं च वायव्यामुत्तरे वापि तालिकीम् || ६- ८४||
कुसुम्भशाकमैशान्यां सर्वशाकानि तद्बहिः |
पूर्वक्रमेण विन्यस्य शिवाय विनिवेदयेत् || ६- ८५||
यावत्तन्मूलनालानां पत्त्रसंख्या च कीर्तिता |
तावद्वर्षसहस्राणि रुद्रलोके महीयते || ६- ८६||
दत्त्वा लभेन्महाभोगान्गुग्गुल्वद्रेः पलद्वयम् |
वर्षकोटिद्वयं स्वर्गे द्विगुणं गुडमिश्रितैः || ६- ८७||
गुडार्द्रकं सलवणमाम्रमञ्जरिसंयुतम् |
निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत् || ६- ८८||
हस्तारोप्येण वा कृत्वा महारत्नान्वितां महीम् |
निवेदयित्वा शर्वाय शिवतुल्यः प्रजायते || ६- ८९||
वज्रेन्द्रनीलवैडूर्य- पद्मरागं समौक्तिकम् |
कीटपक्षं सुवर्णं च महारत्नानि सप्त वै || ६- ९०||
यश्च सिंहासनं दद्यान्महारत्नान्वितं नृपः |
क्षुद्ररत्नैश्च विविधैस्तस्य पुण्यफलं शृणु || ६- ९१||
कुलत्रिंशकसंयुक्तः सान्तःपुरपरिच्छदः |
समस्तभृत्यसंयुक्तः शिवलोके महीयते || ६- ९२||
तत्र भुक्त्वा महाभोगान्शिवतुल्यपराक्रमः |
आमहाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् || ६- ९३||
यदि चेद्राज्यमाकङ्क्षेत्ततः सर्वसमाहितः |
सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् || ६- ९४||
जन्मकोटिसहस्राणि जन्मकोटिशतानि च |
राज्यं कृत्वा ततश्चान्ते पुनः शिवपुरं व्रजेत् || ६- ९५||
एतदेव फलं ज्ञेयं मकुटाभरणादिषु |
रत्नासनप्रदानेन पादुके विनिवेदयेत् || ६- ९६||
दद्याद्यः केवलं वज्रं शुद्धं गोधूममात्रकम् |
शिवाय स शिवे लोके तिष्ठेदाप्रलयं सुखी || ६- ९७||
इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः |
मोदते विविधैर्भोगैः कल्पकोटिं शिवे पुरे || ६- ९८||
मसूरमात्रमपि यः पद्मरागं सुशोभनम् |
निवेदयित्वा शर्वाय मोदते कालमक्षयम् || ६- ९९||
निवेद्य मौक्तिकं स्वच्छमेकभागैकमात्रकम् |
भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते || ६- १००||
कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम् |
शिवायाद्यः शिवे लोके मोदते कालमक्षयम् || ६- १०१||
हेम्ना कृत्वा च यः पुष्पमपि माषकमात्रकम् |
निवेदयित्वा शर्वाय वर्षकोटिं वसेद्दिवि || ६- १०२||
क्षुद्ररत्नानि यो दद्याद्धेम्नि बद्धानि शम्भवे |
मोदते स शिवे लोके कल्पकोट्ययुतं नरः || ६- १०३||
यथा यथा महारत्नं शोभनं च यथा यथा |
तथा तथा महत्पुण्यं ज्ञेयं तच्छिवदानतः || ६- १०४||
भूमिभागे स(?)विस्तीऋणे जम्बूद्वीपं प्रकल्पयेत् |
अष्टावरणसंयुक्तं नगेन्द्राष्टकभूषितम् || ६- १०५||
तन्मध्ये कारयेद्दिव्यं मेरुप्रासादमुत्तमम् |
अनेकशिखराकीर्णमशेषामरसंयुतम् || ६- १०६||
बहिः सुवर्णनिचितं सर्वरत्नोपशोभितम् |
चतुःप्रग्रीवकोपेतं चक्षुर्लिङ्गसमायुतम् || ६- १०७||
चतुर्दिक्षु वनोपेतं चतुर्भिः संयुतैः शरैः |
चतुर्णां पुरयुक्तेन प्राकारेण च संयुतम् || ६- १०८||
मेरुप्रासादमित्येवं हेमरत्नविभूषितम् |
यः कारयेद्वनोपेतं सो ऽनन्तफलमाप्नुयात् || ६- १०९||
भूम्यम्भःपरमाणूनां यथा संख्या न विद्यते |
शिवायतनपुण्यस्य तथा संख्या न विद्यते || ६- ११०||
कुलत्रिंशकसंयुक्तः सर्वभृत्यसमन्वितः |
कलत्रपुत्रमित्रैश्च सर्वस्वजनसंयुतः || ६- १११||
आश्र्तितोपाश्रितैः सर्वैरशेषगणसंयुतः |
यथा शिवस्तथैवायं शर्वलोके स पूज्यते || ६- ११२||
न च मानुष्यकं लोकमागच्छेत्कृपणं पुनः |
सर्वज्ञः परिपूर्णश्च मुक्तः स्वात्मनि तिष्ठति || ६- ११३||
यः शिवाय वनं कृत्वा मुदाब्दसलिलोत्थितम्(?)|
तद्दण्डकोपशोभं च हस्ते कुर्वीत सर्वदा || ६- ११४||
शोभयेद्भूतनाथं वा चन्द्रशालां क्वचित्क्वचित् |
वेदीं वाथाभ्यपद्यन्त प्रोन्नताः स्तम्भपङ्क्तयः || ६- ११५||
शातकुम्भमयीं वापि सर्वलक्षणसंयुताम् |
ईश्वरप्रतिमां सौम्यां कारयेत्पुरुषोच्छ्रिताम् || ६- ११६||
त्रिशूलसव्यहस्तां च वरदाभयदायिकां |
सव्यहस्ताक्षमालां च जटाकुसुमभूषिताम् || ६- ११७||
पद्मसिंहासनासीनां वृषस्थां वा समुच्छ्रिताम् |
विमानस्थां रथस्थां वा वेदिस्थां वा प्रभान्विताम् || ६- ११८||
सौम्यवक्त्रां करालां वा महाभैरवरूपिणीम् |
अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योगसंस्थिताम् || ६- ११९||
कुर्यादसंभवे हेम्नस्तारेण विमलेन च |
आरकूटमयीं वापि ताम्रमृच्छैलदारुजाम् || ६- १२०||
अशेषकैः सरूपैश्च वर्णकैर्वा पटे लिखेत् |
कुड्ये वा फलके वापि भक्त्या वित्तानुसारतः || ६- १२१||
एकां सपरिवारां वा पार्वतीं गणसंयुताम् |
प्रतीहारसमोपेतां(?)कुर्यादेवाविकल्पतः || ६- १२२||
पीठं वा कारयेद्रौप्यं ताम्रं पित्तलसंभवम् |
चतुर्मुखैकवक्त्रं वा बहिः काञ्चनसंस्कृतम् || ६- १२३||
पृथक्पृथगनेकानि कारयित्वा मुखानि तु |
सौम्यभैरवरूपाणि शिवस्य बहुरूपिणः || ६- १२४||
नानाभरणयुक्तानि हेमरौप्यकृतानि च |
शिवस्य रथयात्रायां तानि लोकस्य दर्शयेत् || ६- १२५||
उक्तानि यानि पुण्यानि संक्षेपेण पृथक्पृथक् |
कृत्वैकेन ममैतेषामक्षयं फलमाप्नुयात् || ६- १२६||
मातुः पितुः सहोपायैर्(?)दशभिर्दशभिः कुलैः |
कलत्रपुत्रमित्राद्यैर्भृत्यैर्युक्तः स बान्धवैः || ६- १२७||
अयुतेन विमानानां सर्वकामयुतेन च |
