Skandapurana Chapters 1-25
.. स्कन्दपुराण १ २५
स्कंदपुराण अध्याय १
SP0010011नमः परमदेवाय त्रैगुण्याविजितात्मने |
SP0010012सर्वतो योगरूपाय संसाराभावहेतवे ||
SP0010021स्थितिसंरोधसर्गाणां हेतवेऽन्तःप्रसारिणे |
SP0010022षड्विंशाय प्रधानाय महादेवाय धीमते ||
SP0010031प्रजापतेर्महाक्षेत्रे गश्ण्गाकालिन्दिसंगमे |
SP0010032प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ||
SP0010041मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः |
SP0010042तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः ||
SP0010051पौराणिकमपश्यन्त सूतं सत्यपरायणम् |
SP0010052स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम् ||
SP0010061दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः |
SP0010062आशास्यासनसंवेशं तद्योग्यं समकल्पयन् ||
SP0010071स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान् |
SP0010072प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः ||
SP0010081तमासीनमपृच्छन्त मुनयस्तपसैधिताः |
SP0010082ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम् ||
SP0010091कथितं भारताख्यानं पुराणं च परं त्वया |
SP0010092तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ||
SP0010101सर्वागमपरार्थज्ञः सत्यधर्मपरायणः |
SP0010102द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि ||
SP0010111भारताख्यानसदृशं पुराणाद्यद्विशिष्यते |
SP0010112तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः ||
SP0010121इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः |
SP0010122स्कन्दसंभवशुश्रूषासंजातौत्सुक्यमानसाः ||
SP0010131एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः |
SP0010132प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम् ||
SP0010141शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम् |
SP0010142ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम् ||
SP0010151मुमुक्षया परं स्थानं याते शुकमहात्मनि |
SP0010152सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत ||
SP0010161दृष्ट्वैव स महेशानं व्यासोऽभूद्विगतव्यथः |
SP0010162विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः ||
SP0010171मेरुशृश्ण्गेऽथ ददृशे ब्रह्मणः सुतमग्रजम् |
SP0010172सनत्कुमारं वरदं योगैश्वर्यसमन्वितम् ||
SP0010181विमाने रविसंकाशे तिष्ठन्तमनलप्रभम् |
SP0010182मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ||
SP0010191वेदवेदाश्ण्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः |
SP0010192सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम् ||
SP0010201दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम् |
SP0010202ववन्दे परया भक्त्या साक्षादिव पितामहम् ||
SP0010211ब्रह्मसूनुरथ व्यासं समायातं महौजसम् |
SP0010212परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम् ||
SP0010221दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् |
SP0010222अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम् ||
SP0010231श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः |
SP0010232इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम् ||
SP0010241कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः |
SP0010242किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम् ||
SP0010251कथं रुद्रसुतश्चासौ वह्निगश्ण्गासुतः कथम् |
SP0010252उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः |
SP0010253सुपर्ण्याश्चाथ मात्.ऱ्णां कृत्तिकानां कथं च सः ||
SP0010261कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः |
SP0010262भूतसंमोहनं ह्येतत्कथयस्व यथातथम् ||
SP0010270सूत उवाच |
SP0010271एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः |
SP0010272उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे |
SP0010273तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ||
SP0019999इति स्कन्दपुराणे प्रथमोऽध्यायः ||
स्कंदपुराण अध्याय २
SP0020010सनत्कुमार उवाच |
SP0020011प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् |
SP0020012महादेवं महात्मानं विश्वस्य जगतः पतिम् ||
SP0020021शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः |
SP0020022स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते ||
SP0020031तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः |
SP0020032पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम् ||
SP0020041देहावतारो देवस्य रुद्रस्य परमात्मनः |
SP0020042प्राजापत्याभिषेकश्च हरणं शिरसस्तथा ||
SP0020051दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् |
SP0020052नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम् ||
SP0020061ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा |
SP0020062शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः ||
SP0020071सत्या विवादश्च तथा दक्षशापस्तथैव च |
SP0020072मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम् ||
SP0020081देवानां वरदानं च वसिष्ठस्य च धीमतः |
SP0020082पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ||
SP0020091वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम् |
SP0020092वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम् ||
SP0020101रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः |
SP0020102गणानां दर्शनं चैव कथनं चाप्यशेषतः ||
SP0020111कालीव्याहरणं चैव तपश्चरणमेव च |
SP0020112सोमनन्दिसमाख्यानं वरदानं तथैव च ||
SP0020121गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च |
SP0020122कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा ||
SP0020131गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः |
SP0020132अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ||
SP0020141निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा |
SP0020142अभिषेकश्च कौशिक्या वरदानमथापि च ||
SP0020151अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् |
SP0020152हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ||
SP0020161बलिसंयमनं चैव देव्याः समय एव च |
SP0020162देवानां गमनं चैव अग्नेर्दूतत्वमेव च ||
SP0020171देवानां वरदानं च शुक्रस्य च विसर्जनम् |
SP0020172सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम् ||
SP0020181शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता |
SP0020182आर्यावरप्रदानं च शैलादिस्तव एव च ||
SP0020191देवस्यागमनं चैव वृत्तस्य कथनं तथा |
SP0020192पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च ||
SP0020201आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता |
SP0020202दूतस्यागमनं चैव संवादोऽथ विसर्जनम् ||
SP0020211अन्धकासुरसंवादो मन्दरागमनं तथा |
SP0020212गणानामागमश्चैव संख्यानश्रवणं तथा ||
SP0020221निग्रहश्चान्धकस्याथ युद्धेन महता तथा |
SP0020222शरीरार्धप्रदानं च अशोकसुतसंग्रहः ||
SP0020231भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा |
SP0020232रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम् ||
SP0020241उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः |
SP0020242निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम् ||
SP0020251त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च |
SP0020252देवसेनाप्रदानं च सेनापत्याभिषेचनम् ||
SP0020261नारदस्यागमश्चैव तारकप्रेषितस्य ह |
SP0020262वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ||
SP0020271महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम् |
SP0020272शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ||
SP0020281देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च |
SP0020282प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च |
SP0020283महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते ||
SP0020291एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत् |
SP0020292बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम् ||
SP0029999इति स्कन्दपुराणे द्वितीयोऽध्यायः ||
स्कंदपुराण अध्याय ३
SP0030010सनत्कुमार उवाच |
SP0030011शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम् |
SP0030012कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम् |
SP0030013यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम् ||
SP0030021न नास्तिकाश्रद्दधाने शठे चापि कथंचन |
SP0030022इमां कथामनुब्रूयात्तथा चासूयके नरे ||
SP0030031इदं पुत्राय शिष्याय धार्मिकायानसूयवे |
SP0030032कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत् |
SP0030033कुमारभक्ताय तथा श्रद्दधानाय चैव हि ||
SP0030041पुरा ब्रह्मा प्रजाध्यक्षः अण्डेऽस्मिन्सम्प्रसूयते |
SP0030042सोऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः ||
SP0030051अहमेक इति ज्ञात्वा सर्वा/ल्लोकानवैक्षत |
SP0030052न चापश्यत तत्रान्यं तपोयोगबलान्वितः ||
SP0030061पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता |
SP0030062प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः ||
SP0030071स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम् |
SP0030072विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः ||
SP0030081तदेषोपनिषत्प्रोक्ता मया व्यास सनातना |
SP0030082यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम् ||
SP0030091ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै |
SP0030092तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ||
SP0030101स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम् |
SP0030102पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह ||
SP0030111महता योगतपसा युक्तस्य सुमहात्मनः |
SP0030112अचिरेणैव कालेन पिता सम्प्रतुतोष ह ||
SP0030121दर्शनं चागमत्तस्य वरदोऽस्मीत्युवाच ह |
SP0030122स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम् ||
SP0030131नमः परमदेवाय देवानामपि वेधसे |
SP0030132स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः ||
SP0030141एकस्मै शक्तियुक्ताय अशक्तिरहिताय च |
SP0030142अनन्तायाप्रमेयाय इन्द्रियाविषयाय च ||
SP0030151व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने |
SP0030152कृतप्रचेतनायैव तत्त्वविन्यासकारिणे ||
SP0030161प्रधानचोदकायैव गुणिनां शान्तिदाय च |
SP0030162दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च ||
SP0030171विषयग्राहिणे चैव नियमस्य च कारिणे |
SP0030172मनसः करणानां च तत्रैव नियमस्य च ||
SP0030181भूतानां गुणकर्त्रे च शक्तिदाय तथैव च |
SP0030182कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च |
SP0030183अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम् ||
SP0030191तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः |
SP0030192तुष्टोऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा ||
SP0030201यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते |
SP0030202तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि ||
SP0030211यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर |
SP0030212तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति ||
SP0030221प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम् |
SP0030222तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने ||
SP0030231एवमुक्त्वा स देवेशो मूर्तिमत्योऽसृजत्स्त्रियः |
SP0030232यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह |
SP0030233भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ||
SP0030241तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा |
SP0030242एतमद्याभिषेकेण सम्पादयत मा चिरम् ||
SP0030251ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम् |
SP0030252अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः ||
SP0030261तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा |
SP0030262पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम् ||
SP0030271रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो |
SP0030272अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः ||
SP0030281स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक् |
SP0030282ब्रह्माणमग्रजं पुत्रं प्राजापत्येऽभ्यषेचयत् ||
SP0030291यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज |
SP0030292देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम् ||
SP0030301सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं च भूतनाथः |
SP0030302तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम् ||
SP0039999इति स्कन्दपुराणे तृतीयोऽध्यायः ||
स्कंदपुराण अध्याय ४
SP0040010सनत्कुमार उवाच |
SP0040011प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे |
SP0040012प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह ||
SP0040021स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः |
SP0040022सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ||
SP0040031सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः |
SP0040032तेजसा जगदाविश्य आजगाम तदन्तिकम् |
SP0040033स्रष्टा तस्य जगन्नाथोऽदर्शयत्स्वतनौ जगत् ||
SP0040041स्वयमागत्य देवेशो महाभूतपतिर्हरः |
SP0040042व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा |
SP0040043शम्भुः प्राह वरं वत्स याचस्वेति पितामहम् ||
SP0040051तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत् |
SP0040052स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः |
SP0040053मूढोऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम् ||
SP0040061आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे |
SP0040062मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया ||
SP0040071स च ते पुत्रतां यात्वा मदीयो गणनायकः |
SP0040072रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति ||
SP0040081सर्वविद्याधिपत्यं च योगानां चैव सर्वशः |
SP0040082बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता ||
SP0040091मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः |
SP0040092धनुः पिनाकं शूलं च खड्गं परशुरेव च ||
SP0040101कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा |
SP0040102संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम् |
SP0040103एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति ||
SP0040111एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि |
SP0040112ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः ||
SP0040121स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः |
SP0040122समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ||
SP0040131समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः |
SP0040132पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा ||
SP0040141तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम् |
SP0040142प्रेरितं देवदेवेन निपपात हविर्भुजि ||
SP0040151क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् |
SP0040152प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा ||
SP0040161तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् |
SP0040162भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा ||
SP0040171नीललोहित इत्येव तेनासावभवत्प्रभुः |
SP0040172त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं छादयन्निव ||
SP0040181शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः |
SP0040182स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम् ||
SP0040191ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम् |
SP0040192असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ||
SP0040201सोऽपि योगं समास्थाय ऐश्वर्येण समन्वितः |
SP0040202लोकान्सर्वान्समाविश्य धारयामास सर्वदा ||
SP0040211ब्रह्मणोऽपि ततः पुत्रा दक्षधर्मादयः शुभाः |
SP0040212असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः ||
SP0040221अथ कालेन महता कल्पेऽतीते पुनः पुनः |
SP0040222प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते ||
SP0040231प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने |
SP0040232प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ||
SP0040241ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः |
SP0040242मरीचयोऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा ||
SP0040251भृगवोऽश्ण्गिरसश्चैव तपसा दग्धकिल्बिषाः |
SP0040252ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणोऽन्तरे ||
SP0040261भगवन्नन्धकारेण महता स्मः समावृताः |
SP0040262खिन्ना विवदमानाश्च न च पश्याम यत्परम् ||
SP0040271एतं नः संशयं देव चिरं हृदि समास्थितम् |
SP0040272त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः ||
SP0040281किं परं सर्वभूतानां बलीयश्चापि सर्वतः |
SP0040282केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः ||
SP0040291कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः |
SP0040292कोऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः ||
SP0040301कस्य भूतानि वश्यानि कः सर्वविनियोजकः |
SP0040302कथं पश्येम तं चैव एतन्नः शंस सर्वशः ||
SP0040311एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ |
SP0040312देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम् ||
SP0040321यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः |
