.. श्वेताश्वतरोपनिषत् ..
ॐ सहनाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्वि नावधीतमस्तु . मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
प्रथमोऽध्यायः .
हरिः ॐ .. ब्रह्मवादिनो वदन्ति .
किं कारणं ब्रह्म कुतः स्म जाता
जीवाम केन क्व च संप्रतिष्ठा .
अधिष्ठिताः केन सुखेतरेषु
वर्तामहे ब्रह्मविदो व्यवस्थाम् .. १..
कालः स्वभावो नियतिर्यदृच्छा
भूतानि योनिः पुरुष इति चिन्त्या .
संयोग एषां न त्वात्मभावा-
दात्माप्यनीशः सुखदुःखहेतोः .. २..
ते ध्यानयोगानुगता अपश्यन्
देवात्मशक्तिं स्वगुणैर्निगूढाम् .
यः कारणानि निखिलानि तानि
कालात्मयुक्तान्यधितिष्ठत्येकः .. ३..
तमेकनेमिं त्रिवृतं षोडशान्तं
शतार्धारं विंशतिप्रत्यराभिः .
अष्टकैः षड्भिर्विश्वरूपैकपाशं
त्रिमार्गभेदं द्विनिमित्तैकमोहम् .. ४..
पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्रां
पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् .
पञ्चावर्तां पञ्चदुःखौघवेगां
पञ्चाशद्भेदां पञ्चपर्वामधीमः .. ५..
सर्वाजीवे सर्वसंस्थे बृहन्ते
अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे .
पृथगात्मानं प्रेरितारं च मत्वा
जुष्टस्ततस्तेनामृतत्वमेति .. ६..
उद्गीतमेतत्परमं तु ब्रह्म
तस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च .
अत्रान्तरं ब्रह्मविदो विदित्वा
लीना ब्रह्मणि तत्परा योनिमुक्ताः .. ७..
संयुक्तमेतत् क्षरमक्षरं च
व्यक्ताव्यक्तं भरते विश्वमीशः .
अनीशश्चात्मा बध्यते भोक्तृ-
भावाज् ज्ञात्वा देवं मुच्यते सर्वपाशैः .. ८..
ज्ञाज्ञौ द्वावजावीशनीशावजा
ह्येका भोक्तृभोग्यार्थयुक्ता .
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता
त्रयं यदा विन्दते ब्रह्ममेतत् .. ९..
क्षरं प्रधानममृताक्षरं हरः
क्षरात्मानावीशते देव एकः .
तस्याभिध्यानाद्योजनात्तत्त्व-
भावात् भूयश्चान्ते विश्वमायानिवृत्तिः .. १०..
ज्ञात्वा देवं सर्वपाशापहानिः
क्षीणैः वलेशेर्जन्ममृत्युप्रहाणिः .
तस्याभिध्यानात्तृतीयं देहभेदे
विश्वैश्वर्यं केवल आप्तकामः .. ११..
एतज्ज्ञेयं नित्यमेवात्मसंस्थं
नातः परं वेदितव्यं हि किञ्चित् .
भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् .. १२..
वह्नेर्यथा योनिगतस्य मूर्तिनर्
दृश्यते नैव च लिङ्गनाशः .
स भूय एवेन्धनयोनिगृह्य-
स्तद्वोभयं वै प्रणवेन देहे .. १३..
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् .
ध्याननिर्मथनाभ्यासादेवं पश्यन्निगूढवत् .. १४..
तिलेषु तैलं दधिनीव सर्पि-
रापः स्रोतःस्वरणीषु चाग्निः .
एवमात्माऽत्मनि गृह्यतेऽसौ
सत्येनैनं तपसायोऽनुपश्यति .. १५..
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् .
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत् परम् .. १६..
द्वितीयोऽध्यायः .
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः .
अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् .. १..
युक्तेन मनसा वयं देवस्य सवितुः सवे .
सुवर्गेयाय शक्त्या .. २..
युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् .
बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् .. ३..
युञ्जते मन उत युञ्जते धियो
विप्रा विप्रस्य बृहतो विपश्चितः .
वि होत्रा दधे वयुनाविदेक
इन्मही देवस्य सवितुः परिष्टुतिः .. ४..
युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक
एतु पथ्येव सूरेः .