भुङ्क्ते स्वयं महाभोगानन्ते मुक्तिमवाप्नुयात् || ६- १२८||
मण्डपस्तम्भपर्यन्ते कीलयेद्दर्पणान्वितम् |
अभिषिच्य जना यस्मिन्पुजां कुवन्ति बिल्वकैः || ६- १२९||
कालकालकृतिं कृत्वा कीलयेद्यः शिवाश्रमे |
सर्वलोकोपकाराय पूजयेच्च दिने दिने || ६- १३०||
धूपवेलाप्रमाणार्थं कल्पयेद्यः शिवाश्रमे |
क्षरन्तीं पूर्यमाणां वा सदायामे घटीं नृपः || ६- १३१||
एषामेकतमं पुण्यं कृत्वा पापविवर्जितः |
शिवलोके नरः प्राप्य सर्वज्ञः स सुखी भवेत् || ६- १३२||
रथयात्रां प्रवक्ष्यामि शिवस्य परमात्मनः |
सर्वलोकहितार्थाय महाशिल्पिविनिर्मिताम् || ६- १३३||
रथमध्ये समावेश्य यथा यष्टिं तु कीलयेत् |
यष्टेर्मध्ये स्थितं कार्यं विमानमतिशोभितम् || ६- १३४||
पञ्चभौमं त्रिभौमं वा दृढवंशप्रकल्पितम् |
कर्मणा सुनिबद्धं च रज्जुभिश्च सुसंयुतम् || ६- १३५||
पञ्चशालाण्डिकैर्युक्तं नानाभक्तिसमन्वितम् |
चित्रवर्णपरिच्छन्नं पटैर्वा वर्णकान्वितैः || ६- १३६||
लम्बकैः सूत्रदाम्ना च घण्टाचामरभूषितम् |
बुद्बुदैरर्धचन्द्रैश्च दर्पणैश्च समुज्ज्वलम् || ६- १३७||
कदल्यर्धध्वजैर्युक्तं महाच्छत्त्रं महाध्वजम् |
पुष्पमालापरिक्षिप्तं सर्वशोभासमन्वितम् || ६- १३८||
महारथविमाने ऽस्मिन्स्थापयेद्गणसंयुतम् |
ईश्वरप्रतिमां हेम्नि प्रथमे पुरमण्डपे || ६- १३९||
मुखत्रयं च बध्नीयाद्बहिः कुर्यात्तथाश्रितम् |
पुरे पुरे बहिर्दिक्षु गृहकेषु समाश्रितम् || ६- १४०||
चतुष्कं शिववक्त्राणां संस्थाप्य प्रतिपूजयेत् |
दिनत्रयं प्रकुर्वीत स्नानमर्चनभोजनम् || ६- १४१||
नृत्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः |
महावादित्रनिर्घोषैः पौषपूर्णिमपर्वणि || ६- १४२||
भ्रामयेद्राजमार्गेण चतुर्थे ऽहनि तद्रथम् |
ततः स्वस्थानमानीय तच्छेषमपि वर्धयेत् || ६- १४३||
अवधार्य जगद्धात्री प्रतिमामवतारयेत् |
महाविमानयात्रैषा कर्तव्या पट्टके ऽपि वा || ६- १४४||
वंशैर्नवैः सुपक्वैश्च कटं कुर्याद्भरक्षमम्(?)|
वृत्तं द्विगुणदीर्घं च चतुरश्रमधः समम् || ६- १४५||
सर्वत्र चर्मणा बद्धं महायष्टिसमाश्रितम् |
मुखं बद्धं च कुर्वीत वंशमण्डलिना दृढम् || ६- १४६||
कटे ऽस्मिंस्तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः |
उपर्युपरि सर्वाणि तन्मध्ये प्रतिमां न्यसेत् || ६- १४७||
वर्णकैः कुङ्कुमाद्यैश्च चित्रपुष्पैश्च पूजयेत् |
नानाभरणपूजाभिर्मुक्ताहारप्रलम्बिभिः || ६- १४८||
रथस्य महतो मध्ये स्थाप्य पट्टद्वयं दृढम् |
अधरोत्तरभागेन मध्ये छिद्रसमन्वितम् || ६- १४९||
कटियष्टेरधोभागं स्थाप्य छिद्रमयं शुभैः |
आबद्ध्य कीलयेद्यत्नाद्यष्ट्यर्धं च ध्वजाष्टकम् || ६- १५०||
कटस्य पृष्टं सर्वत्र कारयेत्पटसंवृतम् |
तत्पटे च लिखेत्सोमं सगणं सवृषं शिवम् || ६- १५१||
विचित्रपुष्पस्रग्दाम्ना समन्ताद्भूषयेत्कटम् |
रवकैः किङ्किणीजालैर्घण्टाचामरभूषितैः || ६- १५२||
महापूजाविशेषैश्च कौतूहलसमन्वितम् |
वाद्यारम्भोपचारेण मार्गशोभां प्रकल्पयेत् || ६- १५३||
तद्रथं भ्रामयेद्यत्नाद्राजमार्गेण सर्वतः |
ततः स्वाश्रममानीय स्थापयेत्तत्समीपतः || ६- १५४||
महाशब्दं ततः कुर्यात्तालत्रयसमन्वितम् |
ततस्तुष्णीं स्थिते लोके तच्छान्तिमिह धारयेत् || ६- १५५||
शिवं तु सर्वजगतः शिवं गोब्राह्मणस्य च |
शिवमस्तु नृपाणां च तद्भक्तानां जनस्य च || ६- १५६||
राजा विजयमाप्नोति पुत्रपौत्रैश्च वर्धताम् |
धर्मनिष्ठश्च भवतु प्रजानां च हिते रतः || ६- १५७||
कालवर्षी तु पर्जन्यः सस्यसंपत्तिरुत्तमा |
सुभिक्षात्क्षेममाप्नोति कार्यसिद्धिश्च जायताम् || ६- १५८||
दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः |
बहुक्षीरयुता गावो हृष्टपुष्टा भवन्तु वः || ६- १५९||
एवं शिवमहाशान्तिमुच्चार्य जगतः क्रमात् |
अभिवर्ध्य ततः शेषमैश्वरीं सार्वकामिकीम् || ६- १६०||
शिवमालां समादाय सदासीपरिचारिकः |
फलैर्भक्षैश्च संयुक्तां गृह्य पात्रीं निवेशयेत् || ६- १६१||
पात्रीं च धारयेन्मूर्ध्ना सोष्णीषां देवपुत्रकः |
अलंकृतः शुक्लवासा धार्मिकः सततं शुचिः || ६- १६२||
ततश्च तां समुत्क्षिप्य पाणिना धारयेद्बुधः |
प्रब्रूयादपरश्चात्र शिवधर्मस्य भाजकः || ६- १६३||
तोयं यथा घटीसंस्थमजस्रं क्षरते तथा |
क्षरते सर्वलोकानां तद्वदायुरहर्निशम् || ६- १६४||
यदा सर्वं परित्यज्य गन्तव्यमवशैर्ध्रुवम् |
तदा न दीयते कस्मात्पाथेयार्थमिदं धनम् || ६- १६५||
कलत्रपुत्रमित्राणि पिता माता च बान्धवाः |
तिष्ठन्ति न मृतस्यार्थे परलोके धनानि च || ६- १६६||
नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा |
यतः सर्वैः परित्यक्तं नरं धर्मो ऽनुगच्छति || ६- १६७||
तस्माद्धर्मं समुद्दिश्य यः शेषामभिवर्धयेत् |
समस्तपापनिर्मुक्तः शिवलोकं स गच्छति || ६- १६८||
उपर्युपरि वित्तेन यः शेषामभिवर्धयेत् |
तस्येयमुत्तमा देया यतश्चान्या न वर्धते || ६- १६९||
इत्येवं मध्यमां शेषां वर्धयेद्वा कनीयसीम् |
ततस्तेषां प्रदातव्या सर्वशोकस्य शान्तये || ६- १७०||
येनोत्तमा गृहीता स्याच्शिवशेषा महीयसी |
प्रापणीया गृहं तस्य तथैव शिरसा वृता || ६- १७१||