SP0040322पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः |
SP0040323उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः ||
SP0040331स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित् |
SP0040332स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत् |
SP0040333तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् ||
SP0040341ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने ||
SP0040350ऋषय ऊचुः |
SP0040351किं तन्महत्तपो देव येन दृश्येत स प्रभुः |
SP0040352तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ||
SP0040360पितामह उवाच |
SP0040361सत्त्रं महत्समासध्वं वाश्ण्मनोदोषवर्जिताः |
SP0040362देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ ||
SP0040371ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह |
SP0040372क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ||
SP0040381यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः |
SP0040382ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ||
SP0040391तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत |
SP0040392नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ||
SP0040401तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः |
SP0040402यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ||
SP0040411विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः |
SP0040412गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च ||
SP0049999इति स्कन्दपुराणे चतुर्थोऽध्यायः ||
स्कंदपुराण अध्याय ५
SP0050010सनत्कुमार उवाच |
SP0050011तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः |
SP0050012दिव्यं सत्त्रं समासन्त महद्वर्षसहस्रिकम् ||
SP0050021एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः |
SP0050022ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ||
SP0050031तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः |
SP0050032सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ||
SP0050041तेषां तं भावमालक्ष्य मातरिश्वा महातपाः |
SP0050042सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः |
SP0050043ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः ||
SP0050051तं ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्ययम् |
SP0050052आसीनमासने पुण्ये ऋषयः संशितव्रताः |
SP0050053पप्रच्छुरुद्भवं कृत्स्नं जगतः प्रलयं तथा ||
SP0050061स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च |
SP0050062वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च ||
SP0050071अष्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा |
SP0050072पितृसर्गं तथाशेषं ब्रह्मणो मानमेव च ||
SP0050081चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा |
SP0050082स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः |
SP0050083वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम् ||
SP0050091एतत्सर्वमशेषेण कथयामास स प्रभुः |
SP0050092दिव्यं वर्षसहस्रं च तेषां तदभियात्तथा ||
SP0050101अथ दिव्येन रूपेण सामवाग्दिश्ण्निरीक्षणा |
SP0050102यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती ||
SP0050111न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी |
SP0050112कालबाहूर्वर्षकरा दिवसाश्ण्गुलिधारिणी ||
SP0050121कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा |
SP0050122कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी ||
SP0050131छन्दोविचितिमध्या च मीमांसानाभिरेव च |
SP0050132पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा ||
SP0050141आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाश्ण्गुलिः |
SP0050142लोकवेदशरीरा च रोमभिश्छान्दसैः शुभैः ||
SP0050151श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाषिणी |
SP0050152वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ||
SP0050161तस्यान्तेऽवभृथे प्लुत्य वायुना सह संगताः |
SP0050162तामपृच्छन्त का न्वेषा वायुं देवं महाधियम् ||
SP0050171उवाच स महातेजा ऋषीन्धर्मानुभावितान् |
SP0050172शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः ||
SP0050181यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता |
SP0050182इयं सरस्वती नाम ब्रह्मलोकविभूषणा ||
SP0050191प्रथमं मर्त्यलोकेऽस्मिन्युष्मत्सिद्ध्यर्थमागता |
SP0050192नास्याः पुण्यतमा काचित्त्रिषु लोकेषु विद्यते ||
SP0050200ऋषय ऊचुः |
SP0050201कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा |
SP0050202कारणं किं च तत्रासीदेतदिच्छाम वेदितुम् ||
SP0050210वायुरुवाच |
SP0050211अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् |
SP0050212ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह ||
SP0050221यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा |
SP0050222असृजत्सर्वभूतानि स्थावराणि चराणि च ||
SP0050231स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः |
SP0050232अवेक्षमाणः स्वा/ल्लोकांश्चतुर्भिर्मुखपश्ण्कजैः ||
SP0050241देवादीन्मनुष्यादींश्च दृष्ट्वा दृष्ट्वा महामनाः |
SP0050242अमन्यत न मेऽन्योऽस्ति समो लोके न चाधिकः ||
SP0050251योऽहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः |
SP0050252देवमानुषतिर्यक्षु ग्रसामि विसृजामि च ||
SP0050261अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते |
SP0050262नियन्ता लोककर्ता च न मयास्ति समः क्वचित् ||
SP0050271तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः |
SP0050272उवाच चैनं दीप्तात्मा मैवं मंस्था महामते |
SP0050273अयं हि तव संमोहो विनाशाय भविष्यति ||
SP0050281न युक्तमीदृशं तेऽद्य सत्त्वस्थस्यात्मयोनिनः |
SP0050282स्रष्टा त्वं चैव नान्योऽस्ति तथापि न यशस्करम् ||
SP0050291अहं कर्ता हि भूतानां भुवनस्य तथैव च |
SP0050292करोमि न च संमोहं यथा त्वं देव कत्थसे ||
SP0050301तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो |
SP0050302अहमेव हि भूतानां धर्ता भर्ता तथैव च |
SP0050303मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे ||
SP0050311अथागात्तत्र संविग्नो वेदः परमदीप्तिमान् |
SP0050312उवाच चैव तौ वेदो नैतदेवमिति प्रभुः ||
SP0050321अहं श्रेष्ठो महाभागौ न वदाम्यनृतं क्वचित् |
SP0050322शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह ||
SP0050331परमेशो महादेवो रुद्रः सर्वगतः प्रभुः |
SP0050332येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः ||
SP0050341यज्ञोऽयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम् |
SP0050342सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित् ||
SP0050351तमेवंवादिनं देवो ब्रह्मा वेदमभाषत |
SP0050352अहं श्रुतीनां सर्वासां नेता स्रष्टा तथैव च ||
SP0050361मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः |
SP0050362मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः |
SP0050363प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः ||
SP0050371एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह |
SP0050372आदित्यमण्डलाकारमदृश्यत च मण्डलम् |
SP0050373महच्छब्देन महता उपरिष्टाद्वियत्स्थितम् ||
SP0050381स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः |
SP0050382हिमवत्कुञ्जमासाद्य नानाविहगनादितम् |
SP0050383व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह ||
SP0050391ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपश्ण्कजैः |
SP0050392चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ||
SP0050401स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम् |
SP0050402तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम् |
SP0050403आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम् ||
SP0050411तं दृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत् |
SP0050412संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत ||
SP0050421वर्धमानं तदा तत्तु वडवामुखसंनिभम् |
SP0050422दीप्तिमच्छब्दवच्चैव देवोऽसौ दीप्तमण्डलः ||
SP0050431हस्ताश्ण्गुष्ठनखेनाशु वामेनावज्ञयैव हि |
SP0050432चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ||
SP0050441दीप्तिकृत्तशिराः सोऽथ दुःखेनोस्रेण चार्दितः |
SP0050442पपात मूढचेता वै योगधर्मविवर्जितः ||
SP0050451ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः |
SP0050452मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा ||
SP0050460ब्रह्मोवाच |
SP0050461नमः सहस्रनेत्राय शतनेत्राय वै नमः |
SP0050462नमो विवृतवक्त्राय शतवक्त्राय वै नमः ||
SP0050471नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः |
SP0050472नमः सहस्रपादाय सर्वपादाय वै नमः ||
SP0050481सहस्रपाणये चैव सर्वतःपाणये नमः |
SP0050482नमः सर्वस्य स्रष्ट्रे च द्रष्ट्रे सर्वस्य ते नमः ||
SP0050491आदित्यवर्णाय नमः शिरसश्छेदनाय च |
SP0050492सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः ||
SP0050501नमः सहस्रलिश्ण्गाय सहस्रचरणाय च |
SP0050502संहारलिश्ण्गिने चैव जललिश्ण्गाय वै नमः ||
SP0050511अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च |
SP0050512व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च ||
SP0050521इन्द्रियार्थविशेषाय तथा नियमकारिणे |
SP0050522भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च ||
SP0050531त्वमेव स्रष्टा लोकानां मन्ता दाता तथा विभो |
SP0050532शरणागताय दान्ताय प्रसादं कर्तुमर्हसि ||
SP0050541तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह |
SP0050542स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा ||
SP0050551चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः |
SP0050552विमाने सूर्यसंकाशे तेजोराशिमपश्यत ||
SP0050561तस्य मध्यात्ततो वाचं महतीं समशृण्वत |
SP0050562गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम् |
SP0050563विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम् ||
SP0050571संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः |
SP0050572यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे ||
SP0050581मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति |
SP0050582स प्राप्य परमं ज्ञानं मूढ त्वा विनयिष्यति ||
SP0050591तस्येयं फलनिष्पत्तिः शिरसश्छेदनं तव |
SP0050592मयैव कारिता तेन निर्वृतश्चाधुना भव ||
SP0050601तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते |
SP0050602शिरश्छेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे |
SP0050603स्तवेनानेन तुष्टोऽस्मि किं ददानि च तेऽनघ ||
SP0050611वायुरुवाच |
SP0050612ततः स भगवान्हृष्टः प्रणम्य शुभया गिरा |
SP0050613उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम् ||
SP0050621भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते |
SP0050622इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया |
SP0050623ननु स्मरेयमेतच्च शिरसश्छेदनं विभो ||
SP0050631भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम् |
SP0050632तथा च कृत्यमुद्दिश्य पश्येयं त्वा यथासुखम् ||
SP0050641विज्ञप्तिं ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः |
SP0050642स एव सुतसंज्ञस्ते मन्मूर्तिर्नीललोहितः |
SP0050643शिरश्छेत्स्यति यज्ञस्य बिभर्त्स्यति शिरश्च ते ||
SP0050651इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत |
SP0050652गते तस्मिन्महादेवे ब्रह्मा लोकपितामहः |
SP0050653सयज्ञः सहवेदश्च स्वं लोकं प्रत्यपद्यत ||
SP0050661वायुरुवाच |
SP0050662य इमं शृणुयान्मर्त्यो गुह्यं वेदार्थसंमितम् |
SP0050663स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् ||
SP0050671यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः |
SP0050672स सर्वपापनिर्मुक्तो रुद्रलोके महीयते ||
SP0050681नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम् |
SP0050682आख्येयं नापि चाज्ञाय न शठाय न मानिने ||
SP0050691इदं महद्दिव्यमधर्मशासनं पठेत्सदा ब्राह्मणवैद्यसंसदि |
SP0050692कृतावकाशो भवतीह मानवः शरीरभेदे प्रविशेत्पितामहम् ||
SP0059999इति स्कन्दपुराणे पञ्चमोऽध्यायः ||
स्कंदपुराण अध्याय ६
SP0060010सनत्कुमार उवाच |
SP0060011ततः स भगवान्देवः कपर्दी नीललोहितः |
SP0060012आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः ||
SP0060021तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः |
SP0060022योगक्रीडां समास्थाय भैक्षाय प्रचचार ह ||
SP0060031स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः |
SP0060032न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः ||
SP0060041अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः |
SP0060042तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम् ||
SP0060051स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा |
SP0060052शिरां ललाटात्सम्भिद्य रक्तधारामपातयत् |
SP0060053पपात सा च विस्तीर्णा योजनार्धशतं तदा ||
SP0060061तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया |
SP0060062पितामहकपालस्य नार्धमप्यभिपूरितम् |
SP0060063तमुवाच ततो देवः प्रहस्य वचनं शुभम् ||
SP0060071सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते |
SP0060072सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते ||
SP0060081तुष्टोऽस्मि तव दानेन युक्तेनानेन मानद |
SP0060082वरं वरय भद्रं ते वरदोऽस्मि तवाद्य वै ||
SP0060091विष्णुरुवाच |
SP0060092एष एव वरः श्लाघ्यो यदहं देवताधिपम् |
SP0060093पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम् ||
SP0060101देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे |
SP0060102ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम् ||
SP0060111तमाहाथाक्षयश्चासि अजरामर एव च |
SP0060112युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः |
SP0060113देवकार्यकरः श्रीमान्सहानेन चरस्व च ||
SP0060121नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च |
SP0060122नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि ||
SP0060130वायुरुवाच |
SP0060131तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः |
SP0060132अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम् ||
SP0060141य इदं नरजन्मेह शृणुयाद्वा पठेत वा |
SP0060142स कीर्त्या परया युक्तो विष्णुलोके महीयते ||
SP0069999इति स्कन्दपुराणे षष्ठोऽध्यायः ||
स्कंदपुराण अध्याय ७
SP0070010वायुरुवाच |
SP0070011ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः |
SP0070012भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत ||
SP0070021तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् |
SP0070022ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम् ||
SP0070031तस्य तुष्टस्तदा देवो वरदोऽस्मीत्यभाषत |
SP0070032वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते ||
SP0070040ब्रह्मोवाच |
SP0070041इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् |
SP0070042येन चिह्नेन लोकोऽयं चिह्नितः स्याज्जगत्पते ||
SP0070051तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः |
SP0070052सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह ||
SP0070061शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी |
SP0070062निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत ||
SP0070071तामुवाच तदा देवो वाचा संजीवयन्निव |
SP0070072यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता |
SP0070073सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि ||
SP0070081यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता |
SP0070082तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि ||
SP0070091इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे |
SP0070092सर्वा/ल्लोकांस्तारयित्री पुनस्त्वं नात्र संशयः ||
SP0070101यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः |
SP0070102पुण्या च सर्वसरितां भविष्यसि न संशयः ||
SP0070111ततः सा समनुज्ञाता शंकरेण विभाविनी |
SP0070112चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोकेऽतिपावनम् ||
SP0070121तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम् |
SP0070122नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम् |
SP0070123ततो विनिःसृता भूयः सेमं लोकमपावयत् ||
SP0070131तं गृहीत्वा महादेवः कपालममितौजसम् |
SP0070132इमं लोकमनुप्राप्य देशे श्रेष्ठेऽवतिष्ठत ||
SP0070141तत्र तच्च महद्दिव्यं कपालं देवताधिपः |
SP0070142स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः ||
SP0070151तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः |
SP0070152अनदन्सुमहानादं नादयन्तो दिशो दश |
SP0070153क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत ||
SP0070161तेन शब्देन घोरेण असुरो देवकण्टकः |
SP0070162हालाहल इति ख्यातस्तं देशं सोऽभ्यगच्छत ||
SP0070171अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः |
SP0070172ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः |
SP0070173महिषश्छन्नरूपाणामसुराणां शतैर्वृतः ||
SP0070181तमापतन्तं सक्रोधं महिषं देवकण्टकम् |
SP0070182सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः ||
SP0070191दैत्योऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः |
SP0070192आयाति त्वरितो यूयं तस्मादेनं निहन्यथ ||
SP0070201ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम् |
SP0070202भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे ||
SP0070211हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत |
