.. श्लोक संग्रह २ ..
Shlokas
सरस्वती नमस्तुभ्यं वरदे कामरूपिणि .
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ..
Oh Goddess Sarasvati, my humble prostrations unto
Thee, who are the fulfiller of all my wishes.
I start my studies with the request that Thou wilt
bestow Thy blessings on me .
आकाशात् पतितं तोयं यथा गच्छति सागरम् .
सर्वदेवनमस्कारान् केशवं प्रतिगच्छति ..
दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः .
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ..
गणनाथसरस्वतीरविशुक्रबृहस्पतीन् .
पंचैतान् संस्मरेन्नित्यं वेदवाणीप्रवृत्तये .
सुमुखश्च एकदंतश्च कपिलो गजकर्णकः .
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ..
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः .
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ..
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा .
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ..
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् .
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ..
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् .
येषं हृदिस्थो भगवान् मङ्गलायतनं हरिः ..
तदेव लग्नं सुदिनं तदेव
ताराबलं चंद्रबलं तदेव .
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ..
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् .
करोमि यद्यद् सकलं परस्मै
नारायणायेति समर्पयामि ..
हरिर्दाता हरिर्भोक्ता हरिरन्नं प्रजापतिः .
हरिः सर्वः शरीरस्थो भुङ्क्ते भोजयते हरिः ..
कर्पूरगौरं करुणावतारं
संसारसारं भुजगेन्द्रहारम् .
सदा वसन्तं हृदयारविन्दे
भवं भवानीसहितं नमामि ..
.. श्रीरामायणसूत्र ..
आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनम्
वैदेहीहरणं जटायुमरणम् सुग्रीवसंभाषणम् ..
वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम्
पश्चाद्रावणकुम्भकर्णहननं एतद्धिरामायणम् ..
.. श्रीभागवतसूत्र ..
आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम्
मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ..
कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम्
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ..
.. गीतास्तव ..
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्
व्यासेनग्रथितां पुराणमुनिना मध्ये महाभारते
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीम्
अम्ब त्वामनुसन्दधामि भगवद्गीते भवेद्वेषिणीम् ..
सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः .
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ..
.. व्यासस्तुती ..
नमोस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र .
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः ..
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे .
नमोवै ब्रह्मनिधये वासिष्ठाय नमोनमः ..
.. श्रीदत्तगुरुध्यानं ..
ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं
द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् .
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ..
यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः .
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ..
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् .
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ..
श्रीकेशवाय नमः . नारायणाय नमः . माधवाय नमः .
गोविंदाय नमः . विष्णवे नमः . मधुसूदनाय नमः .
त्रिविक्रमाय नमः . वामनाय नमः . श्रीधराय नमः .
हृषीकेशाय नमः . पद्मनाभाय नमः . दामोदराय नमः .
संकर्षणाय नमः . वासुदेवाय नमः . प्रद्युम्नाय नमः .
अनिरुद्धाय नमः . पुरुषोत्तमाय नमः . अधोक्षजाय नमः .
नारसिंहाय नमः . अच्युताय नमः . जनार्दनाय नमः .
उपेन्द्राय नमः . हरये नमः . श्रीकृष्णाय नमः .
.. देवतावंदनं ..
श्रीमन्महागणाधिपतये नमः .
श्री सरस्वत्यै नमः . श्रीगुरवे नमः .
श्रीमातापितृभ्यां नमः .
श्रीलक्ष्मीनारायणाभ्यां नमः .
श्रीउमामहेश्वराभ्यां नमः .
इष्टदेवताभ्यो नमः . कुलदेवताभ्यो नमः .
स्थानदेवताभ्यो नमः . वास्तुदेवताभ्यां नमः .
सरेवेभ्यो देवेभ्यो नमो नमः .. अविघ्नमस्तु ..
.. ॐ तत्सत् इति ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com