ध्वजच्छत्त्रविमानाद्यैर्महावादित्रनिःस्वनैः |
गृहद्वारं ततः प्राप्तमर्चयित्वा निवेशयेत् || ६- १७२||
दद्याद्गोत्रकलत्राणां भृत्यानां स्वजनस्य च |
तर्पयेच्चानतान्(?)भक्त्या वादित्रध्वजवाहकान् || ६- १७३||
एवमादीयते भक्त्या यः शिवस्योत्तमा गृहे |
शोभया राजमार्गेण तस्य धर्मफलं शृणु || ६- १७४||
समस्तपापनिर्मुक्तः समस्तकुलसंयुतः |
शिवलोकमवाप्नोति सभृत्यपरिचारकः || ६- १७५||
तत्र दिव्यैर्महाभोगैर्विमानैः सार्वकामिकैः |
कल्पानां क्रीडते कोटिमन्ते निर्वाणमाप्नुयात् || ६- १७६||
रथस्य यात्रां यः कुर्यादित्येवमुपशोभया |
भक्षभोज्यप्रदानैश्च तत्फलं शृनु यत्नतः || ६- १७७||
अशेषपापनिर्मुक्तः सर्वभृत्यसमन्वितः |
कुलत्रिंशकमुद्धृत्य सुहृद्भिः स्वजनैः सह || ६- १७८||
सर्वकामयुतैर्दिव्यैः स्वच्छन्दगमनालयैः |
महाविमानैः श्रीमद्भिर्दिव्यस्त्रीपरिवारितः || ६- १७९||
इच्छया क्रीडते भोगैः कल्पकोटिं शिवे पुरे |
ज्ञानयोगं ततः प्राप्य संसारादवमुच्यते || ६- १८०||
शिवस्य रथयात्रायामुपवासपरः क्षमी |
पुरतः पृष्ठतो वापि गच्छंस्तस्य फलं शृणु || ६- १८१||
अशेषपापनिर्मुक्तः शुद्धः शिवपुरं गतः |
महारथोपमैर्यानैः कल्पाशीतिं प्रमोदते" || ६- १८२||
ध्वजच्छत्त्रपताकाभिर्दीपदर्पणचामरैः |
धूपैर्वितानकलशैरुपशोभा सहस्रशः || ६- १८३||
गृहीत्वा याति पुरतः स्वेच्छया वा परेच्छया |
संपर्कात्कौतुकाल्लाभाच्छिवलोके व्रजन्ते ते || ६- १८४||
शिवस्य रथयात्रां तु यः प्रपश्यति भक्तितः |
प्रसङ्गात्कौतुकाद्वापि ते ऽपि यान्ति शिवं पुरम् || ६- १८५||
नानायत्नादिशेषान्ते नानाप्रेक्षणकानि च |
कुर्वीत रथयात्रायां रमते च विभूषिता || ६- १८६||
ते भोगैर्विविधैर्दिव्यैः शिवासन्ना गणेश्वराः |
क्रीडन्ति रुद्रभवने कल्पानां विंशतीर्नराः || ६- १८७||
महता ज्ञानसङ्घेन तस्माच्छिवरथेन च |
पृथक्जीवा मृता यान्ति शिवलोकं न संशयः || ६- १८८||
श्रीपर्वते महाकाले वाराणस्यां महालये |
जल्पेश्वरे कुरुक्षेत्रे केदारे मण्डलेश्वरे || ६- १८९||
गोकर्णे भद्रकर्णे च शङ्कुकर्णे स्थलेश्वरे |
भीमेश्वरे सुवर्णाक्षे कालञ्जरवने तथा || ६- १९०||
एवमादिषु चान्येषु शिवक्षेत्रेषु ये मृताः |
जीवाश्चराचराः सर्वे शिवलोकं व्रजन्ति ते || ६- १९१||
प्रयागं कामिकं तीर्थमविमुक्तं तु नैष्ठिकम् |
श्रीपर्वतं च विज्ञेयमिहामुत्र च सिद्धिदम् || ६- १९२||
प्रसङ्गेनापि यः पश्येदन्यत्र प्रस्थितः क्वचित् |
श्रीपर्वतं महापुण्यं सो ऽपि याति शिवं पुरम् || ६- १९३||
व्रजेद्यः शिवतीर्थानि सर्वपापैः प्रमुच्यते |
पापयुक्तः शिवज्ञानं प्राप्य निर्वाणमाप्नुयात् || ६- १९४||
तीर्थस्थानेषु यः श्राद्धं शिवरात्रे प्रयत्नतः |
कल्पयित्वानुसारेण कालस्य विषुवस्य च || ६- १९५||
तीर्थयात्रागतं शान्तं हाहाभूतमचेतनम् |
क्षुत्पिपासातुरं लोके पांसुपादं त्वरान्वितम् || ६- १९६||
संतर्पयित्वा यत्नेन म्लानलक्ष्मीमिवाम्बुभिः |
पाद्यासनप्रदानेन कस्तेन पुरुषः समः || ६- १९७||
अश्नन्ति यावत्तत्पिण्डं तीर्थनिर्धूतकल्मषाः |
तावद्वर्षसहस्राणि तद्दातास्ते शिवे पुरे || ६- १९८||
दद्याद्यः शिवसत्त्रार्थं महिषीं सुपयस्विनीम् |
मोदते स शिवे लोके युगकोटिशतं नरः || ६- १९९||
आर्ताय शिवभक्ताय दद्याद्यः सुपयस्विनीम् |
अजामेकां सुपुष्टाङ्गीं तस्य पुण्यफलं शृणु || ६- २००||
यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च |
तावद्वर्षसहस्राणि रुद्रलोके महीयते || ६- २०१||
मृदुरोमाञ्चितां कृष्णां निवेद्य गुरवे नरः |
रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् || ६- २०२||
गजाश्वरथसंयुक्तैर्विमानैः सार्वकामिकैः |
सानुगः क्रीडते भोगैः कल्पकोटिं शिवे पुरे || ६- २०३||
निवेद्याश्वतरं पुष्टमदुष्टं गुरवे नरः |
संगतिं सोपकरणं भोगान्भुङ्क्ते शिवे पुरे || ६- २०४||
दिव्याश्वयुक्तैः श्रीमद्भिर्विमानैः सार्वकामिकैः |
कोटिं कोटिं च कल्पानां तदन्ते स्यान्महीपतिः || ६- २०५||
अपि योजनमात्राय शिबिकां परिकल्पयेत् |
गुरोः शान्तस्य दान्तस्य तस्य पुण्यफलं शृणु || ६- २०६||
विमानानां सहस्रेण सर्वकामयुतेन च |
कल्पकोट्ययुतं साग्रं भोगान्भुङ्क्ते शिवे पुरे || ६- २०७||
छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम् |
बालक्रीडनकानेतानित्याद्यानपरानपि || ६- २०८||
निवेदयित्वा स्कन्दाय तत्सायुज्यमवाप्नुयात् |
भुक्त्वा तु विपुलान्भोगांस्तदन्ते स्याद्द्विजोत्तमः || ६- २०९||
मुसलोलूखलाद्यानि गृहोपकरणानि च |
दद्याच्छिवगृहस्थेभ्यस्तस्य पूण्यफलं शृणु || ६- २१०||
प्रत्येकं कल्पमेकैकं गृहोपकरणैर्नरः |
अन्ते दिवि वसेद्भोगैस्तदन्ते च गृही भवेत् || ६- २११||
खर्जूरतालपत्त्रैर्वा चर्मणा वा सुकल्पितम् |
दत्त्वा कोट्यासनं वृत्तं शिवलोकमवाप्नुयात् || ६- २१२||
प्रातर्नीहारवेलायां हेमन्ते शिवयोगिनाम् |
कृत्वा प्रतापनायाग्निं शिवलोके महीयते || ६- २१३||
सूर्यायुतप्रभादीप्तैर्विमानैः सार्वकामिकैः |
कल्पकोटिशतं भोगान्भुक्त्वा स तु महीपतिः || ६- २१४||
यः प्रान्तरं विदेशं वा गच्छन्तं शिवयोगिनम् |
भोजयीत यथाशक्त्या शिवलोके महीयते || ६- २१५||