SP0070212ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः |
SP0070213अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत् ||
SP0070221स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः |
SP0070222तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे ||
SP0070231भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः |
SP0070232कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता ||
SP0070241कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना |
SP0070242महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते ||
SP0070251स्थापितस्य कपालस्य यथोक्तमभवत्तदा |
SP0070252ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम् ||
SP0070261आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः |
SP0070262कपर्दिनमुपामन्त्र्य तं देशं सोऽन्वगृह्णत ||
SP0070271अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः |
SP0070272भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः ||
SP0070281श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः |
SP0070282ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम् |
SP0070283गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम् ||
SP0070291एवं तत्र नरः पापं सर्वमेव प्रहास्यति |
SP0070292त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् |
SP0070293राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति ||
SP0070301यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः |
SP0070302स गुह्यगणदेवानां समतां समवाप्स्यति ||
SP0070311वायुरुवाच |
SP0070312ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम् |
SP0070313शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम् ||
SP0070321तत्राभिगमनादेव कृत्वा पापस्य संक्षयम् |
SP0070322रुद्रलोकमवाप्नोति स प्राहैवं पितामहः ||
SP0070331यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः |
SP0070332कश्मीरः सोऽभवन्नाम्ना देशः पुण्यतमः सदा ||
SP0070341ततो देवः सह गणै रूपं विकृतमास्थितः |
SP0070342पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः ||
SP0070351गते च देवनाथेऽथ कपालस्थानमव्ययम् |
SP0070352सर्वतीर्थाभिषेकस्य फलेन समयोजयत् ||
SP0070361तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते |
SP0070362महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः ||
SP0070371इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम् |
SP0070372महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम् ||
SP0070381तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले |
SP0070382पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सोऽभिनन्दितः ||
SP0079999इति स्कन्दपुराणे सप्तमोऽध्यायः ||
स्कंदपुराण अध्याय ८
SP0080010वायुरुवाच |
SP0080011एवमेषा भगवती ब्रह्मलोकानुसारिणी |
SP0080012युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत ||
SP0080020सनत्कुमार उवाच |
SP0080021एवं तेषां समाप्तेऽथ सत्त्रे वर्षसहस्रिके |
SP0080022प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः ||
SP0080030ब्रह्मोवाच |
SP0080031भूयोऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम् |
SP0080032यदा वो भविता विघ्नं तदा निष्कल्मषं तपः ||
SP0080041विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम् |
SP0080042योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम् ||
SP0080051तथेत्युक्त्वा गते तस्मिन्सत्त्राण्याजह्रिरे तदा |
SP0080052बहूनि विविधाकाराण्यभियुक्ता महाव्रताः ||
SP0080061निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः |
SP0080062राजानं सोममानाय्य अभिषेक्तुमियेषिरे ||
SP0080071अथ सोऽपि कृतातिथ्यः अदृश्येन दुरात्मना |
SP0080072स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन् ||
SP0080081ते गत्वा मुनयः सर्वे कलापग्रामवासिनः |
SP0080082पुरूरवसमानीय राजानं तेऽभ्यषेचयन् ||
SP0080091ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो |
SP0080092केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम् ||
SP0080101स एवमुक्तो मृगयन्न तमासादयत्प्रभुः |
SP0080102उवाच स तदा विप्रान्प्रणम्य भयपीडितः ||
SP0080111परमं यत्नमास्थाय मया सोमोऽभिमार्गितः |
SP0080112न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः ||
SP0080121तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः |
SP0080122ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम् ||
SP0080131भवान्राजा कुतस्त्राता कृतोऽस्माभिर्भयार्दितैः |
SP0080132न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि ||
SP0080141विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि |
SP0080142तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि ||
SP0080151वयमेव हि राजानमानयिष्याम दुर्विदम् |
SP0080152तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम् ||
SP0080161ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः |
SP0080162अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम् ||
SP0080171स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी |
SP0080172रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान् ||
SP0080181तुष्टास्मि वत्साः किं वोऽद्य करोमि वरदास्मि वः |
SP0080182ब्रूत तत्कृतमेवेह भविष्यति न संशयः ||
SP0080190ऋषय ऊचुः |
SP0080191सोमो नोऽपहृतो देवि केनापि सुदुरात्मना |
SP0080192तमानय नमस्तेऽस्तु एष नो वर उत्तमः ||
SP0080200सनत्कुमार उवाच |
SP0080201सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा |
SP0080202श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति ||
SP0080211व्यग्राणामसुराणां सा गृहीत्वा सोममागता |
SP0080212आगम्य तानृषीन्प्राह अयं सोमोऽभिषूयताम् ||
SP0080221ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् |
SP0080222अमन्यन्त तपोऽस्माकं निष्कल्मषमिति द्विजाः ||
SP0080231ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः |
SP0080232आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम् ||
SP0080241ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् |
SP0080242सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः ||
SP0080251तेषां कालेन महता तपसा भावितात्मनाम् |
SP0080252योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते ||
SP0080261ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः |
SP0080262महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः ||
SP0080271अथ तेषां महादेवः पिनाकी नीललोहितः |
SP0080272अभ्यगच्छत तं देशं विमानेनार्कतेजसा ||
SP0080281तद्भावभाविताञ्ज्ञात्वा सद्भावेन परेण ह |
SP0080282उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः ||
SP0080291भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः |
SP0080292दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम् ||
SP0080300सनत्कुमार उवाच |
SP0080301अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम् |
SP0080302विमानं मेरुसंकाशं नानारत्नविभूषितं ||
SP0080311तस्य मध्येऽग्निकूटं च सुमहद्दीप्तिमास्थितम् |
SP0080312ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम् ||
SP0080321दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् |
SP0080322त्रेताग्निपिश्ण्गलजटं भुजगाबद्धमेखलम् ||
SP0080331मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम् |
SP0080332पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम् ||
SP0080341असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम् |
SP0080342अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः |
SP0080343चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम् ||
SP0080351तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा |
SP0080352यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन ||
SP0080361तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम् |
SP0080362वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः ||
SP0080371प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् |
SP0080372प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः ||
SP0089999इति स्कन्दपुराणे अष्टमोऽध्यायः ||
स्कंदपुराण अध्याय ९
SP0090010सनत्कुमार उवाच |
SP0090011ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः |
SP0090012अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम् ||
SP0090020पितामह उवाच |
SP0090021नमः शिवाय सोमाय भक्तानां भयहारिणे |
SP0090022नमः शूलाग्रहस्ताय कमण्डलुधराय च ||
SP0090031दण्डिने नीलकण्ठाय करालदशनाय च |
SP0090032त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च ||
SP0090041नमः पिनाकिने चैव नमोऽस्त्वशनिधारिणे |
SP0090042व्यालयज्ञोपवीताय कुण्डलाभरणाय च ||
SP0090051नमश्चक्रधरायैव व्याघ्रचर्मधराय च |
SP0090052कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा ||
SP0090061वरदात्रे च रुद्राय सरस्वतीसृजे तथा |
SP0090062सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च ||
SP0090071ज्वालामालासहस्राय ऊर्ध्वलिश्ण्गाय वै नमः |
SP0090072नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा ||
SP0090081हालाहलविनाशाय कपालवरधारिणे |
SP0090082विमानवरवाहाय जनकाय ममैव च |
SP0090083वरदाय वरिष्ठाय श्मशानरतये नमः ||
SP0090091नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा |
SP0090092उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च ||
SP0090101ऋषिदैवतनाथाय सर्वभूताधिपाय च |
SP0090102शिवः सौम्यश्च देवेश भव नो भक्तवत्सल ||
SP0090110सनत्कुमार उवाच |
SP0090111ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः |
SP0090112उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान् ||
SP0090121तुष्टोऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः |
SP0090122वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम् ||
SP0090130सनत्कुमार उवाच |
SP0090131अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान् |
SP0090132दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत् ||
SP0090140ब्रह्मोवाच |
SP0090141यदि तुष्टोऽसि देवेश यदि देयो वरश्च नः |
SP0090142तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः ||
SP0090151सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा |
SP0090152सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः ||
SP0090161सह देव्या ससूनुश्च सह देवगणैरपि |
SP0090162एष नो दीयतां देव वरो वरसहस्रद ||
SP0090170सनत्कुमार उवाच |
SP0090171एवमुक्तः स भगवान्ब्रह्मणा देवसत्तमः |
SP0090172स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित् ||
SP0090181अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह |
SP0090182तामाह भव नारीति भगवान्विश्वरूपधृक् ||
SP0090191साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता |
SP0090192उपतस्थे च देवेशं दीप्यमाना यथा तडित् ||
SP0090201तामाह प्रहसन्देवो देवीं कमललोचनाम् |
SP0090202ब्रह्माणं देवि वरदमाराधय शुचिस्मिते ||
SP0090211सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे |
SP0090212रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे |
SP0090213फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः ||
SP0090221अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः |
SP0090222मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ ||
SP0090231अयं चैवाश्रमः श्रेष्ठः स्वर्णशृश्ण्गोऽचलोत्तमः |
SP0090232पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः ||
SP0090241मैनाके पर्वते श्रेष्ठे स्वर्णोऽहमभवं यतः |
SP0090242स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम् ||
SP0090251स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः |
SP0090252निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह |
SP0090253समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः ||
SP0090261देवगन्धर्वचरितमप्सरोगणसेवितम् |
SP0090262सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम् |
SP0090263अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम् ||
SP0090271ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः |
SP0090272उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च |
SP0090273यत्र तत्र मृतः सोऽपि ब्रह्मलोके निवत्स्यति ||
SP0090281योऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम् |
SP0090282गोसहस्रफलं सोऽपि मत्प्रसादादवाप्स्यति |
SP0090283नियमेन मृतश्चात्र मया सह चरिष्यति ||
SP0090291यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः |
SP0090292तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ ||
SP0090301एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा |
SP0090302पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ||
SP0090310सनत्कुमार उवाच |
SP0090311य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा |
SP0090312सोऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः ||
SP0090321जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम् |
SP0090322जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी ||
SP0090331मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः |
SP0090332सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः ||
SP0099999इति स्कन्दपुराणे नवमोऽध्यायः ||
स्कंदपुराण अध्याय १०
SP0100010सनत्कुमार उवाच |
SP0100011सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः |
SP0100012निराहारा कदाचिच्च एकपर्णाशना पुनः |
SP0100013वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च ||
SP0100021तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम् |
SP0100022उवाच ब्रूहि तुष्टोऽस्मि देवि किं करवाणि ते ||
SP0100031साब्रवीत् त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम् |
SP0100032विचरेयं सुखं देव सर्वा/ल्लोकान्नमस्तव ||
SP0100040ब्रह्मोवाच |
SP0100041न हि येन शरीरेण क्रियते परमं तपः |
SP0100042तेनैव परमेशोऽसौ पतिः शम्भुरवाप्यते ||
SP0100051तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः |
SP0100052जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि ||
SP0100061ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी |
SP0100062दक्षस्य दुहिता जज्ञे सती नामातियोगिनी ||
SP0100071तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम् |
SP0100072ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान् ||
SP0100081आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान् |
SP0100082अनेकानि सहस्राणि रुद्राणाममितौजसाम् ||
SP0100091तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत् |
SP0100092मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः ||
SP0100101अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः |
SP0100102तेन चोक्तं स्थितोऽस्मीति स्थाणुस्तेन ततः स्मृतः ||
SP0100110देव उवाच |
SP0100111न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन |
SP0100112स्थितोऽस्मि वचनात्तेऽद्य वक्तव्यो नास्मि ते पुनः ||
SP0100121ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः |
SP0100122चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः ||
SP0100130सनत्कुमार उवाच |
SP0100131अथ काले गते व्यास स दक्षः शापकारणात् |
SP0100132अन्यानाहूय जामात्.ऱ्न्सदारानर्चयद्गृहे ||
SP0100141सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः |
SP0100142सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् ||
SP0100151अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत |
SP0100152मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम् ||
SP0100161क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः |
SP0100162निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव ||
SP0100171मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः |
SP0100172न त्वं तथा पूजयसे सह भर्त्रा महाव्रते ||
SP0100181गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः |
SP0100182श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम् ||
SP0100191तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम् |
SP0100192पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते ||
SP0100200सनत्कुमार उवाच |
SP0100201ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता |
SP0100202पूजामसंमतां हीनामिदं चोवाच तं शुभा ||
SP0100211यस्मादसंमतामेतां पूजां त्वं कुरुषे मयि |
SP0100212श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः ||
SP0100221तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा |
SP0100222असत्कृतायाः किं मेऽद्य जीवितेनाशुभेन ह ||
SP0100230सनत्कुमार उवाच |
SP0100231ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह |
SP0100232उवाचेदं सुसंरब्धा वचनं वचनारणिः ||
SP0100241यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया |
SP0100242एवं तत्राप्यसंमूढा सम्भूता धार्मिका सती |
SP0100243गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ||
SP0100251ततः सा धारणां कृत्वा आग्नेयीं सहसा सती |
SP0100252ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना ||
SP0100261तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः |
SP0100262उवाच दक्षं संगम्य इदं वचनकोविदः ||
SP0100271यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक् |
SP0100272जामातरः सपत्नीकास्तस्माद्वैवस्वतेऽन्तरे |