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये
धामानि दिव्यानि तस्थुः .. ५..
अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते .
सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः .. ६..
सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् .
यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् .. ७..
त्रिरुन्नतं स्थाप्य समं शरीरं
हृदीन्द्रियाणि मनसा सन्निवेश्य .
ब्रह्मोडुपेन प्रतरेत विद्वान्
स्रोतांसि सर्वाणि भयानकानि .. ८..
प्राणान् प्रपीड्येह संयुक्तचेष्टः
क्षीणे प्राणे नासिकयोच्छ्वसीत .
दुष्टाश्वयुक्तमिव वाहमेनं
विद्वान् मनो धारयेताप्रमत्तः .. ९..
समे शुचौ शर्करावह्निवालिका-
विवर्जिते शब्दजलाश्रयादिभिः .
मनोनुकूले न तु चक्षुपीडने
गुहानिवाताश्रयणे प्रयोजयेत् .. १०..
नीहारधूमार्कानिलानलानां
खद्योतविद्युत्स्फटिकशशीनाम् .
एतानि रूपाणि पुरःसराणि
ब्रह्मण्यभिव्यक्तिकराणि योगे .. ११..
पृथिव्यप्तेजोऽनिलखे समुत्थिते
पञ्चात्मके योगगुणे प्रवृत्ते .
न तस्य रोगो न जरा न मृत्युः
प्राप्तस्य योगाग्निमयं शरीरम् .. १२..
लघुत्वमारोग्यमलोलुपत्वं
वर्णप्रसादः स्वरसौष्ठवं च .
गन्धः शुभो मूत्रपुरीषमल्पं
योगप्रवृत्तिं प्रथमां वदन्ति .. १३..
यथैव बिंबं मृदयोपलिप्तं
तेजोमयं भ्राजते तत् सुधान्तम् .
तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही
एकः कृतार्थो भवते वीतशोकः .. १४..
यदात्मतत्त्वेन तु ब्रह्मतत्त्वं
दीपोपमेनेह युक्तः प्रपश्येत् .
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं
ज्ञात्वा देवं मुच्यते सर्वपापैः .. १५..
एषो ह देवः प्रदिशोऽनु सर्वाः .
पूर्वो ह जातः स उ गर्भे अन्तः .
स एव जातः स जनिष्यमाणः
प्रत्यङ् जनास्तिष्ठति सर्वतोमुखः .. १६..
यो देवो अग्नौ योऽप्सु
यो विश्वं भुवनमाविवेश .
य ओषधीषु यो वनस्पतिषु
तस्मै देवाय नमो नमः .. १७..
तृतीयोऽध्यायः .
य एको जालवानीशत ईशनीभिः
सर्वांल्लोकानीशत ईशनीभिः .
य एवैक उद्भवे सम्भवे च
य एतद् विदुरमृतास्ते भवन्ति .. १..
एको हि रुद्रो न द्वितीयाय तस्थु-
र्य इमांल्लोकानीशत ईशनीभिः .
प्रत्यङ् जनास्तिष्ठति सञ्चुकोचान्तकाले
संसृज्य विश्वा भुवनानि गोपाः .. २..
विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतोबाहुरुत विश्वतस्पात् .
सं बाहुभ्यां धमति संपतत्रै-
र्द्यावाभूमी जनयन् देव एकः .. ३..
यो देवानां प्रभवश्चोद्भवश्च
विश्वाधिपो रुद्रो महर्षिः .
हिरण्यगर्भं जनयामास पूर्वं
स नो बुद्ध्या शुभया संयुनक्तु .. ४..
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी .
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि .. ५..
याभिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे .
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् .. ६..
ततः परं ब्रह्म परं बृहन्तं
यथानिकायं सर्वभूतेषु गूढम् .
विश्वस्यैकं परिवेष्टितार-
मीशं तं ज्ञात्वाऽमृता भवन्ति .. ७..
वेदाहमेतं पुरुषं महान्त-
मादित्यवर्णं तमसः परस्तात् .
तमेव विदित्वातिमृत्युमेति
नान्यः पन्था विद्यतेऽयनाय .. ८..
यस्मात् परं नापरमस्ति किंचिद्य-
स्मान्नणीयो न ज्यायोऽस्ति कश्चित् .