यश्छत्त्रं धारयेद्ग्रीष्मे गच्छते शिवयोगिने |
स मृतः पृथिवीं कृत्स्नामेकच्छत्त्रामवाप्नुयात् || ६- २१६||
यः समुद्धरते मार्गे मात्रोपकरणासनम् |
शिवयोगप्रवृत्तस्य तस्य पुण्यफलं शृणु || ६- २१७||
कल्पायुतं नरः साग्रं भुक्त्वा भोगाञ्छिवे पुरे |
तदन्ते प्राप्नुयाद्राज्यं सर्वैश्वर्यसमन्वितम् || ६- २१८||
अभ्यङ्गोद्वर्तनं स्नानमार्तस्य शिवयोगिनः |
कृत्वाप्नोति महाभोगान्कल्पाञ्छिवपुरे नरः || ६- २१९||
अपनीय समुच्छिष्टं भक्तितः शिवयोगिनाम् |
दशधेनुप्रदानस्य फलमाप्नोति मानवः || ६- २२०||
पञ्चगव्यसमं ज्ञेयमुच्छिष्टं शिवयोगिनाम् |
तद्भुक्त्वा लभते शुद्धिं महतः पातकादपि || ६- २२१||
नारी च भुक्त्वा सत्पुत्रं कुलाधारं गुणान्वितम् |
राज्ययोग्यं धनाढ्यं च प्राप्नुयाद्धर्मतत्परम् || ६- २२२||
यश्च यां शिवयज्ञाय गृहस्थः परिकल्पयेत् |
शिवभक्तो ऽस्य महतः परमं फलमाप्नुयात् || ६- २२३||
शिवोमां च प्रयत्नेन भक्त्याब्दं यो ऽनुपालयेत् |
गवां लक्षप्रदानस्य संपूर्णं फलमाप्नुयात् || ६- २२४||
प्रातः प्रदद्यात्सघृतं सुकृतं बालपिण्डकम् |
दूर्वां च बालवत्सानां(?)तस्य पुण्यफलं शृणु || ६- २२५||
यावत्तद्बालवत्सानां पानाहारं प्रकल्पयेत् |
तावदष्टायुतान्पूर्वैर्भोगान्भुङ्क्ते शिवे पुरे || ६- २२६||
विधवानाथवृद्धानां प्रदद्याद्यः प्रजीवनम् |
आभूतस्संप्लवं यावच्छिवलोके महीयते || ६- २२७||
दद्याद्यः सर्वजन्तूनामाहारमनुयत्नतः |
त्रिः पृथ्वीं रत्नसंपूर्णां यद्दत्त्वा तत्फलं लभेत् || ६- २२८||
विनयव्रतदानानि यानि सिद्धानि लोकतः |
तानि तेनैव विधिना शिवमन्त्रेण कल्पयेत् || ६- २२९||
निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च |
प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः || ६- २३०||
पुनर्यः कर्तरीं दद्यात्केशक्लेशापनुत्तये |
सर्वक्लेशविनिर्मुक्तः शिवलोके सुखी भवेत् || ६- २३१||
नासिकाशोधनं दद्यात्संदंशं शिवयोगिने |
वर्षकोटिं महाभोगैः शिवलोके महीयते || ६- २३२||
नखच्छेदनकं दत्त्वा शिवलोके महीयते |
वर्षलक्षं महाभोगैः शिवलोके महीयते || ६- २३३||
दत्त्वाञ्जनशलाकां वा लोहाद्यां शिवयोगिने |
भोगाञ्छिवपुरे प्राप्य ज्ञानचक्षुरवाप्नुयात् || ६- २३४||
कर्णशोधनकं दत्त्वा लोहाद्यं शिवयोगिने |
वर्षकोटिं महाभोगैः शिवलोके महीयते || ६- २३५||
दद्याद्यः शिवभक्ताय सूचीं कौपीनशोधनीम् |
वर्षलक्षं स लक्षार्धं शिवलोके महीयते || ६- २३६||
निवेद्य शिवयोगिभ्यः सूचिकं सूत्रसंयुतम् |
वर्षलक्षं महाभोगैः क्रीडते स शिवे पुरे || ६- २३७||
दद्याद्यः शिवयोगिभ्यः सुकृतां पत्रवेधनीम् |
वर्षलक्षं महाभोगैः शिवलोके महीयते || ६- २३८||
दद्याद्यः पुस्तकादीनां सर्वकार्यार्थकर्तृकाम् |
पञ्चलक्षं महाभोगैर्मोदते स शिवे पुरे || ६- २३९||
शमीन्धनतृणादीनां दद्यात्तच्छेदनं च यः |
क्रीडते स शिवे लोके वर्षलक्षचतुष्टयम् || ६- २४०||
शिवाश्रमोपभोगाय लोहोपकरणं महत् |
यः प्रदद्याग्कुठाराद्यं तस्य पुण्यफलं शृणु || ६- २४१||
यावत्तत्फलसंख्यानं लोहोपकरणे भवेत् |
तावन्ति वर्षलक्षाणि शिवलोके महीयते || ६- २४२||
शिवायतनवित्तानां रक्षार्थं यः प्रयच्छति |
धनुःखड्गायुधादीनि तस्य पुण्यफलं शृणु || ६- २४३||
एकैकस्मिन्परिज्ञेयमायुधे चापि वै फलम् |
वर्षकोट्यष्टकं भोगैः शिवलोके महीयते || ६- २४४||
यः स्वात्मभोगभृत्यर्थं कुसुमानि निवेदयेत् |
शिवाय गुरवे वापि तस्य पुण्यफलं शृणु || ६- २४५||
यावदन्योऽन्यसंबन्धास्तस्यांशाः परिकीर्तिताः |
वर्षलक्षं स तावच्च शिवलोके प्रमोदते || ६- २४६||
नष्टापहृतमन्विष्य पुनर्वित्तं निवेदयेत् |
शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु || ६- २४७ ||
यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् |
नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् || ६- २४८||
देवद्रव्यं हृतं नष्टमन्वेष्यमपि यत्नतः |
न प्राप्नोति तदा तस्य प्राप्नुयाद्द्विगुणं फलम् || ६- २४९||
ताम्रकुम्भकटाहाद्यं यः शिवाय निवेदयेत् |
शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु || ६- २५०||
यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् |
नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् || ६- २५१||
स्नानसत्त्रोपभोगाय तस्य पुण्यफलं शृणु |
यावत्तत्फलसंख्यानं ताम्रोपकरणे स्थितम् || ६- २५२||
पले पले वर्षकोटिं मोदते स शिवे पुरे |
यः पत्त्रपुष्पवस्तूनां दद्यादाधारभाजनम् || ६- २५३||
तद्वस्तुदातुर्यत्पुण्यं तत्पुण्यं सकलं भवेत् |
दत्त्वोपकरणं किंचिदपि यो वित्तमर्थिनाम् || ६- २५४||
यद्वस्तु कुरुते तेन तत्प्रदानफलं लभेत् |
यः शौचपीतवस्त्राणि क्षाराद्यैः शिवयोगिनाम् || ६- २५५||
स पापमलनिर्मुक्तः शिवलोकमवाप्नुयात् |
यः पुष्पपट्टसंयुक्तं पटगर्भं च कम्बलम् || ६- २५६||
प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु |
तेषां च वस्त्रतन्तूनां यावत्संख्या विधीयते || ६- २५७||
तावद्वर्षसहस्राणि भोगान्भुङ्क्ते शिवे पुरे |
श्लक्ष्णवस्त्राणि शुक्लानि दद्याद्यः शिवयोगिने || ६- २५८||