SP0100273उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे ||
SP0100281त्वं चैव मम शापेन क्षत्रियो भविता नृपः |
SP0100282प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः |
SP0100283धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः ||
SP0100290सनत्कुमार उवाच |
SP0100291तमुवाच तदा दक्षो दूयता हृदयेन वै |
SP0100292मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः |
SP0100293किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा ||
SP0100301यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर |
SP0100302भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन ||
SP0100311भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः |
SP0100312अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते ||
SP0100320सनत्कुमार उवाच |
SP0100321ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः |
SP0100322सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते ||
SP0100331तमहं धारयाम्येको लोकानां हितकाम्यया |
SP0100332भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः |
SP0100333तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया ||
SP0100341भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः |
SP0100342अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः |
SP0100343दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये ||
SP0100351यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत |
SP0100352अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च ||
SP0100361देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः |
SP0100362भागानपः स्पृशन्ति स्म तत्र का परिदेवना ||
SP0100371त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः |
SP0100372स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ||
SP0100380सनत्कुमार उवाच |
SP0100381एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः |
SP0100382विरराम महातेजा जगाम च यथागतम् ||
SP0100391चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम् |
SP0100392गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः ||
SP0100401य इमं दक्षशापाश्ण्कं देव्याश्चैवाशरीरताम् |
SP0100402शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः |
SP0100403सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ||
SP0109999इति स्कन्दपुराणे दशमोऽध्यायः ||
स्कंदपुराण अध्याय ११
SP0110010सनत्कुमार उवाच |
SP0110011कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम् |
SP0110012अपृच्छद्धिमवान्प्रश्नं लोके ख्यातिकरं नु किम् ||
SP0110021केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने |
SP0110022तथैव चार्चनीयत्वं सत्सु तं कथयस्व मे ||
SP0110030कश्यप उवाच |
SP0110031अपत्येन महाबाहो सर्वमेतदवाप्यते |
SP0110032मम ख्यातिरपत्येन ब्रह्मणो ऋषिभिश्च ह ||
SP0110041किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि |
SP0110042वर्तयिष्यामि तच्चापि यन्मे दृष्टं पुराचल ||
SP0110051वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि |
SP0110052विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम् ||
SP0110061तस्याधस्तादार्तनादं गर्तास्थाने शृणोम्यहम् |
SP0110062तानहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ||
SP0110071अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्छुचिः |
SP0110072तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ||
SP0110081अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः |
SP0110082विवेश तं तदा देशं सा गर्ता यत्र भूधर ||
SP0110091गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् |
SP0110092अपश्यदार्तो दुःखार्तानपृच्छत्तांश्च स द्विजः ||
SP0110101के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः |
SP0110102दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ||
SP0110110पितर ऊचुः |
SP0110111वयं तेऽकृतपुण्यस्य पितरः सपितामहाः |
SP0110112प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ||
SP0110121नरकोऽयं महाभाग गर्तारूपं समास्थितः |
SP0110122त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ||
SP0110131यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः |
SP0110132मृते त्वयि गमिष्यामो नरकं पापचेतसः ||
SP0110141यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् |
SP0110142उत्पादयसि तेनास्मान्मुच्येम वयमेकशः ||
SP0110151नान्येन तपसा पुत्र न तीर्थानां फलेन च |
SP0110152तत्कुरुष्व महाबुद्धे तारयस्व पित्.ऱ्न्भयात् ||
SP0110161स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् |
SP0110162पित्.ऱ्न्गर्तात्समुद्धृत्य गणपान्प्रचकार ह ||
SP0110171स्वयं च रुद्रदयितः सुकेशो नाम नामतः |
SP0110172संमतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ||
SP0110181तस्मात्कृत्वा तपो घोरमपत्यं गुणवत्तरम् |
SP0110182उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि ||
SP0110190सनत्कुमार उवाच |
SP0110191स एवमुक्तो ऋषिणा शैलेन्द्रो नियमे स्थितः |
SP0110192तपश्चकार विपुलं येन ब्रह्मा तुतोष ह ||
SP0110201तमागत्य तदा ब्रह्मा वरदोऽस्मीत्यभाषत |
SP0110202ब्रूहि तुष्टोऽस्मि ते शैल तपसानेन सुव्रत ||
SP0110210हिमवानुवाच |
SP0110211भगवन्पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् |
SP0110212एतद्वरं प्रयच्छस्व यदि तुष्टोऽसि नः प्रभो ||
SP0110220ब्रह्मोवाच |
SP0110221कन्या भवित्री शैलेन्द्र सुता ते वरवर्णिनी |
SP0110222यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि पुष्कलाम् ||
SP0110231अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः |
SP0110232पावनश्चैव पुण्यश्च देवानामपि सर्वतः |
SP0110233ज्येष्ठा च सा भवित्री ते अन्ये चानु ततः शुभे ||
SP0110240सनत्कुमार उवाच |
SP0110241एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत |
SP0110242सोऽपि कालेन शैलेन्द्रो मेनायामुपपादयत् |
SP0110243अपर्णामेकपर्णां च तथा चाप्येकपाटलाम् ||
SP0110251न्यग्रोधमेकपर्णा तु पाटलं चैकपाटला |
SP0110252आश्रिते द्वे अपर्णा तु अनिकेता तपोऽचरत् |
SP0110253शतं वर्षसहस्राणां दुश्चरं देवदानवैः ||
SP0110261आहारमेकपर्णेन सैकपर्णा समाचरत् |
SP0110262पाटलेन तथैकेन विदधात्येकपाटला ||
SP0110271पूर्णे पूर्णे सहस्रे तु आहारं तेन चक्रतुः |
SP0110272अपर्णा तु निराहारा तां माता प्रत्यभाषत |
SP0110273निषेधयन्ती ह्यु मेति मातृस्नेहेन दुःखिता ||
SP0110281सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी |
SP0110282तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ||
SP0110291एतत्तत्त्रिकुमारीणां जगत्स्थावरजश्ण्गमम् |
SP0110292एतासां तपसा लब्धं यावद्भूमिर्धरिष्यति ||
SP0110301तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः |
SP0110302सर्वाश्चैव महाभागाः सर्वाश्च स्थिरयौवनाः ||
SP0110311ता लोकमातरश्चैव ब्रह्मचारिण्य एव च |
SP0110312अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ||
SP0110321उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी |
SP0110322महायोगबलोपेता महादेवमुपस्थिता ||
SP0110331दत्तकश्चोशना तस्याः पुत्रः स भृगुनन्दनः |
SP0110332असितस्यैकपर्णा तु देवलं सुषुवे सुतम् ||
SP0110341या तु तासां कुमारीणां तृतीया ह्येकपाटला |
SP0110342पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता |
SP0110343तस्यापि शश्ण्खलिखितौ स्मृतौ पुत्रावयोनिजौ ||
SP0110351उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी |
SP0110352अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा |
SP0110353प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् ||
SP0110360ब्रह्मोवाच |
SP0110361देवि किं तपसा लोकांस्तापयस्यतिशोभने |
SP0110362त्वया सृष्टमिदं विश्वं मा कृत्वा तद्विनाशय ||
SP0110371त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा |
SP0110372ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रसीद नः ||
SP0110380देव्युवाच |
SP0110381यदर्थं तपसो ह्यस्य चरणं मे पितामह |
SP0110382जानीषे तत्त्वमेतन्मे ततः पृच्छसि किं पुनः ||
SP0110390ब्रह्मोवाच |
SP0110391यदर्थं देवि तपसा श्राम्यसे लोकभावनि |
SP0110392स त्वां स्वयं समागम्य इहैव वरयिष्यति ||
SP0110401सर्वदेवपतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः |
SP0110402वयं सदेवा यस्येशे वश्याः किंकरवादिनः ||
SP0110411स देवदेवः परमेश्वरेश्वरः स्वयं तवायास्यति लोकपोऽन्तिकम् |
SP0110412उदाररूपो विकृताभिरूपवान्समानरूपो न हि यस्य कस्यचित् ||
SP0110421महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमोऽप्रमेयः |
SP0110422विनेन्दुना इन्दुसमानवक्त्रो विभीषणं रूपमिहास्थितोऽग्रम् ||
SP0119999इति स्कन्दपुराणे एकादशोऽध्यायः ||
स्कंदपुराण अध्याय १२
SP0120010सनत्कुमार उवाच |
SP0120011ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् |
SP0120012देवि येनैव सृष्टासि मनसा यस्त्वया वृतः |
SP0120013स भर्ता तव देवेशो भविता मा तपः कृथाः ||
SP0120021ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् |
SP0120022जगामादर्शनं तस्याः सा चापि विरराम ह ||
SP0120031सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह |
SP0120032द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता ||
SP0120041अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः |
SP0120042विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च ||
SP0120051विभुग्ननासिको भूत्वा कुब्जः केशान्तपिश्ण्गलः |
SP0120052उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् ||
SP0120061अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् |
SP0120062अन्तर्भावविशुद्धा सा क्रियानुष्ठानलिप्सया ||
SP0120071तमुवाचार्घ्यमानाय्य मधुपर्केण चैव हि |
SP0120072सम्पूज्य ससुखासीनं ब्राह्मणं ब्राह्मणप्रिया ||
SP0120080देव्युवाच |
SP0120081भगवन्नस्वतन्त्रास्मि पिता मेऽस्त्यरणी तथा |
SP0120082तौ प्रभू मम दाने वै कन्याहं द्विजपुंगव ||
SP0120091गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् |
SP0120092स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम ||
SP0120100सनत्कुमार उवाच |
SP0120101ततः स भगवान्देवस्तथैव विकृतः प्रभुः |
SP0120102उवाच शैलराजं तमुमां मे यच्छ शैलराट् ||
SP0120111स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् |
SP0120112भीतः शापाच्च विमना इदं वचनमब्रवीत् ||
SP0120121भगवन्नावमन्यामि ब्राह्मणान्भूमिदैवतान् |
SP0120122मनीषितं तु यत्पूर्वं तच्छृणुष्व महातपः ||
SP0120131स्वयंवरो मे दुहितुर्भविता विप्रपूजितः |
SP0120132वरयेद्यं स्वयं तत्र स भर्तास्या भवेदिति ||
SP0120140सनत्कुमार उवाच |
SP0120141तच्छ्रुत्वा शैलवचनं भगवान्गोवृषध्वजः |
SP0120142देव्याः समीपमागत्य इदमाह महामनाः ||
SP0120151देवि पित्रा तवाज्ञप्तः स्वयंवर इति श्रुतम् |
SP0120152तत्र त्वं वरयित्री यं स ते भर्ता किलानघे ||
SP0120161तदापृच्छे गमिष्यामि दुर्लभा त्वं वरानने |
SP0120162रूपवन्तं समुत्सृज्य वृणीथा मादृशं कथम् ||
SP0120170सनत्कुमार उवाच |
SP0120171तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् |
SP0120172भावं च रुद्रनिहितं प्रसादं मनसस्तथा ||
SP0120181सम्प्राप्योवाच देवेशं मा ते भूद्बुद्धिरन्यथा |
SP0120182अहं त्वां वरयिष्यामि नान्यद्भूतं कथंचन ||
SP0120191अथ वा तेऽस्ति संदेहो मयि विप्र कथंचन |
SP0120192इहैव त्वां महाभाग वरयामि मनोरथम् ||
SP0120200सनत्कुमार उवाच |
SP0120201गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम् |
SP0120202स्कन्धे शम्भोः समादाय देवी प्राह वृतोऽसि मे ||
SP0120211ततः स भगवान्देवस्तथा देव्या वृतस्तदा |
SP0120212उवाच तमशोकं वै वाचा संजीवयन्निव ||
SP0120221यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् |
SP0120222तस्मात्त्वं जरया त्यक्तः अमरः सम्भविष्यसि ||
SP0120231कामरूपः कामपुष्पः कामगो दयितो मम |
SP0120232सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः ||
SP0120241सर्वान्नभक्षदश्चैव अमृतस्रव एव च |
SP0120242सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः |
SP0120243निर्भयः सर्वलोकेषु चरिष्यसि सुनिर्वृतः ||
SP0120251आश्रमं चैवमत्यर्थं चित्रकूटेति विश्रुतम् |
SP0120252योऽभियास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति |
SP0120253यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति ||
SP0120261यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् |
SP0120262स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ||
SP0120270सनत्कुमार उवाच |
SP0120271एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् |
SP0120272अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ||
SP0120281सापि देवी गते तस्मिन्भगवत्यमितात्मनि |
SP0120282तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह ||
SP0120291उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ |
SP0120292निशेव चन्द्ररहिता सा बभौ विमनास्तदा ||
SP0120301अथ शुश्राव सा शब्दं बालस्यार्तस्य शैलजा |
SP0120302सरस्युदकसम्पूर्णे समीपे चाश्रमस्य ह ||
SP0120311स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः |
SP0120312क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत्तदा ||
SP0120321योगमायामथास्थाय प्रपञ्चोद्भवकारणम् |
SP0120322तद्रूपं सरसो मध्ये कृत्वेदं समभाषत |
SP0120323त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम् ||
SP0120331धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः |
SP0120332यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः ||
SP0120341शोचामि न स्वकं देहं ग्राहग्रस्तोऽपि दुःखितः |
SP0120342यथा शोचामि पितरं मातरं च तपस्विनीम् ||
SP0120351मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ |
SP0120352प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः ||
SP0120360सनत्कुमार उवाच |
SP0120361श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना |
SP0120362उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः ||
SP0120371सापश्यदिन्दुवदना बालकं चारुरूपिणम् |
SP0120372ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम् ||
SP0120381सोऽपि ग्राहवरः श्रीमान्दृष्ट्वा देवीमुपागताम् |
SP0120382तं गृहीत्वा द्रुतं यातो मध्यं सरस एव ह ||
SP0120391स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् |
SP0120392अथाह देवी दुःखार्ता बालं दृष्ट्वा महाव्रता ||
SP0120401ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् |
SP0120402विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम ||
SP0120410ग्राह उवाच |
SP0120411यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् |
SP0120412स आहारो मम पुरा विहितो लोककर्तृभिः ||
SP0120421सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे |
SP0120422ब्रह्मणा विहितो नूनं नैनं मोक्ष्ये कथंचन ||
SP0120430देव्युवाच |
SP0120431यन्मया हिमवच्छृश्ण्गे चरितं तप उत्तमम् |
SP0120432तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते ||
SP0120440ग्राह उवाच |
SP0120441मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने |
SP0120442नैनं मोचयितुं शक्तो देवराजोऽपि स स्वयम् ||
SP0120451मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना |
SP0120452अमरत्वमवध्यत्वमक्षयं बलमेव च ||
SP0120461स्वयंग्रहणमोक्षश्च ज्ञानं चैवाव्ययं पुनः |
SP0120462दत्तं ततो ब्रवीमि त्वां नायं मोक्षमवाप्स्यति ||
SP0120471अथ वा ते कृपा देवि भृशं बाले शुभानने |
SP0120472ब्रवीमि यत्कुरु तथा ततो मोक्षमवाप्स्यति ||
SP0120480देव्युवाच |
SP0120481ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम् |
SP0120482तत्कृतं नात्र संदेहो मान्या मे ब्राह्मणा दृढम् ||
SP0120490ग्राह उवाच |
SP0120491यत्कृतं वै तपः किंचिद्भवत्या स्वल्पमन्तशः |
SP0120492तत्सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति ||
SP0120500देव्युवाच |
SP0120501जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया |
SP0120502तत्ते सर्वं मया दत्तं बालं मुञ्च ममाग्रतः ||
SP0120510सनत्कुमार उवाच |
SP0120511प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः |
SP0120512आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् ||
SP0120521उवाच चेदं तुष्टात्मा देवीं लोकस्य धारिणीम् |
SP0120522देवि किं कृतमेतत्ते अनिश्चित्य महाव्रते |
SP0120523तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते ||
SP0120531गृहाण तप एतच्च बालं चेमं शुचिस्मिते |
SP0120532तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते ||
SP0120541सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता |
SP0120542सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् |
SP0120543न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ||
SP0120551दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विदितं हि ते |
SP0120552न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ||
SP0120561दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः |
SP0120562त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम् ||
SP0120571तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च |
SP0120572देवीमादित्यसद्भासं तत्रैवान्तरधीयत ||
SP0120581बालोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा |
SP0120582स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत ||
SP0120591तपसोऽथ व्ययं मत्वा देवी हिमगिरीन्द्रजा |
SP0120592भूय एव तपः कर्तुमारेभे यत्नमास्थिता ||
SP0120601कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् |
