.. सिद्धिलक्ष्मीस्तुतिः ..
आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम् |
सिद्धिलक्ष्मि!मरालक्ष्मि!लक्ष्यलक्ष्मि नमोऽस्तु ते ||
याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते |
शंखे देवकुले नरेन्द्रभवने गंगातटे गोकुले
या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ||
यासा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया |
लक्ष्मिर्दिव्यैर्गजेन्द्रैर्मणि- गण- खचितैः स्नापिता हेमकुम्भै-
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमांगल्ययुक्ता ||
|| इति सिद्धिलक्ष्मीस्तुति सम्पूर्णम् ||
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com