चित्रवस्त्राणि तद्भक्त्या तस्य पुण्यफलं शृणु |
यावत्तत्सूक्ष्मवस्त्राणां तन्तुसंख्या विधीयते || ६- २५९||
तावद्युगानि संभोगैः शिवलोके महीयते |
शङ्खपात्रं तु विस्तीर्णं भाण्डं वापि सुशोभनम् || ६- २६०||
प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु |
दिव्यं विमानमारूढः सर्वकामसमन्वितम् || ६- २६१||
कल्पकोट्ययुतं साग्रं शिवलोके महीयते |
शुक्त्यादीनि च पात्राणि शोभनान्यमलानि च || ६- २६२||
निवेद्य शिवयोगिभ्यः शङ्खार्धेन फलं लभेत् |
स्फाटिकानां च पात्राणां शङ्खतुल्यफलं स्मृतम् || ६- २६३||
शैलजानां तदर्धेन पात्राणां च तदर्धकम् |
तालखर्जूरपात्राणां वंशजानां निवेदने || ६- २६४||
अन्येषामेवमादीनां पुण्यं वार्क्ष्यार्धसंमितम् |
वंशजार्धसमं पुण्यं फलपात्रनिवेदने || ६- २६५||
नानापर्णपुटाणां च साराणां वा फलार्धकम् |
यस्ताम्रकांस्यपात्राणि शोव्हनान्यमलानि च || ६- २६६||
स्नानभोजनपानार्थं दद्याद्यः शिवयोगिने |
ताम्रां कांसीं त्रिलोहीं वा यः प्रदद्यात्त्रिपादिकाम् || ६- २६७||
भोजने भोजनाधारं गुरवे तत्फलं शृणु |
यावत्तत्पलसंख्यानं त्रिपाद्या भोजनेषु च || ६- २६८||
तावद्युगसहस्राणि भोगान्भुङ्क्ते शिवे पुरे |
लोहं त्रिपादिकं दत्त्वा सत्कृत्वा शिवयोगिने || ६- २६९||
दशकल्पान्महाभोगैर्नरः शिवपुरे वसेत् |
यः प्रदद्यात्त्रिविष्टम्भं भिक्षापात्रसमाश्रयम् || ६- २७०||
वंशजं दारुजं वापि तस्य पुण्यफलं शृणु |
दिव्यस्त्रीभोगसंपन्नो विमाने महति स्थितः || ६- २७१||
चतुर्युगसहस्रं तु भोगान्भुङ्क्ते शिवे पुरे |
भिक्षापात्रमुखाच्छादम्वस्त्रपर्णादिकल्पितम् || ६- २७२||
दत्त्वा शिवपुरे भोगान्कल्पमेकं वसेन्नरः |
संश्रयं यः प्रदद्याच्च भिक्षापात्रे कमण्डलौ || ६- २७३||
कल्पितं वस्त्रसूत्राद्यैस्तस्य पुण्यफलं शृणु |
तद्वस्त्रपूततन्तूनां संख्या यावद्विधीयते || ६- २७४||
तावद्वर्षसहस्राणि रुद्रलोके महीयते |
सूत्रवल्कलवालैर्वा शिक्यभाण्डसमाश्रयम् || ६- २७५||
यः कृत्वा दामनीयोक्त्रं प्रग्रहं रज्जुमेव वा |
एवमादीनि चान्यानि वस्तूनि विनिवेदयेत् || ६- २७६||
शिवगोष्ठोपयोगार्थं तस्य पुण्यफलं शृणु |
यावत्तद्रज्जुसंख्यानं प्रदद्याच्छिवगोकुले || ६- २७७||
तावच्चतुर्युगं देही शिवलोके महीयते |
यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा || ६- २७८ ||
तथा तथा महापुण्यं तद्दानादुत्तरोत्तरम् |
यः पन्थानं दिशेत्पृष्टं प्रणष्टं च गवादिकं || ६- २७९||
स गोदानसमं पुण्यं प्रज्ञासौख्यं च विन्दति |
कृत्वोपकारमार्तानां स्वर्गं याति न संशयः || ६- २८०||
अपि कण्टकमुद्धृत्य किमुतान्यं महागुणम्(?)|
अन्नपानौषधीनां च यः प्रदातारमुद्दिशेत् || ६- २८१||
आर्तानां तस्य विज्ञेयं दातुस्तत्सदृशं फलम् |
शिवाय तस्य संरुद्धं कर्म तिष्ठति यद्विना || ६- २८२||
तदल्पमपि यज्ञाङ्गं दत्त्वा यज्ञफलं लभेत् |
अपि काशकुशं सूत्रं गोमयं समिदिन्धनम् || ६- २८३||
शिवयज्ञोपयोगार्थं प्रवक्ष्यामि समासतः |
सर्वेषां शिवभक्तानां दद्याद्यत्किंचिदादरात् |
दत्त्वा यज्ञफलं विद्यात्किमु तद्वस्तुदानतः || ६- २८४||
|| इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः ||
अथ स्वर्गापवर्गार्थे प्रवक्ष्यामि समासतः |
सर्वेषां शिवभक्तानां शिवाचारमनुत्तमम् || ७- १||
शिवः शिवाय भूतानां यस्माद्दानं प्रयच्छति |
गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् || ७- २||
नालक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच्छिवः |
अल्पागमे गुरौ तद्वत्सांनिध्यं न प्रकल्पयेत् || ७- ३||
शिवज्ञानार्थतत्त्वज्ञः प्रसन्नमनसं गुरुम् |
शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतरः || ७- ४||
गुरुं च शिववद्भक्त्या नमस्कारेण पूजयेत् |
कृताञ्जलिस्त्रिसंध्यं च भूमिविन्यस्तमस्तकः || ७- ५||
न विविक्तमनाचान्तम्(?)चङ्क्रमन्तं तथाकुलम् |
समाधिस्थं व्रजन्तं च नमस्कुर्याद्गुरुं बुधः || ७- ६||
व्याख्याने तत्समाप्तौ च संप्रश्ने स्नानभोजने |
भुक्त्वा च शयने स्वप्ने नमस्कुर्यात्सदा गुरुम् || ७- ७||
ग्रामान्तरमभिप्रेप्सुर्गुरोः कुर्यात्प्रदक्षिणम् |
सार्वाङ्गिकप्रणामं च पुनः कुर्यात्तदागतः || ७- ८||
पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम् |
शिवज्ञानस्य चारम्भे प्रवासगमनागतौ || ७- ९||
शिवधर्मव्रतारम्भे तत्समाप्तौ च कल्पयेत् |
प्रसादनाय कुपितो विजित्य च रिपुं तथा || ७- १०||
पुण्याहे ग्रहशान्तौ च दीक्षायां च सदक्षिणम् |
आवार्य पदसंप्राप्तौ पवित्रे चोपविग्रहे || ७- ११||
उपानच्छत्त्रशयनं वस्त्रमासनभूषणम् |
पात्रदण्डाक्षसूत्रं वा गुरुसक्तं न धारयेत् || ७- १२||
हास्यनिष्ठीवनास्फोटमुच्चभाष्यविजृम्भणम् |
पादप्रसारणं गतिं न कुर्याद्गुरुसंनिधौ || ७- १३||
हीनान्नपानवस्त्रः स्यान्नीचशय्यासनो गुरोः |
न यथेष्टश्च संतिष्ठेत्कलहं च विवर्जयेत् || ७- १४||
प्रतिवाते ऽनुवाते वा न तिष्ठेद्गुरुणा सह |
असंश्रये च सततं न किंचित्कीर्तयेद्गुरोः || ७- १५||
अन्यासक्तो न भुञ्जानो न तिष्ठन्नपराङ्मुखः |
न शयनो न चासीनः संभास्येद्गुरुणा सह || ७- १६||