वृक्ष इव स्तब्धो दिवि तिष्ठत्येक-
स्तेनेदं पूर्णं पुरुषेण सर्वम् .. ९..
ततो यदुत्तरततं तदरूपमनामयम् .
य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति .. १०..
सर्वानन शिरोग्रीवः सर्वभूतगुहाशयः .
सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः .. ११..
महान् प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः .
सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः .. १२..
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये सन्निविष्टः .
हृदा मनीषा मनसाभिक्लृप्तो
य एतद् विदुरमृतास्ते भवन्ति .. १३..
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् .
स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् .. १४..
पुरुष एवेदँ सर्वं यद् भूतं यच्च भव्यम् .
उतामृतत्वस्येशानो यदन्नेनातिरोहति .. १५..
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् .
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति .. १६..
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् .
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् .. १७..
नवद्वारे पुरे देही हंसो लेलायते बहिः .
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च .. १८..
अपाणिपादो जवनो ग्रहीता
पश्यत्यचक्षुः स शृणोत्यकर्णः .
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तमाहुरग्र्यं पुरुषं महान्तम् .. १९..
अणोरणीयान् महतो महीया-
नात्मा गुहायां निहितोऽस्य जन्तोः .
तमक्रतुः पश्यति वीतशोको
धातुः प्रसादान्महिमानमीशम् .. २०..
वेदाहमेतमजरं पुराणं
सर्वात्मानं सर्वगतं विभुत्वात् .
जन्मनिरोधं प्रवदन्ति यस्य
ब्रह्मवादिनो हि प्रवदन्ति नित्यम् .. २१..
चतुर्थोऽध्यायः .
य एकोऽवर्णो बहुधा शक्तियोगाद्
वरणाननेकान् निहितार्थो दधाति .
विचैति चान्ते विश्वमादौ च देवः
स नो बुद्ध्या शुभया संयुनक्तु .. १..
तदेवाग्निस्तदादित्य-
स्तद्वायुस्तदु चन्द्रमाः .
तदेव शुक्रं तद् ब्रह्म
तदापस्तत् प्रजापतिः .. २..
त्वं स्त्री पुमानसि
त्वं कुमार उत वा कुमारी .
त्वं जीर्णो दण्डेन वञ्चसि
त्वं जातो भवसि विश्वतोमुखः .. ३..
नीलः पतङ्गो हरितो लोहिताक्ष-
स्तडिद्गर्भ ऋतवः समुद्राः .
अनादिमत् त्वं विभुत्वेन वर्तसे
यतो जातानि भुवनानि विश्वा .. ४..
अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः .
अजो ह्येको जुषमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः .. ५..
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते .
तयोरन्यः पिप्पलं स्वाद्वत्त्यन-
श्नन्नन्यो अभिचाकशीति .. ६..
समाने वृक्षे पुरुषो निमग्नोऽ-
नीशया शोचति मुह्यमानः .
जुष्टं यदा पश्यत्यन्यमीशमस्य
महिमानमिति वीतशोकः .. ७..
ऋचो अक्षरे परमे व्योमन्
यस्मिन्देवा अधि विश्वे निषेदुः .
यस्तं न वेद किमृचा करिष्यति
य इत्तद्विदुस्त इमे समासते .. ८..
छन्दांसि यज्ञाः क्रतवो व्रतानि
भूतं भव्यं यच्च वेदा वदन्ति .
अस्मान् मायी सृजते विश्वमेत-
त्तस्मिंश्चान्यो मायया सन्निरुद्धः .. ९..
मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् .
तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् .. १०..
यो योनिं योनिमधितिष्ठत्येको
यस्मिन्निद.म् सं च विचैति सर्वम् .
तमीशानं वरदं देवमीड्यं
निचाय्येमां शान्तिमत्यन्तमेति .. ११..
यो देवानां प्रभवश्चोद्भवश्च
विश्वाधिपो रुद्रो महर्षिः .
हिरण्यगर्भं पश्यत जायमानं
स नो बुद्ध्या शुभया संयुनक्तु .. १२..
यो देवानामधिपो
यस्मिन्ल्लोका अधिश्रिताः .
य ईशे अस्य द्विपदश्चतुष्पदः
कस्मै देवाय हविषा विधेम .. १३..
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
विश्वस्य स्रष्ठारमनेकरूपम् .