SP0120602प्रोवाच वचनं व्यास मा कृथास्तप इत्युत ||
SP0120611मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते |
SP0120612तेनैवमक्षयं तुभ्यं भविष्यति सहस्रधा ||
SP0120621इति लब्ध्वा वरं देवी तपसोऽक्षय्यमुत्तमम् |
SP0120622स्वयंवरमुदीक्षन्ती तस्थौ प्रीतिमुदायुता ||
SP0120631इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं हि शम्भोः |
SP0120632स देहभेदं समवाप्य पूतो भवेद्गणस्तस्य कुमारतुल्यः ||
SP0129999इति स्कन्दपुराणे द्वादशमोऽध्यायः ||
स्कंदपुराण अध्याय १३
SP0130010सनत्कुमार उवाच |
SP0130011विस्तृते हिमवत्पृष्ठे विमानशतसंकुले |
SP0130012अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः ||
SP0130021अथ पर्वतराजोऽसौ हिमवान्ध्यानकोविदः |
SP0130022दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ||
SP0130031जानन्नपि महाशैलः समाचारक्रियेप्सया |
SP0130032स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ||
SP0130041देवदानवसिद्धानां सर्वलोकनिवासिनाम् |
SP0130042वृणुयात्परमेशानं समक्षं येन मे सुता ||
SP0130051तदेव सुकृतं श्लाघ्यं ममाभ्युदयसंमतम् |
SP0130052इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ||
SP0130061आब्रह्मकेषु लोकेषु देव्याः शैलेन्द्रसत्तमः |
SP0130062कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ||
SP0130071अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः |
SP0130072देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः ||
SP0130081प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः |
SP0130082विज्ञापितस्तेन महीध्रराज्ञा पितामहस्तत्र समाजगाम ||
SP0130091अक्ष्णां सहस्रं सुरराट् स बिभ्रद्दिव्याश्ण्गहारस्रगुदात्तरूपः |
SP0130092ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम् |
SP0130093आरुह्य सर्वामरराट् स वज्रं बिभ्रत्समागात्पुरतः सुराणाम् ||
SP0130101तेजःप्रतापाधिकदिव्यरूपः प्रोद्भासयन्सर्वदिशो विवस्वान् |
SP0130102हैमं विमानं सचलत्पताकमारुह्य आगात्त्वरितं जवेन ||
SP0130111मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने |
SP0130112समभ्यगात्कश्यपविप्रसूनुरादित्य आगाद्भगनामधारी ||
SP0130121पीनाश्ण्गयष्टिः सुकृताश्ण्गहारस्तेजोबलाज्ञासदृशप्रभावः |
SP0130122दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन ||
SP0130131महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाचितचारुवेषः |
SP0130132समीरणः सर्वजगद्विभर्ता विमानमारुह्य समभ्यगाद्धि ||
SP0130141संतापयन्सर्वसुरासुरेशांस्तेजोधिकस्तेजसि संनिविश्य |
SP0130142वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन्प्रतस्थौ वरवेषधारी ||
SP0130151नानामणिप्रज्वलिताश्ण्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम् |
SP0130152आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितोऽभ्यगाच्च ||
SP0130161आप्याययन्सर्वसुरासुरेशान्कान्त्या च वेषेण च चारुरूपः |
SP0130162ज्वलन्महारत्नविचित्ररूपं विमानमारुह्य शशी समागात् ||
SP0130171श्यामाश्ण्गयष्टिः सुविचित्रवेषः सर्वस्रगाबद्धसुगन्धमाली |
SP0130172तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरोऽसौ त्वरितं समेतः ||
SP0130181तथाश्विनौ देवभिषग्वरौ तु एकं विमानं त्वरयाभिरुह्य |
SP0130182मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः सुवीरौ ||
SP0130191शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत्स्फटानां ज्वलनार्कतेजाः |
SP0130192सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च ||
SP0130201दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम् |
SP0130202वरानुरूपं प्रविधाय वेषं वृन्दं समागात्पुरतः सुराणाम् ||
SP0130211गन्धर्वराजः स च चारुरूपी दिव्यश्ण्गमो दिव्यविमानचारी |
SP0130212गन्धर्वसंघैः सहितोऽप्सरोभिः शक्राज्ञया तत्र समाजगाम ||
SP0130221अन्ये च देवास्त्रिदिवौकसेशाः पृथक्पृथक्चारुगृहीतवेषाः |
SP0130222आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश्च ||
SP0130231शचीपतिस्तत्र सुरेन्द्रमध्ये राजाधिकाराधिकलक्ष्यमूर्तिः |
SP0130232आज्ञाबलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार ||
SP0130241हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां ससुरासुराणाम् |
SP0130242पत्नी च शम्भोः पुरुषस्य धाम्नो गीता पुराणे प्रकृतिः परार्था |
SP0130243दक्षस्य कोपाद्धिमवद्गृहं सा कार्यार्थमागात्परमेशपत्नी ||
SP0130251एवं यतस्तां न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश |
SP0130252वरार्थमाजग्मुरतो विमूढा ईशेन यस्माद्वृडिताः कृतास्ते ||
SP0130261ततः प्रनृत्ताभिरथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः |
SP0130262स्थितैश्च नानाविधरूपवेषैर्देवासुरादित्रिदिवौकसंघैः ||
SP0130271विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरवीजिताश्ण्गी |
SP0130272सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे ||
SP0130280सनत्कुमार उवाच |
SP0130281मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि |
SP0130282शक्राद्यैरागतैर्देवैः स्वयंवरमुपागतैः ||
SP0130291देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः |
SP0130292उत्सश्ण्गतलसंसुप्तो बभूव सहसा विभुः ||
SP0130301अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम् |
SP0130302ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता ||
SP0130311अथ सा शुद्धसंकल्पा काश्ण्क्षितप्राप्तसत्फला |
SP0130312निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु ||
SP0130321ततो दृष्ट्वा शिशुं देवा देव्या उत्सश्ण्गवर्तिनम् |
SP0130322कोऽयमत्रेति संमन्त्र्य चुक्रुधुर्भृशमार्दिताः ||
SP0130331वज्रमाकारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा |
SP0130332स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ||
SP0130341स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना |
SP0130342वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं न च ||
SP0130351भगो नाम ततो देव आदित्यः काश्यपो बली |
SP0130352उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः |
SP0130353तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा ||
SP0130361शिरः प्रकम्पयन्विष्णुः सक्रोधस्तमवैक्षत |
SP0130362तस्यापि शिरसो देवः खालित्यं प्रचकार ह ||
SP0130371पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः |
SP0130372तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना ||
SP0130381यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः प्रभा |
SP0130382बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम् |
SP0130383बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः ||
SP0130391अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु |
SP0130392ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम् |
SP0130393बुबुधे देवदेवेशमुमोत्सश्ण्गसमास्थितम् ||
SP0130401स बुद्ध्वा परमेशानं शीघ्रमुत्थाय सादरम् |
SP0130402ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः |
SP0130403पौराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः ||
SP0130411अजस्त्वममरो देव स्रष्टा हर्ता विभुः परः |
SP0130412प्रधानपुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षयम् ||
SP0130421अमृतं परमात्मा च ईश्वरः कारणं महत् |
SP0130422ब्रह्मकृत्प्रकृतेः स्रष्टा सर्वसृक्परमेश्वरः ||
SP0130431इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् |
SP0130432पत्नीरूपं समास्थाय जगत्कारणमागता ||
SP0130441नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः |
SP0130442प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ||
SP0130451देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः |
SP0130452कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ||
SP0130461तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम् |
SP0130462स्तम्भितान्सर्वदेवांस्तानिदमाह महाद्युतिः ||
SP0130471मूढाः स्थ देवताः सर्वे नैनं बुध्यत शंकरम् |
SP0130472देवदेवमिहायातं ममैवोत्पत्तिकारणम् ||
SP0130481अयं रुद्रो महादेवः शर्वो भीमः कपर्दिमान् |
SP0130482उग्र ईशान आत्मा च अजः शंकर एव च ||
SP0130491देवदेवः परं धाम ईशः पशुपतिः पतिः |
SP0130492जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम् ||
SP0130501गच्छध्वं शरणं शीघ्रमेवमेवामरेश्वराः |
SP0130502सार्धं मयैव देवेशं परमात्मानमव्ययम् ||
SP0130511ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः |
SP0130512प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ||
SP0130521अथ तेषां प्रसन्नोऽभूद्देवदेवो महेश्वरः |
SP0130522यथापूर्वं चकाराशु देवतानां तनूस्तदा ||
SP0130531तत एवं प्रवृत्ते तु सर्वदेवनिवारणे |
SP0130532वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् |
SP0130533तेजसा यस्य देवास्ते चक्षुरप्रार्थयन्विभुम् ||
SP0130541तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत् |
SP0130542प्रादात्परमदेवेशः अपश्यंस्ते तदा प्रभुम् ||
SP0130551ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् |
SP0130552ब्रह्माद्या नेमिरे तूर्णं सर्व एव सुरेश्वराः ||
SP0130561तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् |
SP0130562पादयोः स्थापयामास स्रग्मालाममितद्युतेः ||
SP0130571साधु साध्विति सम्प्रोच्य देवतास्ते पुनर्विभुम् |
SP0130572सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ||
SP0130581अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः |
SP0130582हिमवन्तं महाशैलमिदमाह महाद्युतिः ||
SP0130591श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमद्य हि |
SP0130592शर्वेण सह सम्बन्धो यस्य तेऽभूदयं महान् |
SP0130593क्रियतां चाशु उद्वाहः किमर्थं स्थीयते परम् ||
SP0130601ततः प्रणम्य हिमवांस्तं देवं प्रत्यभाषत |
SP0130602त्वमेव कारणं देव येन शर्वादयं मम ||
SP0130611प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि |
SP0130612उद्वाहं तु यथा यादृक्तद्विधत्स्व पितामह ||
SP0130621तत एवं वचः श्रुत्वा गिरिराज्ञः पितामहः |
SP0130622उद्वाहः क्रियतां देव इति देवमुवाच ह |
SP0130623तमाह शंकरो देवं यथेष्टमिति लोकपः ||
SP0130631तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम् |
SP0130632उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् ||
SP0130641रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च |
SP0130642मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम् ||
SP0130651चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता |
SP0130652भास्वत्स्फटिकभित्तीभिर्मुक्ताहारप्रलम्बिता ||
SP0130661तस्मिञ्छिवपुरे रम्ये उद्वाहार्थं विनिर्मिते |
SP0130662शुशुभे देवदेवस्य महेशस्य महात्मनः ||
SP0130671सोमादित्यौ समं तत्र भासयन्तौ महामणी |
SP0130672सौरभेयं मनोरम्यं गन्धमाघ्राय मारुतः |
SP0130673प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रसादयन् ||
SP0130681समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः |
SP0130682देवनद्यो महानद्यः सिद्धा मुनय एव च ||
SP0130691गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः |
SP0130692गुह्यकाः खेचराश्चान्ये किंनरा देवचारणाः ||
SP0130701तुम्बुरुर्नारदो हाहा हूहू चैव तु सामगाः |
SP0130702रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम् ||
SP0130711ऋषयः कृत्स्नशस्तत्र वेदगीतांस्तपोधनाः |
SP0130712पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः ||
SP0130721जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः |
SP0130722गायन्ति हृषिताः सर्वा उद्वाहे परमेष्ठिनः ||
SP0130731ऋतवः षट् समं तत्र नानागन्धसुखावहाः |
SP0130732उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः ||
SP0130741नीलजीमूतसंघातमन्द्रध्वानप्रहर्षितैः |
SP0130742केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ||
SP0130751विलोलपिश्ण्गलस्पष्टविद्युल्लेखावभासिता |
SP0130752कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता ||
SP0130761प्रत्यग्रसंजातशिलीन्ध्रकन्दला लताद्रुमाभ्युद्गतचारुपल्लवा |
SP0130762शुभाम्बुधाराप्रणयप्रबोधितैर्मदालसैर्भेकगणैश्च नादिता ||
SP0130771प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम् |
SP0130772मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभश्ण्गकर्त्री ||
SP0130781तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाश्ण्कलेखाकुटिलेन सर्वतः |
SP0130782पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता ||
SP0130791विचित्रपुष्पस्पर्शात्सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः |
SP0130792विकम्पयन्ती पवनैर्मनोहरैः सुराश्ण्गनानामलकावलीः शुभाः ||
SP0130801गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा |
SP0130802निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाश्ण्गनाभिः ||
SP0130811हंसनूपुरशब्दाढ्या समुन्नतपयोधरा |
SP0130812चलद्विद्युल्लताकाञ्ची स्पष्टपद्मविलोचना ||
SP0130821असितजलदवृन्दध्वानवित्रस्तहंसा विमलसलिलधारापातनम्रोत्पलाग्रा |
SP0130822सुरभिकुसुमरेणुक्.ल्प्तसर्वाश्ण्गशोभा गिरिदुहितृविवाहे प्रावृडागाद्विभूत्यै ||
SP0130831मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी |
SP0130832हंसनूपुरनिर्ह्रादा सर्वरम्यदिगन्तरा ||
SP0130841विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला |
SP0130842प्रफुल्लेन्दीवराभोगविलोचनमनोहरा ||
SP0130851पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी |
SP0130852नवश्यामालताश्यामरोमराजीपरिष्कृता ||
SP0130861चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा |
SP0130862प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ||
SP0130871समदालिकुलोद्गीतमधुरस्वरभाषिणी |
SP0130872चलत्कुमुदसंघातचारुकुण्डलशोभिनी ||
SP0130881रक्ताशोकाग्रशाखोत्थपल्लवाश्ण्गुलिधारिणी |
SP0130882तत्पुष्पसंचयमयैर्वासोभिः समलंकृता ||
SP0130891रक्तोत्पलाग्रचरणा जातीपुष्पनखावली |
SP0130892कदलीस्तम्भचारूरुः शशाश्ण्कवदना तथा ||
SP0130901पद्मकिञ्जल्कसम्पृक्तपवनाग्रकरैः सुरान् |
SP0130902प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा ||
SP0130911निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना
SP0130912नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी |
SP0130913नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां
SP0130914तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत् ||
SP0130921अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः |
SP0130922ऋतू शिशिरहेमन्तावाजग्मतुरतिद्युती ||
SP0130931ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान्स नगोत्तमः |
SP0130932प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ ||
SP0130941तेन प्रालेयवर्षेण घनेन स हिमाचलः |
SP0130942अगाधेन तदा रेजे क्षीरोद इव सागरः ||
SP0130951हिमस्थानेषु हिमवान्नाशयामास पादपान् |
SP0130952साधूपचारान्सहसा कृतार्थ इव दुर्जनः ||
SP0130961प्रालेयपटलच्छन्नैः शृश्ण्गैः स शुशुभे नगः |
SP0130962छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः ||
SP0130971पाण्डराणि विशालानि श्रीमन्ति सुभगानि च |
SP0130972तुश्ण्गानि चाद्रिशृश्ण्गाणि सौधानीव चकाशिरे ||
SP0130981तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारश्ण्गकुलाकुलासु |
SP0130982प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव संनिपेतुः ||
SP0130991बहुकुसुमरजोभिरुत्कराश्ण्गा हिमकणसश्ण्गसुशीतलाः समीराः |
SP0130992ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः ||
SP0131001निर्धूतरूक्षानिलशीतदोषः प्रोद्भिन्नचूताश्ण्कुरकर्णपूरः |
SP0131002वसन्तकालश्च तमद्रिपुत्रीसेवार्थमागाद्धिमवन्तमाशु ||
SP0131011तस्मिन्नृतावद्रिसुताविवाहसिषेवया तं गिरिमभ्युपेते |
SP0131012प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः ||
SP0131021ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्ररजोत्कराश्ण्गाः |
SP0131022मनोभवोद्रेककराः सुराणां सुराश्ण्गनानां च मुहुः समीराः ||
SP0131031स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां मुकुलैरुपेताः |
SP0131032ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः ||
SP0131041ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः |
SP0131042चेतोभिरामं त्रिदशाश्ण्गनानां पुंस्कोकिलाश्चातिकलं विनेदुः ||
SP0131051नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि |
SP0131052चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः ||
SP0131061प्रियश्ण्गूश्चूततरवश्चूतांश्चापि प्रियश्ण्गवः |
SP0131062तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ||
SP0131071हिमशुक्लेषु शृश्ण्गेषु तिलकाः कुसुमोत्कराः |
SP0131072शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः ||
SP0131081फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः |
SP0131082कामिन्य इव कान्तानां कण्ठालम्बितमूर्तयः ||
SP0131091समदालिकुलोद्गीतलताकुसुमसंचयाः |
SP0131092परस्परं हि मालत्यो भाषन्त्य इव रेजिरे ||
SP0131101नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च सनालदण्डैः |
SP0131102रक्तैश्च रक्तानि भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः ||
SP0131111हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् |
SP0131112वैदूर्यनालानि सरःसु केषुचित्प्रजज्ञिरे पद्मवनानि सर्वतः ||
SP0131121वाप्यस्तत्राभवन्रम्याः कमलोत्पलभूषिताः |
SP0131122नानाविहगसंघुष्टा हेमसोपानपश्ण्क्तयः ||
SP0131131शृश्ण्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः |
SP0131132समुच्छ्रितान्यविरलैर्हैमानीव बभुर्मुने ||
SP0131141ईषदुद्भिन्नकुसुमैः पाटलैश्चापि पाटलाः |
SP0131142सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः ||