दृष्ट्वैव गुरुमायान्तमुत्तिष्ठेद्दूरतस्त्वरम् |
अनुज्ञातश्च गुरुणा संविशेच्चानुपृष्ठतः || ७- १७||
न कण्ठं प्रावृतं कुर्यान्न च तत्रावसक्तिकाम् |
न पादधावनस्नानं यत्र पश्येद्गुरुः स्थितः || ७- १८||
न दन्तधावनाभ्यङ्गमायामोद्वर्तनक्रियाः |
उत्सर्गपरिधानं च गुरोः कुर्वीत पश्यतः || ७- १९||
गुरुर्यदर्पयेत्किंचिद्गृहासन्नं तदञ्जलौ |
पात्रे वा पुरतः शिष्यस्तद्वक्त्रमभिवीक्षयन् || ७- २०||
यदर्पयेद्गुरुः किंचि तन्नम्रः पुरतः स्थितः |
पाणिद्वयेन गृह्णीयत्स्थापयेत्तच्च सुस्थितम् || ७- २१||
न गुरोः कीर्तयेन्नाम परोऽक्षमपि केवलम् |
समानसंज्ञमन्यं वा नाह्वयीत तदाख्यया || ७- २२||
स्वगुरुस्तद्गुरुश्चैव यदि स्यातां समं क्वचित् |
गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च तदाज्ञया || ७- २३||
अनिवेद्य न भुञ्जीत भुक्त्वा चास्य निवेदयेत् |
नाविज्ञाप्य गुरुं गच्छेद्बहिः कार्येण केनचित् || ७- २४||
गुर्वाज्ञया कर्म कृत्वा तत्समाप्तौ निवेदयेत् |
कृत्वा च नैत्यकं सर्वमधीयीताज्ञया गुरोः || ७- २५||
मृद्भस्मगोमयजलं पत्त्रपुष्पेन्धनं समित् |
पर्याप्तमष्टकं ह्येतद्गुर्वर्थं तु समाहरेत् || ७- २६||
भैषज्याहारपात्राणि वस्त्रशय्यासनं गुरोः |
आनयेत्सर्वयत्नेन प्रार्थयित्वा धनेश्वरान् || ७- २७||
गुरोर्न खण्डयेदाज्ञामपि प्राणान्परित्यजेत् |
कृत्वाज्ञां प्राप्नुयान्मुक्तिं लङ्घयन्नरकं व्रजेत् || ७- २८||
पर्यटेत्पृथिवीं कृत्स्नां सशैलवनकाननाम् |
गुरुभैषज्यसिद्ध्यर्थमपि गच्छेद्रसातलम् || ७- २९||
यदादिशेद्गुरुः किंचित्तत्कुर्यादविचारतः |
अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा || ७- ३०||
नोत्थापयेत्सुखासीनं शयानं न प्रबोधयेत् |
आसीनो गुरुमासीनमभिगच्छेत्प्रतिष्ठितम् || ७- ३१||
पथि प्रयान्तं यान्तं च यत्नाद्विश्रमयेद्गुरुम् |
क्षित्पिपासातुरं स्नातं ज्ञात्वा शक्तं च भोजयेत् || ७- ३२||
अभ्यङ्गोद्वर्तनं स्नानं भोजनष्ठीवमार्जनम् |
गात्रसंवाहनं रात्रौ पादाभ्यङ्गं च यत्नतः || ७- ३३||
प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जनाञ्जनम् |
नानापुष्पप्रकरणं श्रीमद्व्याख्यानमण्डपे || ७- ३४||
स्थाप्यासनं गुरोः पूज्यं शिवज्ञानस्य पुस्तकम् |
तत्र तिष्ठेत्प्रतीक्षंस्तद्गुरोरागमनं क्रमात् || ७- ३५||
गुरोर्निन्दापवादं च श्रुत्वा कर्णौ पिधापयेत् |
अन्यत्र चैव सर्पेत्तु निगृह्णीयादुपायतः || ७- ३६||
न गुरोरप्रियं कुर्यात्पीडितस्तारितो ऽपि वा |
नोच्चारयेच्च तद्वाक्यमुच्चार्य नरकं व्रजेत् || ७- ३७||
गुरुरेव पिता माता गुरुरेव परः शिवः |
यस्यैव निश्चितो भावस्तस्य मुक्तिर्न दूरतः || ७- ३८||
आहाराचारधर्माणां यत्कुर्याद्गुरुरीश्वरः |
तथैव चानुकुर्वीत नानुयुञ्जीत कारणम् || ७- ३९||
यज्ञस्तपांसि नियमात्तानि वै विविधानि च |
गुरुवाक्ये तु सर्वाणि संपद्यन्ते न संशयः || ७- ४०||
अज्ञानपङ्कनिर्मग्नं यः समुद्धरते जनम् |
शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् || ७- ४१||
इति यः पूजयेन्नित्यं गुरुमूर्तिस्थमीश्वरम् |
सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् || ७- ४२||
स्नात्वाम्भसा भस्मना वा शुक्लवस्त्रोपवीतवान् |
दूर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत् || ७- ४३||
रोचनालभनं कुर्याद्धूययेदात्मनस्तनुम् |
अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत् || ७- ४४||
गुरुरेवंविधः श्रीमान्नित्यं तिष्ठेत्समाहितः |
यस्माज्ज्ञानोपदेशार्थं गुरुरास्ते सदाशिवः || ७- ४५||
धारयेत्पादुके नित्यं मृदुवर्मप्रकल्पिते |
प्रगृह्य दण्डं छत्त्रं वा पर्यटेदाश्रमाद्बहिः || ७- ४६||
न भूमौ विन्यसेत्पादमन्तर्धानं विना गुरुः |
कुशपादकमाक्रम्य तर्पणार्थं प्रकल्पयेत् || ७- ४७||
पादस्थानानि पत्त्राद्यैः कृत्वा देवगृहं विशेत् |
पात्रास्तरितपादश्च(?)नित्यं भुञ्जीत वाग्यतः || ७- ४८||
न पादौ धावयेत्कांस्ये लोहे वा परिकल्पिते |
शौचयेत्तृणगर्भायां द्वितीयायां तथाचमेत् || ७- ४९||
न रक्तमुल्बणं वस्त्रं धारयेत्कुसुमानि च |
न बहिर्गन्धमाल्यानि वासांसि मलिनानि च || ७- ५०||
केशास्थीनि कपालानि कार्पासास्थितुषाणि च |
अमेध्याङ्गारभस्मानि नाधितिष्ठेद्रजांसि च || ७- ५१||
न च लोष्टं विमृद्नीयान्न च छिन्द्यान्नखैस्तृणम् |
न पत्त्रपुष्पमूल्यानि वंशमङ्गलकाष्ठिताम् || ७- ५२||
एवमादीनि चान्यानि पाणिभ्यां न च मर्दयेत् |
न दन्तखादनं कुर्याद्रोमाण्युत्पाटयेन्न च || ७- ५३||
न पद्भ्यामुल्लिखेद्भूमिं लोष्टकाष्ठैः करेण वा |
न नखांश्च नखैर्विध्यान्न कण्डूयेन्नखैस्तनुम् || ७- ५४||
मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत्करजैर्बुधः |
न लिक्षाकर्षणं कुर्यादात्मनो वा परस्य वा || ७- ५५||
सौवर्ण्यरौप्यताम्रैश्च शृङ्गदन्तशलाकया |
देहकण्डूयनं कार्यं वंशकाष्ठीकवीरणैः(?)|| ७- ५६||
न विचित्तं प्रकुर्वीत दिशश्चैवावलोकयन् |
न शोकार्तश्च संतिष्ठेद्धूत्वा पाणौ कपोलकम् || ७- ५७||
न पाणिपादवाक्चक्षुः- श्रोत्रशिश्नगुदोदरैः |