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा शिवं शान्तिमत्यन्तमेति .. १४..
स एव काले भुवनस्य गोप्ता
विश्वाधिपः सर्वभूतेषु गूढः .
यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च
तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति .. १५..
घृतात् परं मण्डमिवातिसूक्ष्मं
ज्ञात्वा शिवं सर्वभूतेषु गूढम् .
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा देवं मुच्यते सर्वपाशैः .. १६..
एष देवो विश्वकर्मा महात्मा
सदा जनानां हृदये सन्निविष्टः .
हृदा मनीषा मनसाभिक्लृप्तो
य एतद् विदुरमृतास्ते भवन्ति .. १७..
यदाऽतमस्तान्न दिवा न रात्रिः
न सन्नचासच्छिव एव केवलः .
तदक्षरं तत् सवितुर्वरेण्यं
प्रज्ञा च तस्मात् प्रसृता पुराणी .. १८..
नैनमूर्ध्वं न तिर्यञ्चं
न मध्ये न परिजग्रभत् .
न तस्य प्रतिमा अस्ति
यस्य नाम महद् यशः .. १९..
न संदृशे तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चनैनम् .
हृदा हृदिस्थं मनसा य एन-
मेवं विदुरमृतास्ते भवन्ति .. २०..
अजात इत्येवं कश्चिद्भीरुः प्रपद्यते .
रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् .. २१..
मा नस्तोके तनये मा न आयुषि
मा नो गोषु मा न अश्वेषु रीरिषः .
वीरान् मा नो रुद्र भामितो
वधीर्हविष्मन्तः सदामित् त्वा हवामहे .. २२..
पञ्चमोऽध्यायः .
द्वे अक्षरे ब्रह्मपरे त्वनन्ते
विद्याविद्ये निहिते यत्र गूढे .
क्षरं त्वविद्या ह्यमृतं तु विद्या
विद्याविद्ये ईशते यस्तु सोऽन्यः .. १..
यो योनिं योनिमधितिष्ठत्येको
विश्वानि रूपाणि योनीश्च सर्वाः .
ऋषिं प्रसूतं कपिलं यस्तमग्रे
ज्ञानैर्बिभर्ति जायमानं च पश्येत् .. २..
एकैक जालं बहुधा विकुर्व-
न्नस्मिन् क्षेत्रे संहरत्येष देवः .
भूयः सृष्ट्वा पतयस्तथेशः
सर्वाधिपत्यं कुरुते महात्मा .. ३..
सर्वा दिश ऊर्ध्वमधश्च तिर्यक्
प्रकाशयन् भ्राजते यद्वनड्वान् .
एवं स देवो भगवान् वरेण्यो
योनिस्वभावानधितिष्ठत्येकः .. ४..
यच्च स्वभावं पचति विश्वयोनिः
पाच्यांश्च सर्वान् परिणामयेद् यः .
सर्वमेतद् विश्वमधितिष्ठत्येको
गुणांश्च सर्वान् विनियोजयेद् यः .. ५..
तद् वेदगुह्योपनिषत्सु गूढं
तद् ब्रह्मा वेदते ब्रह्मयोनिम् .
ये पूर्वं देवा ऋषयश्च तद् विदु-
स्ते तन्मया अमृता वै बभूवुः ..६..
गुणान्वयो यः फलकर्मकर्ता
कृतस्य तस्यैव स चोपभोक्ता .
स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा
प्राणाधिपः सञ्चरति स्वकर्मभिः .. ७..
अङ्गुष्ठमात्रो रवितुल्यरूपः
सङ्कल्पाहङ्कारसमन्वितो यः .
बुद्धेर्गुणेनात्मगुणेन चैव
आराग्रमात्रोऽप्यपरोऽपि दृष्टः .. ८..
बालाग्रशतभागस्य शतधा कल्पितस्य च .
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते .. ९..
नैव स्त्री न पुमानेष न चैवायं नपुंसकः .
यद्यच्छरीरमादत्ते तेने तेने स युज्यते .. १०..
सङ्कल्पनस्पर्शनदृष्टिमोहै-
र्ग्रासांबुवृष्ट्यात्मविवृद्धिजन्म .
कर्मानुगान्यनुक्रमेण देही
स्थानेषु रूपाण्यभिसम्प्रपद्यते .. ११..