SP0131151कृष्णाञ्जनाद्रिशृश्ण्गाभा नीलाशोकमहीरुहाः |
SP0131152गिरौ ववृधिरे फुल्लाः स्पर्धयेव परस्परम् ||
SP0131161चीरुवाकविघुष्टानि किंशुकानां वनानि च |
SP0131162पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे ||
SP0131171तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा |
SP0131172नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु ||
SP0131181निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च |
SP0131182प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलोऽतीव तदा रराज ||
SP0131191श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां
SP0131192चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः |
SP0131193तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः
SP0131194सज्जीभूतस्त्रिदशवनिता वेद्धुमश्ण्गेष्वनश्ण्गः ||
SP0131201पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः |
SP0131202देवीविवाहसेवार्थं ग्रीष्म आगाद्धिमाचलम् ||
SP0131211स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः |
SP0131212शोभयामास शृश्ण्गाणि प्रालेयाद्रेः समन्ततः ||
SP0131221तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः |
SP0131222ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः ||
SP0131231वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्तयः |
SP0131232अभवंस्तटसंघुष्टकलहंसकदम्बकाः ||
SP0131241तथा कुरवकाश्चापि कुसुमापाण्डुमूर्तयः |
SP0131242सर्वेषु जज्ञुः शृश्ण्गेषु भ्रमरावलिसेविताः ||
SP0131251बकुलाश्च नितम्बेषु विशालेषु महीभृतः |
SP0131252उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः ||
SP0131261इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः |
SP0131262हिमगिरितनयाविवाहभूत्यै षडुपययुरृतवो मुनिप्रवीर ||
SP0131271तत एवं प्रवृत्ते तु सर्वभूतसमागमे |
SP0131272नानावाद्यशताकीर्णे ब्रह्मा मम पिता स्वयम् ||
SP0131281शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा |
SP0131282पुरं प्रवेशयामास स्वयमादाय लोकधृक् ||
SP0131291ततस्तु पुनरेवेशं ब्रह्मा व्यज्ञापयद्विभुम् |
SP0131292हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः |
SP0131293ददासि मह्यं यद्याज्ञां कर्तव्योऽयं क्रियाविधिः ||
SP0131301तमाह शंकरो देवं देवदेवो जगत्पतिः |
SP0131302यद्यदिष्टं सुरेशान तत्कुरुष्व यथेप्सितम् |
SP0131303कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो ||
SP0131311ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः |
SP0131312हस्तं देवस्य देव्याश्च योगबन्धे युयोज ह ||
SP0131321ज्वलनं च स्वयं कृत्वा कृताञ्जलिमुपस्थितं |
SP0131322श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ||
SP0131331यथोक्तविधिना हुत्वा सर्पिस्तदमृतं च हि |
SP0131332त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् ||
SP0131341मुक्त्वा हस्तसमायोगं सहितः सर्वदेवतैः |
SP0131342सुतैश्च मानसैः सर्वैः प्रहृष्टेनान्तरात्मना |
SP0131343वृत्ते उद्वाहकाले तु प्रणनाम वृषध्वजम् ||
SP0131351योगेनैव तयोर्व्यास तदोमापरमेशयोः |
SP0131352उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ||
SP0131361इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम् |
SP0131362उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम् ||
SP0139999इति स्कन्दपुराणे नाम त्रयोदशोऽध्यायः ||
स्कंदपुराण अध्याय १४
SP0140010सनत्कुमार उवाच |
SP0140011अथ वृत्ते विवाहे तु भवस्यामिततेजसः |
SP0140012प्रहर्षमतुलं गत्वा देवाः सहपितामहाः |
SP0140013तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम् ||
SP0140021नमः पर्वतलिश्ण्गाय पर्वतेशाय वै नमः |
SP0140022नमः पवनवेगाय विरूपायाजिताय च ||
SP0140031नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् |
SP0140032नमो नीलशिखण्डाय अम्बिकापतये नमः ||
SP0140041नमः पवनरूपाय शतरूपाय वै नमः |
SP0140042नमो भैरवरूपाय विरूपनयनाय च ||
SP0140051नमः सहस्रनेत्राय सहस्रचरणाय च |
SP0140052नमो वेदरहस्याय वेदाश्ण्गाय नमो नमः ||
SP0140061विष्टम्भनाय शक्रस्य बाहोर्वेदाश्ण्कुराय च |
SP0140062चराचराधिपतये शमनाय नमो नमः ||
SP0140071सलिलेशयलिश्ण्गाय युगान्तायतलिश्ण्गिने |
SP0140072नमः कपालमालाय कपालस्रग्मिणे नमः ||
SP0140081नमः कपालहस्ताय दंष्ट्रिणे गदिने नमः |
SP0140082नमस्त्रैलोक्यवाहाय सप्तलोकरथाय च ||
SP0140091नमः खट्वाश्ण्गहस्ताय प्रमथार्तिहराय च |
SP0140092नमो यज्ञशिरोहर्त्रे कृष्णकेशापहारिणे ||
SP0140101भगनेत्रनिपाताय पूष्णो दन्तहराय च |
SP0140102नमः पिनाकशूलासिखड्गमुद्गरधारिणे ||
SP0140111नमोऽस्तु कालकालाय तृतीयनयनाय च |
SP0140112अन्तकान्तकृते चैव नमः पर्वतवासिने ||
SP0140121सुवर्णरेतसे चैव सर्पकुण्डलधारिणे |
SP0140122वाड्वलेर्योगनाशाय योगिनां गुरवे नमः ||
SP0140131शशाश्ण्कादित्यनेत्राय ललाटनयनाय च |
SP0140132नमः श्मशानरतये श्मशानवरदाय च ||
SP0140141नमो दैवतनाथाय त्र्यम्बकाय नमो नमः |
SP0140142अशनीशतहासाय ब्रह्मण्यायाजिताय च ||
SP0140151गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे |
SP0140152नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ||
SP0140161सलिले तप्यमानाय योगैश्वर्यप्रदाय च |
SP0140162नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ||
SP0140171नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः |
SP0140172नमो रुद्राय वसवे आदित्यायाश्विने नमः ||
SP0140181नमः पित्रेऽथ साध्याय विश्वेदेवाय वै नमः |
SP0140182नमः शर्वाय सर्वाय उग्राय वरदाय च ||
SP0140191नमो भीमाय सेनान्ये पशूनां पतये नमः |
SP0140192शुचये रेरिहाणाय सद्योजाताय वै नमः ||
SP0140201महादेवाय चित्राय नमश्चित्ररथाय च |
SP0140202प्रधानाय प्रमेयाय कार्याय करणाय च ||
SP0140211पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च |
SP0140212नमः पुरुषसंयोगप्रधानगुणकारिणे ||
SP0140221प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः |
SP0140222कृताकृतस्य संवेत्त्रे फलसंयोगदाय च ||
SP0140231कालज्ञाय च सर्वत्र नमो नियमकारिणे |
SP0140232नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ||
SP0140241नमस्ते देवदेवेश नमस्ते भूतभावन |
SP0140242शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो ||
SP0140250सनत्कुमार उवाच |
SP0140251एवं स भगवान्देवो जगत्पतिरुमापतिः |
SP0140252स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् ||
SP0140261द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः |
SP0140262वरं ब्रूत यथेष्टं च दातास्मि वदतानघाः ||
SP0140271ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः |
SP0140272तवैव भगवन्हस्ते वर एषोऽवतिष्ठताम् |
SP0140273यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ||
SP0140281एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः |
SP0140282लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः ||
SP0140291यस्तु हरोत्सवमद्भुतमेतं गायति दैवतविप्रसमक्षम् |
SP0140292सोऽप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात् ||
SP0140300सनत्कुमार उवाच |
SP0140301पाराशर्य स्तवं हीदं शृणुयाद्यः पठेत वा |
SP0140302स स्वर्गलोकगो देवैः पूज्यतेऽमरराडिव ||
SP0149999इति स्कन्दपुराणे चतुर्दशमोऽध्यायः ||
स्कंदपुराण अध्याय १५
SP0150010सनत्कुमार उवाच |
SP0150011प्रविष्टे भवनं देवे सूपविष्टे वरासने |
SP0150012स बहिर्मन्मथः क्रूरो देवं वेद्धुमनाभवत् ||
SP0150021तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् |
SP0150022लोकान्सर्वांस्तापयानं सर्वेष्वकरुणात्मकम् ||
SP0150031ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह |
SP0150032चक्राह्वयस्य रूपेण रत्या सह तमागतम् ||
SP0150041अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम् |
SP0150042नयनेन तृतीयेन सावज्ञं तमवैक्षत ||
SP0150051ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् |
SP0150052संवृत्य रतिभर्तारमदहत्सपरिच्छदम् ||
SP0150061स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम् |
SP0150062प्रसादयंश्च तं देवं पपात स महीतले ||
SP0150071आशु सोऽग्निपरीताश्ण्गो मन्मथो लोकतापनः |
SP0150072पपात भस्मसाच्चैव क्षणेन समपद्यत ||
SP0150081पत्नी तु करुणं तस्य विललाप सुदुःखिता |
SP0150082देवं देवीं च दुःखार्ता अयाचत्करुणायती ||
SP0150091तस्याश्च करुणां श्रुत्वा देवौ तौ करुणात्मकौ |
SP0150092ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ||
SP0150101दग्ध एष ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते |
SP0150102अशरीरोऽपि ते काले कार्यं सर्वं करिष्यति ||
SP0150111यदा तु विष्णुर्भविता वसुदेवसुतः शुभे |
SP0150112तदा तस्य सुतोऽयं स्यात्पतिस्ते स भविष्यति ||
SP0150120सनत्कुमार उवाच |
SP0150121ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना |
SP0150122जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ||
SP0150130सनत्कुमार उवाच |
SP0150131एवं दग्ध्वा स कामं तु शंकरो मूढचेतसम् |
SP0150132प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह ||
SP0150141वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते |
SP0150142तस्याहं वरदानाय प्रयास्यामि महाव्रते ||
SP0150151एवमुक्त्वा स देवीं तु भक्तिप्रीत्या तदा विभुः |
SP0150152जगाम तप्यतोऽभ्याशं वसिष्ठस्य मुनेर्विभुः ||
SP0150161ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम् |
SP0150162वसिष्ठमृषिशार्दूलं तप्यमानं परं तपः ||
SP0150171पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम् |
SP0150172उवाच भगवान्गत्वा ब्रूहि किं ते ददानि ते |
SP0150173ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज ||
SP0150181दृष्ट्वा स तु तमीशानं प्रणम्य शिरसा प्रभुम् |
SP0150182शिरस्यञ्जलिमाधाय तुष्टाव हृषिताननः ||
SP0150190वसिष्ठ उवाच |
SP0150191नमः कनकलिश्ण्गाय वेदलिश्ण्गाय वै नमः |
SP0150192नमः सहस्रलिश्ण्गाय वह्निलिश्ण्गाय वै नमः ||
SP0150201नमः पुराणलिश्ण्गाय श्रुतिलिश्ण्गाय वै नमः |
SP0150202नमः पवनलिश्ण्गाय ब्रह्मलिश्ण्गाय वै नमः ||
SP0150211नमस्त्रैलोक्यलिश्ण्गाय दाहलिश्ण्गाय वै नमः |
SP0150212नमः पर्वतलिश्ण्गाय स्थितिलिश्ण्गाय वै नमः ||
SP0150221नमो रहस्यलिश्ण्गाय सप्तद्वीपोर्ध्वलिश्ण्गिने |
SP0150222नमः सर्वार्थलिश्ण्गाय सर्वलोकाश्ण्गलिश्ण्गिने ||
SP0150231नमोऽस्त्वव्यक्तलिश्ण्गाय बुद्धिलिश्ण्गाय वै नमः |
SP0150232नमोऽहंकारलिश्ण्गाय भूतलिश्ण्गाय वै नमः ||
SP0150241नम इन्द्रियलिश्ण्गाय नमस्तन्मात्रलिश्ण्गिने |
SP0150242नमः पुरुषलिश्ण्गाय भावलिश्ण्गाय वै नमः ||
SP0150251नमः सर्वार्थलिश्ण्गाय तमोलिश्ण्गाय वै नमः |
SP0150252नमो रजोर्ध्वलिश्ण्गाय सत्त्वलिश्ण्गाय वै नमः ||
SP0150261नमो गगनलिश्ण्गाय तेजोलिश्ण्गाय वै नमः |
SP0150262नमो वायूर्ध्वलिश्ण्गाय शब्दलिश्ण्गाय वै नमः ||
SP0150271नमो ऋक्स्तुतलिश्ण्गाय यजुर्लिश्ण्गाय वै नमः |
SP0150272नमस्तेऽथर्वलिश्ण्गाय सामलिश्ण्गाय वै नमः ||
SP0150281नमो यज्ञाश्ण्गलिश्ण्गाय यज्ञलिश्ण्गाय वै नमः |
SP0150282नमस्तेऽनन्तलिश्ण्गाय देवानुगतलिश्ण्गिने ||
SP0150291दिश नः परमं योगमपत्यं मत्समं तथा |
SP0150292ब्रह्म चैवाक्षयं देव शमं चैव परं विभो |
SP0150293अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ||
SP0150300सनत्कुमार उवाच |
SP0150301एवं स भगवान्व्यास वसिष्ठेनामितात्मना |
SP0150302स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् ||
SP0150310भगवानुवाच |
SP0150311तुष्टस्तेऽहं ददान्येतत्तव सर्वं मनोगतम् |
SP0150312योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम् ||
SP0150321पौत्रं च त्वत्समं दिव्यं तपोयोगबलान्वितम् |
SP0150322ददानि ते ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते ||
SP0150331दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च |
SP0150332नित्यं तव भविष्यन्ति अमरत्वं च सर्वशः ||
SP0150341अवध्यत्वमसह्यत्वमक्षयत्वं च सर्वदा |
SP0150342वंशस्य चाक्षतिर्विप्र धर्मे च रतिरव्यया |
SP0150343ब्रूहि चान्यानपि वरान्ददामि ऋषिसत्तम ||
SP0150350वसिष्ठ उवाच |
SP0150351भगवन्विदितं सर्वं भविष्यं देवसत्तम |
SP0150352न स्याद्धि तत्तथा देव यथा वा मन्यसे प्रभो ||
SP0150360देव उवाच |
SP0150361भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः |
SP0150362अहं कर्ता भविष्यस्य कथं कुर्यात्तदन्यथा ||
SP0150371तथा तन्नात्र संदेहो विहितं यद्यथा मया |
SP0150372तस्मात्तेऽनुग्रहं कर्ता भूयः पुत्रस्तवाव्ययः ||
SP0150380सनत्कुमार उवाच |
SP0150381एवमुक्त्वा ततो देवः कपर्दी नीललोहितः |
SP0150382पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत ||
SP0159999इति स्कन्दपुराणे पञ्चदशमोऽध्यायः ||
स्कंदपुराण अध्याय १६
SP0160010व्यास उवाच |
SP0160011वरान्स लब्ध्वा भगवान्वसिष्ठोऽस्मत्पितामहः |
SP0160012कं पुत्रं जनयामास आत्मनः सदृशद्युतिम् ||
SP0160020सनत्कुमार उवाच |
SP0160021तेनासौ वरदानेन देवदेवस्य शूलिनः |
SP0160022अरुन्धत्यामजनयत्तपोयोगबलान्वितम् |
SP0160023ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम् ||
SP0160031तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः |
SP0160032परेण चेतसा भक्तिरभवद्गोवृषध्वजे ||
SP0160041स कदाचिदपत्यार्थमाराधयदुमापतिम् |
SP0160042तस्य तुष्टो महादेवो वरदोऽस्मीत्यभाषत ||
SP0160051अथ दृष्ट्वा तमीशानमिदमाहानताननः |
SP0160052केन स्तोष्यामि ते देव यस्त्वं सर्वजगत्पतिः |
SP0160053सर्वान्धारयसे लोकानात्मना समयाद्विभो ||
SP0160061त्वमेव भोक्ता भोज्यं च कर्ता कार्यं तथा क्रिया |
SP0160062उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः ||
SP0160071आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो |
SP0160072इच्छामि दत्तं देवेश एष मे दीयतां वरः ||
SP0160080सनत्कुमार उवाच |
SP0160081तमेवंवादिनं देवः प्रहस्य वदतां वरः |
SP0160082उवाच वचसा व्यास दिशः सर्वा विनादयन् ||
SP0160091त्वयाहं याचितः शक्ते स च ते संभविष्यति |
SP0160092त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुंगव ||
SP0160101बीजात्मा च तथोद्भूतः स्वयमेवाश्ण्कुरात्मना |
SP0160102बीजात्मना न भवति परिणामान्तरं गतः ||
SP0160111एवं स आत्मनात्मा वः संभूतोऽपत्यसंज्ञितः |
SP0160112स्वेनात्मना न भविता परिणामान्तरं गतः ||
SP0160120सनत्कुमार उवाच |
SP0160121एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्ष्य च |
SP0160122जगाम सहसा योगी अदृश्यत्वमतिद्युतिः ||
SP0160131तस्मिन्गते महादेवे शक्तिस्तव पितामहः |
SP0160132वचस्तत्परिनिश्चिन्त्य एवमेवेत्यमन्यत ||
SP0160141अथ कालेऽतिमहति समतीते शुभव्रते |
SP0160142तपसा भावितश्चापि महताग्निसमप्रभः |
SP0160143अदृश्यन्त्यां महाप्रज्ञ आदधे गर्भमुत्तमम् ||
SP0160151तस्यामापन्नसत्त्वायां राजा कल्माषपादृषिम् |
SP0160152भक्षयामास संरब्धो रक्षसा हृतचेतनः ||
SP0169999इति स्कन्दपुराणे षोडशोऽध्यायः ||
स्कंदपुराण अध्याय १७
SP0170010व्यास उवाच |
SP0170011कस्मात्स राजा तमृषिं चखाद तपसान्वितम् |
SP0170012रक्षसा स किमर्थं च हृतचेताभवन्नृपः ||
SP0170020सनत्कुमार उवाच |
SP0170021वसिष्ठयाज्यो राजासीन्नाम्ना मित्रसहः प्रभुः |
SP0170022सुदासपुत्रो बलवानिन्द्रचन्द्रसमद्युतिः ||
SP0170031तमागम्योचिवाञ्छक्तिश्चरिष्ये दीक्षितो व्रतम् |
SP0170032तत्र मे निशि राजेन्द्र सदैव पिशिताशनम् ||
SP0170041इहागतस्य यच्छस्व शुचि सर्वगुणान्वितम् |
SP0170042अप्रतीकारसंयुक्तमेकदैकान्त एव च ||
SP0170051एवमस्त्विति तेनोक्तो जगाम स महामनाः |
SP0170052अथास्यान्तर्हितं रक्षो नृपतेरभवत्तदा |
SP0170053नाज्ञापयत्तदा सूदं तस्यार्थे मुनिसत्तम ||
SP0170061गतेऽथ दिवसे तात संस्मृत्य प्रयतात्मवान् |
SP0170062सूदमाहूय चोवाच आर्तवत्स नराधिपः ||
SP0170070सौदास उवाच |
SP0170071मयामृतवसो प्रातर्गुरुपुत्रस्य धीमतः |
SP0170072पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम् |
SP0170073तत्कुरुष्व तथा क्षिप्रं कालो नो नात्यगाद्यथा ||
SP0170081स एवमुक्तः प्रोवाच सूदोऽमृतवसुस्तदा |
SP0170082राजंस्त्वया नो नाख्यातं प्रागेव नरपुंगव |
SP0170083साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाश्ण्क्षितम् ||
SP0170091पिशितस्यैव चाल्पत्वाद्बहूनां चैव तद्भुजाम् |
SP0170092अमितस्य प्रदानाच्च न किंचिदवशिष्यते ||
SP0170100राजोवाच |
SP0170101जाने सर्वोपयोगं च जाने चादुष्टतां तव |
SP0170102जाने स्तोकं च पिशितं कार्यं चेदं तथाविधम् |
SP0170103मृग्यतां पिशितं क्षिप्रं लब्धव्यं यत्र मन्यसे ||
SP0170110सनत्कुमार उवाच |
SP0170111एवमुक्तोऽमृतवसुः प्रयत्नं महदास्थितः |
SP0170112पिशितं मृगयन्सम्यश्ण्नाप्यविन्दत कर्हिचित् ||
SP0170121यदा न लब्धवान्मांसं तदोवाच नराधिपम् |
SP0170122गत्वा निशि महाराजमिदं वचनमर्थवत् ||
SP0170131राजन्न पिशितं त्वस्ति पुरेऽस्मिञ्छुचि कर्हिचित् |
SP0170132मृगयन्परिखिन्नोऽस्मि शाधि किं करवाणि ते ||
SP0170140सनत्कुमार उवाच |
SP0170141स एवमुक्तः सूदेन तस्मिन्काले नराधिपः |
SP0170142नोवाच किंचित्तं सूदं तूष्णीमेव बभूव ह ||
SP0170151तदन्तरमभिप्रेक्ष्य विश्वामित्रसमीरितः |
SP0170152राक्षसो रुधिरो नाम संविवेश नराधिपम् ||
SP0170161रक्षसा स तदाविष्टो रुधिरेण दुरात्मना |
SP0170162उवाच सूदं शनकैः कर्णमूले महाद्युतिः ||
SP0170171गच्छ यत्किंचिदानीय मांसं मानुषमन्ततः |
SP0170172गार्दभं वाप्यथौष्ट्रं वा सर्वं संस्कर्तुमर्हसि ||
SP0170181किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम् |
SP0170182रसवद्गन्धवच्चैव क्षिप्रमेव समाचर ||
SP0170190सनत्कुमार उवाच |
SP0170191स एवमुक्तस्तेनाथ मानुषं मांसमाददे |
SP0170192राजापकारिणो व्यास मृतोत्सृष्टस्य कस्यचित् ||
SP0170201अथार्धरात्रसमये भास्कराकारवर्चसम् |
SP0170202शतानलसमप्रख्यमपश्यन्मुनिसत्तमम् ||
SP0170211स तमर्घ्येण पाद्येन आसनाग्र्यवरेण च |