चापलानि न कुर्वीत स सर्वार्थमवाप्नुयात् || ७- ५८||
न कुर्यात्केनचिद्वैरमध्रुवे जीविते सति |
लोककौतूहलं पापं संध्यां च परिवर्जयेत् || ७- ५९||
न कुद्वारेण वेश्मानि नगरं ग्राममाविशेत् |
न दिवा प्रावृतशिरा रात्रौ प्रावृत्य पर्यटेत् || ७- ६०||
नातिभ्रमणशीलः स्यान्न विशेच्च गृहाद्गृहम् |
न चाज्ञानमधीयीत शिवज्ञानं समभ्यसेत् || ७- ६१||
शिवज्ञानं परं ब्रह्म तदारभ्य न संत्यजेत् |
ब्रह्मासाध्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः || ७- ६२||
कृताञ्जलिः स्थितः शिष्यो लघुवस्त्रमुदङ्मुखः |
शिवमन्त्रं समुच्चार्य प्राङ्मुखो ऽध्यापयेद्गुरुः || ७- ६३||
नागदन्तादिसंभूतं चतुरश्रं सुशोभनम् |
हेमरत्नचितं वापि गुरोरासनमुत्तमम् || ७- ६४||
न शुश्रूषार्थकामाश्च न च धर्मः प्रदृश्यते |
न भक्तिर्न यशः क्रौर्यं न तमध्यापयेद्गुरुः || ७- ६५||
देवाग्निगुरुगोष्ठीषु व्याख्याध्ययनसंसदि |
प्रश्ने वादे ऽनृते ऽशौचे दक्षिणं बाहुमुद्धरेत् || ७- ६६||
वशे सततनम्रः स्यात्संहृत्याङ्गानि कूर्मवत् |
तत्संमुखं च निर्गच्छेन्नमस्कारपुरस्सरः || ७- ६७||
देवाग्निगुरुविप्राणां न व्रजेदन्तरेण तु |
नार्पयेन्न च गृह्णीयात्किंचिद्वस्तु तदन्तरा || ७- ६८||
न मुखेन धमेदग्निं नाधःकुर्यान्न लङ्घयेत् |
न क्षिपेदशुचिं वह्नौ न च पादौ प्रतापयेत् || ७- ६९||
तृणकाष्ठादिगहने जन्तुभिश्च समाकुले |
स्थाने न दीपयेदग्निं दीप्तं चापि ततः क्षिपेत् || ७- ७०||
अग्निं युगपदानीय धारयेत प्रयत्नतः |
ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद्बुधः || ७- ७१||
शिवव्रतधरं दृष्ट्वा समुत्थाय सदा द्रुतम् |
शिवो ऽयमिति संकल्प्य हर्षितः प्रणमेत्ततः || ७- ७२||
भोगान्ददाति विपुलान्लिङ्गे संपूजितः शिवः |
अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति || ७- ७३||
मोक्षार्थं पूजयेत्तस्माद्गुरुमूर्तिस्थमीश्वरम् |
गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तिमवाप्नुयात् || ७- ७४||
सर्वपर्वसु यत्नेन ह्येषु संपूजयेच्छिवम् |
कुर्यादायतने शोभां गुरुस्थानेषु सर्वतः || ७- ७५||
नरद्वयोच्छ्रिते पीठे सर्वशोभासमन्विते |
संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज्जगद्धितम् || ७- ७६||
अन्नपानविशेषैश्च नैवेद्यमुपकल्पयेत् |
भोजयेद्व्रतिनश्चात्र स्वगुरुं च विशेषतः || ७- ७७||
पूजयेच्च शिवज्ञानं वाचयीत च पर्वसु |
दर्शयेच्छिवभक्तेभ्यः सत्पूजां परिकल्पिताम् || ७- ७८||
प्रियं ब्रूयात्सदा तेभ्यः प्रदेयं चापि शक्तितः |
एवं कृते विशेषेण प्रसीदति महेश्वरः || ७- ७९||
छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति केवलम् |
इत्याद्यान्न वदेच्छब्दान्साक्षाद्ब्रूयात्तु मङ्गलम् || ७- ८०||
अधेनुं धेनुमित्येव ब्रूयाद्भद्रमभद्रकम् |
कपालं च भगालं स्यात्परमं मङ्गलं वदेत् || ७- ८१||
ऐन्द्रं धनुर्मणिधनुर्दाहकाष्ठादि चन्दनम् |
स्वर्यातं च मृतं ब्रूयाच्छिवीभूतं च योगिनम् || ७- ८२||
द्विधाभूतं वदेच्छिन्नं भिन्नं च बहुधा स्थितम् |
नष्टमन्वेषणीयं च रिक्तं पूर्णाभिवर्धितम् || ७- ८३||
नास्तीति शोभनं सर्वमाद्यमङ्गाभिवर्धनम् |
सिद्धिमद्ब्रूहि गच्छन्तं सुप्तं ब्रूयात्प्रवर्धितम् || ७- ८४||
न म्लेच्छमूर्खपतितैः क्रूरैः संतापवेदिभिः |
दुर्जनैरवलिप्तैश्च क्षुद्रैः सह न संवदेत् || ७- ८५||
नाधार्मिकनृपाक्रान्ते न दंशमशकावृते |
नातिशीतजलाकीर्णे देशे रोगप्रदे वसेत् || ७- ८६||
नासनं शयनं पानं नमस्काराभिवादनम् |
सोपानत्कः प्रकुर्वीत शिवपुस्तकवाचनम् || ७- ८७||
आचार्यं दैवतं तीर्थमुद्धूतोदं मृदं दधि |
वटमश्वत्थकपिलां दीक्षितोदधिसंगमम् || ७- ८८||
यानि चैषां प्रकाराणि मङ्गलानीह कानिचित् |
शिवायेति नमस्कृत्वा प्रोक्तमेतत्प्रदक्षिणम् || ७- ८९||
उपानच्छत्त्रवस्त्राणि पवित्रं करकं स्रजम् |
आसनं शयनं पानं धृतमन्यैर्न धारयेत् || ७- ९०||
पालाशमासनं शय्यां पादुके दन्तधावनम् |
वर्जयेच्चापि निर्यासं रक्तं न तु समुद्भवम् || ७- ९१||
संध्यामुपास्य कुर्वीत नित्यं देहप्रसाधनम् |
स्पृशेद्वन्देच्च कपिलां प्रदद्याच्च गवां हितम् || ७- ९२||
यः प्रदद्याद्गवां सम्यक्फलानि च विशेषतः |
क्षेत्रमुद्दामयेच्चापि तस्य पुण्यफलं शृणु || ७- ९३||
यावत्तत्पत्त्रकुसुम- कन्दमूलफलानि च |
तावद्वर्षसहस्राणि शिवलोके महीयते || ७- ९४||
कृशरोगार्तवृद्धानां त्यक्तानां निर्जने वने |
क्षुत्पिपासातुराणां च गवां विह्वलचेतसाम् || ७- ९५||
नीत्वा यस्तृणतोयानि वने यत्नात्प्रयच्छति |
करोति च परित्राणं तस्य पुण्यफलं शृणु || ७- ९६||
कुलैकविंशकोपेतः पत्नीपुत्रादिसंयुतः |
मित्रभृत्यैरुपेतश्च श्रीमच्छिवपुरं व्रजेत् || ७- ९७||
तत्र भुक्त्वा महाभोगान्विमानैः सार्वकामिकैः |
स महाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् || ७- ९८||
गोब्राह्मणपरित्राणं सकृत्कृत्वा प्रयत्नतः |
मुच्यते पञ्चभिर्घोरैर्महद्भिः पातकैर्द्रुतम् || ७- ९९||
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता |
अक्रोधो गुरुशुश्रूषा शौचं संतोषमार्जवम् || ७- १००||
अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः |
अक्रोधाद्याश्च नियमाः सिद्धिवृद्धिकराः स्मृताः || ७- १०१||
दशलाक्षणिको धर्मः शिवाचारः प्रकीर्तितः |
योगीन्द्राणां विशेषेण शिवयोगप्रसिद्धये || ७- १०२||
न विन्दति नरो योगं पुत्रदारादिसंगतः |
निबद्धः स्नेहपाशेन मोहस्तम्भबलीयसा || ७- १०३||
मोहात्कुटुम्बसंसक्तस्तृष्णया शृङ्खलीकृतः |
बालैर्बद्धस्तु लोको ऽयं मुसलेनाभिहन्यते || ७- १०४||
इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना |
मोहाद्धि चिन्तयत्येवं परमार्थौ न पश्यति || ७- १०५||
संपर्कादुदरे न्यस्तः शुक्रबिन्दुरचेतनः |
स पित्रा केन यत्नेन गर्भस्थः परिपालितः || ७- १०६||
कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः |
तस्मिन्नेवोदरे शुक्रं किं न जीर्यति भक्ष्यवत् || ७- १०७||
येनैतद्योजितं गर्भे येन चैव विवर्धितम् |
तेनैव निर्गत्ं भूयः कर्मणा स्वेन पाल्यते || ७- १०८||
न कश्चित्कस्यचित्पुत्रः पिता माता न कस्यचित् |
यत्स्वयं प्राक्तनं कर्म पिता मातेति तत्स्मृतम् || ७- १०९||
येन यत्र कृतं कर्म स तत्रैव प्रजायते |
पितरौ चास्य दासत्वं कुरुतस्तत्प्रचोदितौ || ७- ११०||
न कश्चित्कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च |
करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् || ७- १११||
कर्मदायादसंबन्धादुपकारः परस्परम् |
दृश्यते नापकारश्च मोहेनात्मनि मन्यते || ७- ११२||
ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् |
ग्रामस्वामिप्रसादेन सुकृतं कर्षणं यथा || ७- ११३||
द्वयं देवत्वमोक्षाय ममेति न ममेति च |
ममेति बध्यते जन्तुर्न ममेति विमुच्यते || ७- ११४||
द्व्यक्षरं च भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् |
ममेति द्व्यक्षरं मृत्युस्त्र्यक्षरं न ममेति च || ७- ११५||
तस्मादात्मन्यहंकारमुत्सृज्य प्रविचारतः |
विधूयाशेषसङ्गांश्च मोक्षोपायं विचिन्तयेत् || ७- ११६||
ज्ञानाद्योगपरिक्लेशं कुप्रावरणभोजनम् |
कुचर्यां कुनिवासं च मोक्षार्थी न विचिन्तयेत् || ७- ११७||
न दुःखेन विना सौख्यं दृश्यते सर्वदेहिनाम् |
दुःखं तन्मात्रकं ज्ञेयं सुखमानन्त्यमुत्तमम् || ७- ११८||
सेवायां पाशुपाल्ये च वानिज्ये कृषिकर्मणि |
तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये || ७- ११९||
स्वर्गापवर्गयोरेकं यः शीघ्रं न प्रसाधयेत् |
याति तेनैव देहेन स मृतस्तप्यते चिरम् || ७- १२०||
यदवश्यं पराधीनैस्त्यजनीयं शरीरकम् |
कस्मात्तेन विमूढात्मा न साधयति शाश्वतम् || ७- १२१||
यौवनस्था गृहस्थाश्च प्रासादस्थाश्च ये नृपाः |
सर्व एव विशीर्यन्ते शुष्कस्निग्धान्नभोजनाः || ७- १२२||
अनेकदोषदुष्टस्य देहस्यैको महान्गुणह् |
यां यामवस्थामाप्नोति तां तामेवानुवर्तते || ७- १२३||
मन्दं परिहरन्कर्म स्वदेहमनुपालयेत् |
वर्षासु जीर्णकटवत्तिष्ठन्नप्यवसीदति || ७- १२४||
न ते ऽत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः |
सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः || ७- १२५||
तुल्ये सत्यपि कर्तव्ये वरं कर्म कृतं परम् |
यः कृत्वा न पुनः कुर्यान्नानाकर्म शुभाशुभम् || ७- १२६||
तस्मादन्तर्बहिश्चिन्तामनेकाकारसंस्थिताम् |
संत्यज्यात्महितार्थाय स्वाध्यायध्यानमभ्यसेत् || ७- १२७||
विविक्ते विजने रम्ये पुष्पाश्रमविभूषिते |
स्थानं कृत्वा शिवस्थाने ध्यायेच्छान्तं परं शिवम् || ७- १२८||
ये ऽतिरम्याण्यरण्यानि सुजलानि शिवानि तु |
विहायाभिरता ग्रामे प्रायस्ते दैवमोहिताः || ७- १२९||
विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम् |
न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा || ७- १३०||
इति नामामृतं दिव्यं महाकालादवाप्तवान् |
विस्तरेणानुपूर्वाच्च ऋष्यात्रेयः(?)सुनिश्चितम् || ७- १३१||
प्रज्ञामथा विनिर्मथ्य(?)शिवज्ञानमहोदधिम् |
ऋष्यात्रेयः समुद्धृत्य प्राहेदमणुमात्रकम् || ७- १३२||
शिवधर्मे महाशास्त्रे शिवधर्मस्य चोत्तरे |
यदनुक्तं भवेत्किंचित्तदत्र परिकीर्तितम् || ७- १३३||
त्रिदैवत्यमिदं शास्त्रं मुनीन्द्रात्रेयभाषितम् |
तिर्यङ्मनुजदेवानां सर्वेषां च विमुक्तिदम् || ७- १३४||
नन्दिस्कन्दमहाकालास्त्रयो देवाः प्रकीर्तिताः |
चन्द्रात्रेयस्तथात्रिश्च ऋष्यात्रेयो मुनित्रयम् || ७- १३५||
एतैर्महात्मबिः प्रोक्ताः शिवधर्माः समासतः |
सर्वलोकोपकारार्थं नमस्तेभ्यः सदा नमः || ७- १३६||
तेषां शिष्यप्रशिष्यैश्च शिवधर्मप्रवक्तृभिः |
व्याप्तं ज्ञानसरः शार्वं विकचैरिव पङ्कजैः || ७- १३७||
ये श्रावयन्ति सततं शिवधर्मं शिवार्थिनाम् |
ते रुद्रास्ते मुनीन्द्राश्च ते नमस्याः स्वभक्तितः || ७- १३८||
ये समुत्थाय शृण्वन्ति शिवधर्मं दिने दिने |
ते रुद्रा रुद्रलोकेशा न ते प्रकृतिमानुषाः || ७- १३९||
शिवोपनिषदं ह्येतदध्यायैः सप्तभिः स्मृतम् |
ऋष्यात्रेयसगोत्रेण मुनिना हितकाम्यया || ७- १४०||
|| इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः ||
|| इति शिवोपनिषत्समाप्ता ||
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com