स्थूलानि सूक्ष्माणि बहूनि चैव
रूपाणि देही स्वगुणैर्वृणोति .
क्रियागुणैरात्मगुणैश्च तेषां
संयोगहेतुरपरोऽपि दृष्टः .. १२..
अनाद्यनन्तं कलिलस्य मध्ये
विश्वस्य स्रष्ठारमनेकरूपम् .
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा देवं मुच्यते सर्वपाशैः .. १३..
भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् .
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् .. १४..
षष्ठोऽध्यायः .
स्वभावमेके कवयो वदन्ति
कालं तथान्ये परिमुह्यमानाः .
देवस्यैष महिमा तु लोके
येनेदं भ्राम्यते ब्रह्मचक्रम् .. १..
येनावृतं नित्यमिदं हि सर्वं ज्ञः
कालकारो गुणी सर्वविद् यः .
तेनेशितं कर्म विवर्तते ह
पृथिव्यप्तेजोनिलखानि चिन्त्यम् .. २..
तत्कर्म कृत्वा विनिवर्त्य भूय-
स्तत्त्वस्य तावेन समेत्य योगम् .
एकेन द्वाभ्यां त्रिभिरष्टभिर्वा
कालेन चैवात्मगुणैश्च सूक्ष्मैः .. ३..
आरभ्य कर्माणि गुणान्वितानि
भावांश्च सर्वान् विनियोजयेद्यः .
तेषामभावे कृतकर्मनाशः
कर्मक्षये याति स तत्त्वतोऽन्यः .. ४..
आदिः स संयोगनिमित्तहेतुः
परस्त्रिकालादकलोऽपि दृष्टः .
तं विश्वरूपं भवभूतमीड्यं
देवं स्वचित्तस्थमुपास्य पूर्वम् .. ५..
स वृक्षकालाकृतिभिः परोऽन्यो
यस्मात् प्रपञ्चः परिवर्ततेऽयम् .
धर्मावहं पापनुदं भगेशं
ज्ञात्वात्मस्थममृतं विश्वधाम .. ६..
तमीश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् .
पतिं पतीनां परमं परस्ताद्-
विदाम देवं भुवनेशमीड्यम् .. ७..
न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते .
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च .. ८..
न तस्य कश्चित् पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् .
स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः .. ९..
यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः .
देव एकः स्वमावृणोति स नो दधातु ब्रह्माप्ययम् .. १०..
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा.
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च .. ११..
एको वशी निष्क्रियाणां बहूना-
मेकं बीजं बहुधा यः करोति .
तमात्मस्थं येऽनुपश्यन्ति धीरा-
स्तेषां सुखं शाश्वतं नेतरेषाम् .. १२..
नित्यो नित्यानां चेतनश्चेतनाना-
मेको बहूनां यो विदधाति कामान् .
तत्कारणं सांख्ययोगाधिगम्यं
ज्ञात्वा देवं मुच्यते सर्वपाशैः .. १३..
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः .
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति .. १४..
एको हंसः भुवनस्यास्य मध्ये
स एवाग्निः सलिले संनिविष्टः .
तमेव विदित्वा अतिमृत्युमेति
नान्यः पन्था विद्यतेऽयनाय .. १५..
स विश्वकृद् विश्वविदात्मयोनि-
र्ज्ञः कालकालो गुणी सर्वविद् यः .
प्रधानक्षेत्रज्ञपतिर्गुणेशः
संसारमोक्षस्थितिबन्धहेतुः .. १६..
स तन्मयो ह्यमृत ईशसंस्थो
ज्ञः सर्वगो भुवनस्यास्य गोप्ता .
य ईशेऽस्य जगतो नित्यमेव
नान्यो हेतुर्विद्यत ईशनाय .. १७..
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै .
तं ह देवं आत्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये .. १८..
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् .
अमृतस्य परं सेतुं दग्धेन्दनमिवानलम् .. १९..
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः .
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति .. २०..
तपःप्रभावाद् देवप्रसादाच्च
ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् .
अत्याश्रमिभ्यः परमं पवित्रं
प्रोवाच सम्यगृषिसङ्घजुष्टम् .. २१..
वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् .
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः .. २२..
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ .
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः .. २३..
प्रकाशन्ते महात्मन इति .
ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्वि नावधीतमस्तु . मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com