SP0170212समर्चयित्वा विधिवदन्नमस्योपपादयत् ||
SP0170221स तदन्नं समानीतं समालभ्य महातपाः |
SP0170222चुकोप कुपितश्चाह पार्थिवं प्रदहन्निव ||
SP0170230शक्तिरुवाच |
SP0170231पार्थिवाधम विप्राणां भोजनं राक्षसोचितम् |
SP0170232न दीयते विधिज्ञेन त्वं तु मामवमन्यसे ||
SP0170241यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम् |
SP0170242तस्मात्त्वं कर्मणा तेन पुरुषादो भविष्यसि ||
SP0170250सनत्कुमार उवाच |
SP0170251एवमुक्तस्तु तेजस्वी राजा संचिन्त्य तत्तदा |
SP0170252उवाच क्रोधरक्ताक्षो राक्षसाविष्टचेतनः ||
SP0170261पुरुषादो भवेत्येवं मामवोचद्भवान्यतः |
SP0170262ततस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज ||
SP0170271भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम् |
SP0170272चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंहतिम् |
SP0170273पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम् ||
SP0179999इति स्कन्दपुराणे सप्तदशमोऽध्यायः ||
स्कंदपुराण अध्याय १८
SP0180010सनत्कुमार उवाच |
SP0180011ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया |
SP0180012वनं विवेश तत्राभूत्पुरुषादो महाबलः ||
SP0180021सोऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम् |
SP0180022ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः ||
SP0180031ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः |
SP0180032नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति |
SP0180033पुत्रशोकेन महता भृशमेवान्वकीर्यत ||
SP0180041स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः |
SP0180042नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात् |
SP0180043शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः ||
SP0180051पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी |
SP0180052तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः ||
SP0180061ततोऽटवीं समासाद्य निराहारो जितेन्द्रियः |
SP0180062वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन् ||
SP0180071अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम् |
SP0180072अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत ||
SP0180081अथैनं चारुसर्वाश्ण्गी पीनोन्नतपयोधरा |
SP0180082उपतस्थेऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा ||
SP0180091तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः |
SP0180092सोवाच दीनया वाचा रुदती श्वशुरं तदा ||
SP0180100अदृश्यन्त्युवाच |
SP0180101यदैव सुतदुःखेन निर्गतोऽस्याश्रमाद्गुरो |
SP0180102तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता ||
SP0180111अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो |
SP0180112उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः ||
SP0180120सनत्कुमार उवाच |
SP0180121इदानीमस्ति मे वत्से जीविताशेति सोऽब्रवीत् |
SP0180122क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः ||
SP0180131तदाश्रमपदं गच्छन्पथि राजानमैक्षत |
SP0180132वसारुधिरदिग्धाश्ण्गं सौदासं रक्तलोचनम् ||
SP0180141अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः |
SP0180142ततोऽस्य निर्गतः कायाद्रक्षः परमदारुणः ||
SP0180151उवाच चैनं दुष्टात्मन्दहेयं त्वां सबान्धवम् |
SP0180152दग्धेन च त्वया किं मे गच्छ मुक्तोऽसि दुर्मते ||
SP0180161ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् |
SP0180162प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम् ||
SP0180171गते निशाचरे राजा प्रणम्य शिरसा मुनिम् |
SP0180172प्रसादयामास तदा स चोवाचेदमर्थवत् ||
SP0180181न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै |
SP0180182कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः ||
SP0180191प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो |
SP0180192ब्रूहि किं वा प्रियं तेऽद्य करोमि नरपुंगव ||
SP0180200राजोवाच |
SP0180201इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत |
SP0180202देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम् ||
SP0180210सनत्कुमार उवाच |
SP0180211एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः |
SP0180212पुत्रं च शोणकं नाम जनयामास निर्वृतः ||
SP0180221तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः |
SP0180222जगाम वनमेवाशु सभार्यस्तपसि स्थितः ||
SP0180231वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान् |
SP0180232अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः ||
SP0180241वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत |
SP0180242तात तातेति च मुहुर्व्याजहार पितुर्गुरुम् ||
SP0180251ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम् |
SP0180252पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा ||
SP0180261तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम् |
SP0180262जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम् ||
SP0180271सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः |
SP0180272ऋषिभिर्दैवतैश्चैव इदमाह पराशरम् ||
SP0180280ब्रह्मोवाच |
SP0180281देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः |
SP0180282अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम् ||
SP0180290पराशर उवाच |
SP0180291सह देवैरहं सर्वा/ल्लोकान्धक्ष्यामि पावकैः |
SP0180292दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः ||
SP0180300सनत्कुमार उवाच |
SP0180301तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः |
SP0180302उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः ||
SP0180310पितामह उवाच |
SP0180311कृतमेतन्न संदेहो यथा ब्रूषे महामते |
SP0180312क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया ||
SP0180321यैस्ते पिता महाभाग भक्षितः सह सोदरैः |
SP0180322त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः |
SP0180323अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः ||
SP0180331तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत् |
SP0180332वसिष्ठस्य महाभाग त्वं निवारय पुत्रक ||
SP0180341देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम् |
SP0180342ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा ||
SP0180351ततस्तेषां महातेजा वचांसि प्रत्यपूजयत् |
SP0180352विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम् ||
SP0180361य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान् |
SP0180362रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति ||
SP0180371तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः |
SP0180372विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ ||
SP0180380सनत्कुमार उवाच |
SP0180381ततो देवाः सगन्धर्वाः पितामहपुरःसराः |
SP0180382प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन् ||
SP0180391हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु |
SP0180392संजहार ततः सत्त्रं ब्रह्मणोऽनुमते तदा ||
SP0180400सनत्कुमार उवाच |
SP0180401य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान् |
SP0180402श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः ||
SP0180411पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम् |
SP0180412निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम् ||
SP0189999इति स्कन्दपुराणेऽष्टादशमोऽध्यायः ||
स्कंदपुराण अध्याय १९
SP0190010सनत्कुमार उवाच |
SP0190011एवं तव पिता व्यास रक्षःसत्त्रं समाहरत् |
SP0190012समापयित्वा च पुनस्तपस्तेपे च भास्वरम् ||
SP0190021तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम् |
SP0190022उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः ||
SP0190030वसिष्ठ उवाच |
SP0190031पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम् |
SP0190032पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम् ||
SP0190041अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः |
SP0190042करिष्यति गतिं चैव इति वेदविदो विदुः ||
SP0190051स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः |
SP0190052पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो ||
SP0190061तस्मात्पित्.ऱ्णामानृण्यं गच्छ व्रतवतां वर |
SP0190062सुतमुत्पादय क्षिप्रमधिकं सममेव वा ||
SP0190070सनत्कुमार उवाच |
SP0190071स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना |
SP0190072मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम् ||
SP0190081तस्य कालेन महता तपसा भावितस्य तु |
SP0190082उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम् ||
SP0190091स लब्धवर आगम्य ययाचे पुत्रकारणात् |
SP0190092क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् ||
SP0190101सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम् |
SP0190102पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम् ||
SP0190111मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा |
SP0190112अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम् ||
SP0190121तस्यां स जनयामास वरं दत्त्वा महातपाः |
SP0190122भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम् ||
SP0190131तव पुत्रोऽभवच्चापि शुको योगविदां वरः |
SP0190132तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा ||
SP0190140व्यास उवाच |
SP0190141कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः |
SP0190142कथं चापगतं भूय एतदिच्छामि वेदितुम् ||
SP0190150सनत्कुमार उवाच |
SP0190151पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते |
SP0190152सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः ||
SP0190161तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता |
SP0190162मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा ||
SP0190171मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान् |
SP0190172सरस्वतीमथैकान्ते वसिष्ठं मे महापगे |
SP0190173स्रोतसा महताक्षिप्य स्नायमानमिहानय ||
SP0190181सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता |
SP0190182यदुक्तवांस्तु गाधेयः स चोवाच महानदीम् ||
SP0190191एवं कुरु महाभागे मां नयस्व यथेप्सितम् |
SP0190192मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम् ||
SP0190200सनत्कुमार उवाच |
SP0190201गाधेयस्य ततः सा तु जुह्वतोऽग्निं दिवाकरे |
SP0190202मध्यं प्राप्तेऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा ||
SP0190211तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम् |
SP0190212उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया |
SP0190213तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि ||
SP0190221विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा |
SP0190222अवहद्रुधिरं चैव मांसमेदस्तथैव च ||
SP0190231अथ तीर्थप्रसश्ण्गेन मुनिभिः समुपागतैः |
SP0190232अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् ||
SP0190241महतस्तपसः शक्त्या कालेन महता तदा |
SP0190242वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः ||
SP0190251विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् |
SP0190252एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ ||
SP0190260सनत्कुमार उवाच |
SP0190261य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा |
SP0190262स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः ||
SP0190271ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः |
SP0190272भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम् ||
SP0190281एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः |
SP0190282वैरं समाप्तं लोकानां हितार्थं पुनरेव च ||
SP0199999इति स्कन्दपुराणे ऊनविंशतितमोऽध्यायः ||
स्कंदपुराण अध्याय २०
SP0200010व्यास उवाच |
SP0200011उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ |
SP0200012तन्मे सर्वमशेषेण कथयस्व महामुने ||
SP0200020सनत्कुमार उवाच |
SP0200021उमाहरौ तु संगम्य परस्परमनिन्दितौ |
SP0200022शालश्ण्कस्यान्वये विप्रं युयुजाते वरेण ह ||
SP0200031स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम् |
SP0200032रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ ||
SP0200040व्यास उवाच |
SP0200041कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम् |
SP0200042समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च ||
SP0200050सनत्कुमार उवाच |
SP0200051अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान् |
SP0200052तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सोऽभवत् ||
SP0200061अपश्यल्लम्बमानांस्तु गर्तायां स पित्.ऱ्न्द्विजः |
SP0200062विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः ||
SP0200071तैरुक्तोऽपत्यकामैस्तु देवं लोकेशमव्ययम् |
SP0200072आराधय महादेवं सुतार्थं द्विजसत्तम ||
SP0200081तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् |
SP0200082शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ||
SP0200091तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः |
SP0200092हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम् ||
SP0200101नमः परमदेवाय महेशाय महात्मने |
SP0200102स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः ||
SP0200111नमः कामाश्ण्गनाशाय योगसम्भवहेतवे |
SP0200112नमः पर्वतवासाय ध्यानगम्याय वेधसे ||
SP0200121ऋषीणां पतये नित्यं देवानां पतये नमः |
SP0200122वेदानां पतये चैव योगिनां पतये नमः ||
SP0200131प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे |
SP0200132वरदाय च भक्तानां नमः सर्वगताय च ||
SP0200141तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह |
SP0200142स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे ||
SP0200151जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा |
SP0200152प्रकृतेः पतये नित्यं पुरुषात्परगामिने ||
SP0200161ईश्वराय नमो नित्यं योगगम्याय रंहसे |
SP0200162संसारोत्पत्तिनाशाय सर्वकामप्रदाय च ||
SP0200171शरण्याय नमो नित्यं नमो भस्माश्ण्गरागिणे |
SP0200172नमस्तेऽयोग्रहस्ताय तेजसां पतये नमः ||
SP0200181सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च |
SP0200182स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे ||
SP0200191स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते |
SP0200192यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः ||
SP0200201अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः |
SP0200202प्रसादं परमालम्ब्य वरदो भव विश्वकृत् ||
SP0200210सनत्कुमार उवाच |
SP0200211यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम् |
SP0200212तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च ||
SP0200221ततः स भगवान्देवः स्तूयमानः सहोमया |
SP0200222उवाच वरदोऽस्मीति ब्रूहि यत्ते मनोगतम् ||
SP0200231तमेवंवादिनं देवं शिलादोऽभ्यर्चयत्तदा |
SP0200232उवाच चेदं देवेशं स वाचा सज्जमानया ||
SP0200241भगवन्यदि तुष्टोऽसि यदि देयो वरश्च मे |
SP0200242इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम् ||
SP0200251एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः |
SP0200252एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत ||
SP0200261गते तस्मिन्महेष्वासे ऋषिः परमपूजितः |
SP0200262स्वमाश्रममुपागम्य ऋषिभ्योऽकथयत्ततः ||
SP0200271तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम |
SP0200272यियक्षुर्यज्ञभूमिं स्वां लाश्ण्गलेन चकर्ष ताम् ||
SP0200281तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः |
SP0200282संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत ||
SP0200291स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम् |
SP0200292राक्षसोऽयमिति ज्ञात्वा भयान्नोपससार तम् ||
SP0200301कुमारोऽपि तथोद्भूतः पितरं दीप्ततेजसम् |
SP0200302उपासर्पत दीनात्मा तात तातेति चाब्रवीत् ||
SP0200311स तातेत्युच्यमानोऽपि यदा तं नाभ्यनन्दत |
SP0200312ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम् ||
SP0200320वायुरुवाच |
SP0200321शालश्ण्कायन पुत्रस्ते योऽसौ देवेन शम्भुना |
SP0200322अयोनिजः पुरा दत्तः स एष प्रतिनन्दय ||
SP0200331यस्मान्नन्दीकरस्तेऽयं सदैव द्विजसत्तम |
SP0200332तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव ||
SP0200340सनत्कुमार उवाच |
SP0200341ततः स वायुवचनान्नन्दिनं परिषस्वजे |
SP0200342गृहीत्वा चाश्रमं स्वेन सोऽनयत्तुष्टिवर्धनम् |
SP0200343चूडोपनयनादीनि कर्माण्यस्य चकार सः ||
SP0200351कृत्वा चाध्यापयामास वेदान्साश्ण्गानशेषतः |
SP0200352आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम् ||
SP0200361हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम् |
SP0200362शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च ||
SP0200371भूतग्रामचिकित्सां च मात्.ऱ्णां चरितं च यत् |
SP0200372भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम् |
SP0200373अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च ||
SP0200381दक्षः शुचिरदीनात्मा प्रियवागनसूयकः |
SP0200382सर्वलोकप्रियो नित्यं मनोनयननन्दनः ||
SP0200391तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ |
SP0200392आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ ||
SP0200401तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः |
SP0200402सुखासीनौ समालक्ष्य आसने परमार्चितौ ||
SP0200411मित्रावरुणनामानौ तपोयोगबलान्वितौ |
SP0200412अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे ||
SP0200421ताभ्यामनुज्ञातश्चैव निषसाद वरासने |
SP0200422उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत् ||
SP0200431ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः |
SP0200432स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः ||
SP0200441कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते |
SP0200442कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम् ||
SP0200451स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः |
SP0200452उवाच गुणवान्सम्यक्कुलवंशविवर्धनः ||
SP0200461तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम् |
SP0200462तयोः पादेषु शिरसा अपातयत नन्दिनम् ||
SP0200471तौ तु तस्याशिषं देवौ प्रयुश्ण्क्तो धर्मनित्यताम् |
SP0200472गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान् ||
SP0200480सनत्कुमार उवाच |
SP0200481शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा |
SP0200482विसृज्य नन्दिनं भीतः सोऽपृच्छदृषिसत्तमौ ||
SP0200490शिलाद उवाच |
SP0200491भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम् |
SP0200492किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि |
SP0200493प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ ||
SP0200500मित्रावरुणावूचतुः |
SP0200501तवैष तनयस्तात अल्पायुः सर्वसंमतः |
SP0200502अतोऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति ||
SP0200510सनत्कुमार उवाच |
SP0200511ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः |
SP0200512विसृज्य ऋषिशार्दूलावेकाकी विललाप च ||
SP0200521तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः |
SP0200522नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम् ||
SP0200530नन्द्युवाच |
SP0200531केन त्वं तात दुःखेन दूयमानः प्ररोदिषि |
SP0200532दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः ||
SP0200540शिलाद उवाच |
SP0200541पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि |
SP0200542ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत् ||
SP0200550नन्द्युवाच |
SP0200551सत्यं देवऋषी तात न तावनृतमूचतुः |
SP0200552तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः ||
SP0200560शिलाद उवाच |
SP0200561किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते |
SP0200562येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम् ||
SP0200570नन्द्युवाच |
SP0200571न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया |
SP0200572महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा ||
SP0200581द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् |
SP0200582नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः ||
SP0200590शिलाद उवाच |
SP0200591मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम् |
SP0200592महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः ||
SP0200601भवांस्तु वर्षेणैकेन तपसा नातिभावितः |
SP0200602कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम् ||
SP0200610नन्द्युवाच |
SP0200611न तात तपसा देवो दृश्यते न च विद्यया |
SP0200612शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः ||
SP0200621त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम् |
SP0200622द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम् ||
SP0200631तिष्ठन्तं मां यमोऽभ्येत्य पश्यतस्तेऽभिसंमतम् |
SP0200632न हिंसति तथा तस्मादितस्तात व्रजाम्यहम् ||
SP0200641तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा |
SP0200642न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज ||
SP0200651अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः |
SP0200652अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम् ||
SP0200661जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च |
SP0200662न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम् ||
SP0200670सनत्कुमार उवाच |
SP0200671तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा |
SP0200672व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः ||
SP0200681अभिवन्द्य पितुः पादौ शिरसा स महायशाः |
SP0200682प्रदक्षिणं समावृत्य सम्प्रतस्थेऽतिनिश्चितः ||
SP0200691अभिवाद्य ऋषीन्सर्वान्स दिदृक्षुरुदारधीः |
SP0200692मुनिः स देवमगमत्प्रणतार्तिहरं हरम् ||
SP0209999इति स्कन्दपुराणे विंशतितमोऽध्यायः ||
स्कंदपुराण अध्याय २१
SP0210010सनत्कुमार उवाच |
SP0210011निर्गतोऽथ ततो नन्दी जगाम सरितां वराम् |
SP0210012भुवनामिति विख्यातां सर्वलोकसुखावहाम् ||
SP0210021तां प्रविश्य ततो धीमानेकाग्रो ह्रदमास्थितः |
SP0210022स जजाप तदा रुद्रान्मृत्योर्भीतः समाहितः ||
SP0210031जपता तेन तत्रैव तत्परेण तदाशिषा |
SP0210032कोटिरेका यदा जप्ता तदा देवस्तुतोष ह ||
SP0210041तमागत्याह भगवाञ्छर्व उग्रः कपर्दिमान् |
SP0210042नन्दिंस्तुष्टोऽस्मि भद्रं ते वरं वृणु यथेप्सितम् ||
SP0210051उवाच प्रणतो भूत्वा प्रणतार्तिहरं हरम् |
SP0210052द्वितीयां जप्तुमिच्छामि कोटिं भगवतां विभो |
SP0210053एवमस्त्विति देवोऽपि प्रोच्यागच्छद्यथागतम् ||
SP0210060सनत्कुमार उवाच |
SP0210061सोऽवतीर्य ततो भूयः प्रयतात्मा तथैव ह |
SP0210062जजाप कोटिमन्यां तु रुद्रमेवानुचिन्तयन् ||
SP0210071द्वितीयायां ततः कोट्यां सम्पूर्णायां वृषध्वजः |
SP0210072अभ्याजगाम तं चैव वरदोऽस्मीत्यभाषत ||
SP0210081स प्राह भगवन्कोटिं तृतीयामपि कालहन् |
SP0210082जप्तुमिच्छामि देवेश त्वत्प्रसादादहं विभो ||
SP0210091एवमस्त्विति भूयोऽपि भगवान्प्रत्युवाच ह |
SP0210092उक्त्वा जगाम स्वं वेश्म देव्या सह महाद्युतिः ||
SP0210101ततस्तृतीयां रुद्राणां कोटिमन्यां जजाप ह |
SP0210102युगान्तादित्यसंकाशस्ततः समभवद्द्विजः ||
SP0210111तस्य कोटीत्रये व्यास समाप्ते ज्वलनत्विषः |
SP0210112सोमः सह गणैर्देवस्तं देशमुपचक्रमे ||
SP0210121स तं करेण संगृह्य उद्धृत्य सलिलाच्च ह |
SP0210122संमृजानोऽग्रहस्तेन नन्दिनं कालहाब्रवीत् ||
SP0210130देव उवाच |
SP0210131शैलादे वरदोऽहं ते तपसानेन तोषितः |
SP0210132साधु जप्तं त्वया धीमन्ब्रूहि यत्ते मनोगतम् ||
SP0210140शैलादिरुवाच |
SP0210141जपेयं कोटिमन्यां तु भूयोऽपि तव तेजसा |
SP0210142वरमेतं वृणे देव यदि तुष्टोऽसि मे विभो ||
SP0210150भगवानुवाच |
SP0210151किं ते जप्तेन भूयोऽपि तुष्टोऽस्मि तव सर्वथा |
SP0210152यद्यत्त्वं वृणुषे कामं सर्वं तत्प्रददानि ते ||
SP0210161ब्रह्मत्वमथ विष्णुत्वमिन्द्रत्वमथ वायुताम् |
SP0210162आदित्यो भव रुद्रो वा ब्रूहि किं वा ददानि ते ||
SP0210170सनत्कुमार उवाच |
SP0210171स एवमुक्तो देवेन शिरसा पादयोर्नतः |
SP0210172तुष्टाव पुरकामाश्ण्गक्रतुपर्वतनाशनम् ||
SP0210180नन्द्युवाच |
SP0210181नमो देवातिदेवाय महादेवाय वै नमः |
SP0210182नमः कामाश्ण्गनाशाय नीलकण्ठाय वै नमः ||
SP0210191नमस्तुषितनाशाय त्रैलोक्यदहनाय च |
SP0210192नमः कालोग्रदण्डाय उग्रदण्डाय वै नमः ||
SP0210201नमो नीलशिखण्डाय सहस्रशिरसे नमः |
SP0210202सहस्रपाणये चैव सहस्रचरणाय च ||
SP0210211सर्वतःपाणिपादाय सर्वतोक्षिमुखाय च |
SP0210212सर्वतःश्रुतये चैव सर्वमावृत्य तिष्ठते ||
SP0210221नमस्ते रुक्मवर्णाय तथैवातीन्द्रियाय च |
SP0210222नमः कनकलिश्ण्गाय सर्वलिश्ण्गाय वै नमः ||
SP0210231नमश्चन्द्रार्कवर्णाय योगेशायाजिताय च |
SP0210232पिनाकपाणये चैव शूलमुद्गरपाणये ||
SP0210241गदिने खड्गिने चैव परश्वधधराय च |
SP0210242रथिने वर्मिणे चैव महेष्वासाय वै नमः ||
SP0210251नमस्त्रिशूलहस्ताय उग्रदण्डधराय च |
SP0210252नमो गणाधिपतये रुद्राणां पतये नमः ||
SP0210261नमः सहस्रनेत्राय शतनेत्राय वै नमः |
SP0210262आदित्यानां च पतये वसूनां पतये नमः ||
SP0210271नमः पृथिव्याः पतये आकाशपतये नमः |
SP0210272नमः स्वर्लोकपतये उमायाः पतये नमः ||
SP0210281नमो योगाधिपतये सर्वयोगप्रदाय च |
SP0210282ध्यानिने ध्यायमानाय ध्यानिभिः संस्तुताय च ||
SP0210291मृत्यवे कालदण्डाय यमाय च महात्मने |
SP0210292देवाधिपतये चैव दिव्यसंहननाय च ||
SP0210301यज्ञाय वसुदानाय स्वर्गायाजन्मदाय च |
SP0210302सवित्रे सर्वदेवानां धर्मायानेकरूपिणे ||
SP0210311अमृताय वरेण्याय सर्वदेवस्तुताय च |
SP0210312ब्रह्मणश्च शिरोहर्त्रे यज्ञस्य च महात्मनः ||
SP0210321त्रिपुरघ्नाय चोग्राय सर्वाशुभहराय च |
SP0210322उमादेहार्धरूपाय ललाटनयनाय च ||
SP0210331महिषान्धकभेत्ताय स्रष्ट्रे वै परमेष्ठिने |
SP0210332ब्रह्मणो गुरवे चैव ब्रह्मणो जनकाय च ||
SP0210341कुमारगुरवे चैव कुमारवरदाय च |
SP0210342हलिने मुषलघ्नाय महाहासाय वै नमः ||
SP0210351मृत्युपाशोग्रहस्ताय तक्षकब्रह्मसूत्रिणे |
SP0210352सविद्युद्घनवाहाय तथैव वृषयायिने ||
SP0210361हिमवद्विन्ध्यवासाय मेरुपर्वतवासिने |
SP0210362कैलासवासिने चैव धनेश्वरसखाय च ||
SP0210371विष्णोर्देहार्धदत्ताय तस्यैव वरदाय च |
SP0210372सर्वभूतासमज्ञाय सर्वभूतानुकम्पिने ||
SP0210381अन्तर्भूताधिभूताय प्राणिनां जीवदाय च |
SP0210382मनसे मन्यमानाय अतिमानाय चैव हि ||
SP0210391बुध्यमानाय बुद्धाय द्रष्ट्रे वै चक्षुषे नमः |
SP0210392नमस्ते स्पर्शयित्रे च तथैव स्पर्शनाय च ||
SP0210401नमस्ते रसयित्रे च तथैव रसनाय च |
SP0210402नमो घ्राणाय घ्रात्रे च श्रोत्रे श्रोत्राय चैव हि |
SP0210403हस्तिने चैव हस्ताय तथा पादाय पादिने ||
SP0210411नमोऽस्त्वानन्दकर्त्रे च आनन्दाय च वै नमः |
SP0210412वाचेऽथ वाग्मिने चैव तन्मात्राय महात्मने ||
SP0210421सूक्ष्माय चैव स्थूलाय सत्त्वाय रजसे नमः |
SP0210422नमश्च तमसे नित्यं क्षेत्रज्ञायाजिताय च ||
SP0210431विष्णवे लोकतन्त्राय प्रजानां पतये नमः |
SP0210432मनवे सप्तऋषये तप्यमानाय तापिने ||
SP0210441ब्रह्मण्यायाथ शुद्धाय तथा दुर्वाससे नमः |
SP0210442शिल्पिने शिल्पनाथाय विदुषे विश्वकर्मणे ||
SP0210451अत्रये भृगवे चैव तथैवाश्ण्गिरसे नमः |
SP0210452पुलहाय पुलस्त्याय क्रतुदक्षानलाय च ||
SP0210461धर्माय रुचये चैव वसिष्ठाय नमोऽस्तु ते |
SP0210462भूताय भूतनाथाय कुष्माण्डपतये नमः ||
SP0210471तिष्ठते द्रवते चैव गायते नृत्यतेऽपि च |
SP0210472अवश्यायाप्यवध्याय अजरायामराय च ||
SP0210481अक्षयायाव्ययायैव तथाप्रतिहताय च |
SP0210482अनावेश्याय सर्वेषां दृश्यायादृश्यरूपिणे ||
SP0210491सूक्ष्मेभ्यश्चापि सूक्ष्माय सर्वगाय महात्मने |
SP0210492नमस्ते भगवंस्त्र्यक्ष नमस्ते भगवञ्छिव |
SP0210493नमस्ते सर्वलोकेश नमस्ते लोकभावन ||
SP0210501न मे देवाधिपत्येन ब्रह्मत्वेनाथवा पुनः |
SP0210502न विष्णुत्वेन देवेश नापीन्द्रत्वेन भूतप |
SP0210503इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम् ||
SP0210511नित्यं त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् |
SP0210512द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः ||
SP0210521त्वं नो गतिः पुरा देव त्वं चैवार्तायनं प्रभुः |
SP0210522शरणं च त्वमेवाथ नान्यं पश्यामि कर्हिचित् ||
SP0210531त्वया त्यक्तस्य चैवाशु विनाशो नात्र संशयः |
SP0210532अन्यां गतिं न पश्यामि यस्या आत्यन्तिकं शुभम् ||
SP0210541अनुरक्तं च भक्तं च त्वत्परं त्वदपाश्रयम् |
SP0210542प्रतीच्छ मां सदा देव एष मे दीयतां वरः ||
SP0210550सनत्कुमार उवाच |
SP0210551य इमं प्रातरुत्थाय पठेदविमना नरः |
SP0210552स देहभेदमासाद्य नन्दीश्वरसमो भवेत् ||
SP0210561यश्चेमं शृणुयान्नित्यं श्रावयेद्वा द्विजातिषु |
SP0210562सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते ||
SP0210571श्रुत्वा सकृदपि ह्येतं स्तवं पापप्रणाशनम् |
SP0210572यत्र तत्र मृतो व्यास न दुर्गतिमवाप्नुयात् ||
SP0210581योऽधीत्य नित्यं स्तवमेतमग्र्यं देवं सदाभ्यर्चयते यतात्मा |
SP0210582किं तस्य यज्ञैर्विविधैश्च दानैस्तीर्थैः सुतप्तैश्च तथा तपोभिः ||
SP0219999इति स्कन्दपुराण एकविंशतिमोऽध्यायः ||
स्कंदपुराण अध्याय २२
SP0220010सनत्कुमार उवाच |
SP0220011ततस्तु देवदेवेशो भक्त्या परमया युतम् |
SP0220012अश्रुपूर्णेक्षणं दीनं पादयोः शिरसा नतम् ||
SP0220021कराभ्यां सुसुखाभ्यां तु संगृह्य परमार्तिहा |
SP0220022उत्थाप्य नयने सोमः अश्रुपूर्णे ममार्ज ह ||
SP0220031उवाच चैनं तुष्टात्मा वचसाप्याययन्निव |
SP0220032निरीक्ष्य गणपान्सर्वान्देव्या सह तदा प्रभुः ||
SP0220040देव उवाच |
SP0220041जाने भक्तिं तव मयि जाने चार्तिं तवानघ |
SP0220042तस्य सर्वस्य शैलादे उदर्कं संनिशामय ||
SP0220051अमरो जरया त्यक्तो नित्यं दुःखविवर्जितः |
SP0220052अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः ||
SP0220061ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः |
SP0220062इष्टो मम सदा चैव मम पार्श्वगतः सदा |
SP0220063मद्रूपश्चैव भविता महायोगबलान्वितः ||
SP0220071ऋद्धिमच्चैव ते द्वीपं क्षीरोदममृताकरम् |
SP0220072संवासं सम्प्रयच्छामि तत्र रंस्यसि सर्वदा ||
SP0220081कुशेशयमयीं मालामवमुच्यात्मनस्ततः |
SP0220082आबबन्ध महातेजा नन्दिने दिव्यरूपिणीम् ||
SP0220091स तया मालया नन्दी बभौ कण्ठावसक्तया |
SP0220092त्र्यक्षो दशभुजः श्रीमान्द्वितीय इव शंकरः ||
SP0220101ततस्तं वै समादाय हस्तेन भगवान्हरः |
SP0220102उवाच ब्रूहि किं तेऽद्य ददानि वरमुत्तमम् ||
SP0220111आश्रमश्चायमत्यर्थं तपसा तव भावितः |
SP0220112जप्येश्वर इति ख्यातो मम गुह्यो भविष्यति ||
SP0220121समन्ताद्योजनं क्षेत्रं दिव्यं देवगणैर्वृतम् |
SP0220122सिद्धचारणसंकीर्णमप्सरोगणसेवितम् |
SP0220123सिद्धिक्षेत्रं परं गुह्यं भविष्यति न संशयः ||
SP0220131कर्मणा मनसा वाचा यत्किंचित्कुरुते नरः |
SP0220132शुभं वाप्यशुभं वात्र सर्वं भवितृ तच्छुभम् ||
SP0220141जाप्यं मानसं तुल्यं वै रुद्राणां तद्भविष्यति |
SP0220142यत्र तत्र मृता मर्त्या यास्यन्ति तव लोकताम् ||
SP0220151ततो जटास्रुतं वारि गृहीत्वा हारनिर्मलम् |
SP0220152उक्त्वा नदी भवस्वेति विससर्ज महातपाः ||
SP0220161सा ततो दिव्यतोया च पुण्या मणिजला शुभा |
SP0220162हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता |
SP0220163पद्मोत्पलवनोपेता प्रावर्तत महानदी ||
SP0220171स्त्रीरूपधारिणी चैव प्राञ्जलिः शिरसा नता |
SP0220172पद्मोत्पलदलाभाक्षी महादेवमुपस्थिता ||
SP0220181तामुवाच ततो देवो नदीं स्वयमुपस्थिताम् |
SP0220182यस्माज्जटोदकाद्देवि प्रवृत्ता त्वं शुभानने |
SP0220183तस्माज्जटोदा नाम्ना त्वं भविष्यसि सरिद्वरा ||
SP0220191त्वयि स्नानं तु यः कुर्याच्छुचिः प्रयतमानसः |
SP0220192सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते ||
SP0220200सनत्कुमार उवाच |
SP0220201ततो देव्या महादेवो नन्दीश्वरमतिप्रभम् |
SP0220202पुत्रस्तेऽयमिति प्रोच्य पादयोस्तं व्यनामयत् ||
SP0220211सा तमाघ्राय शिरसि पाणिभ्यां परिमार्जती |
SP0220212पुत्रप्रेम्णाभ्यषिञ्चत्तं स्रोतोभिः स्तनजैस्त्रिभिः |
SP0220213पयसा शश्ण्खगौरेण देवी देवं निरीक्षती ||
SP0220221तानि स्रोतांसि त्रीण्यस्याः स्रुतान्योघवती नदी |
SP0220222नदीं त्रिस्रोतसीं पुण्यां ततस्तामवदद्धरः ||
SP0220231त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः |
SP0220232ननर्द नादात्तस्माच्च सरिदन्या ततोऽभवत् ||
SP0220241यस्माद्वृषभनादेन प्रवृत्ता सा महानदी |
SP0220242तस्माड्ढित्किरिकां तां वै उवाच वृषभध्वजः ||
SP0220251जाम्बूनदमयं चित्रं स्वं देवः परमाद्भुतम् |
SP0220252मुकुटं चाबबन्धास्मै कुण्डले चामृतोद्भवे ||
SP0220261तं तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघः प्रभाकरः |
SP0220262देवोपवाह्यः सिषिचे सनादः सतडिद्गुणः ||
SP0220271तस्याभिषिक्तस्य तदा प्रवृत्ते स्रोतसी भृशम् |
SP0220272यस्मात्सुवर्णान्निःसृत्य नद्येका सम्प्रवर्तत |
SP0220273स्वर्णोदकेति नाम्ना तां महादेवोऽभ्यभाषत ||
SP0220281जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभात् |
SP0220282प्रावर्तत नदी पुण्या ऊचुर्जम्बूनदीति ताम् ||
SP0220291एतत्पञ्चनदं नाम जप्येश्वरसमीपगम् |
SP0220292व्याख्यातं फलमेतासां जटोदायां महात्मना ||
SP0220301तच्च पञ्चनदं दिव्यं देवं जप्येश्वरं च तम् |
SP0220302त्रिरात्रोपोषितो गत्वा स्नात्वाभ्यर्च्य च शूलिनम् ||
SP0220311नन्दीश्वरस्यानुचरः क्षीरोदनिलयो भवेत् ||
SP0220321यस्तु जप्येश्वरे प्राणान्परित्यजति दुस्त्यजान् |
SP0220322नियमेनान्यथा वापि स मे गणपतिर्भवेत् ||
SP0220331नन्दीश्वरसमो नित्यः शाश्वतः अक्षयोऽव्ययः |
SP0220332मम पार्श्वादनपगः प्रियः संमत एव च ||
SP0220341जप्येश्वरं पञ्चनदं च तद्वै यो मानवोऽभ्येत्य जहाति देहम् |
SP0220342स मे सदा स्याद्गणपो वरिष्ठस्त्वया समः कान्तिवपुश्च नित्यम् ||
SP0229999इति स्कन्दपुराणे द्वाविंशतिमोऽध्यायः ||
स्कंदपुराण अध्याय २३
SP0240010सनत्कुमार उवाच |
SP0240011ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः |
SP0240012प्रणम्य देवं देवीं च इदं वचनमब्रुवन् ||
SP0240021भगवन्देवतारिघ्न देवदेवाम्बिकापते |
SP0240022किमर्थं वयमाहूता आज्ञापय कृतं हि तत् ||
SP0240031किं सागराञ्छोषयामो यमं वा सह किंकरैः |
SP0240032हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः ||
SP0240041बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना |
SP0240042आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः ||
SP0240051कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया |
SP0240052कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् ||
SP0240061तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः |
SP0240062उवाच देवः सम्पूज्य गणान्गणपतिर्भवः ||
SP0240070देव उवाच |
SP0240071शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः |
SP0240072श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशश्ण्किताः ||
SP0240081नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः |
SP0240082प्रियोऽग्रनायकश्चैव सेनानीर्वः समाहितः ||
SP0240091तमिमं मम संदेशाद्यूयं सर्वेऽभिसंमताः |
SP0240092सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम् ||
SP0240101अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः |
SP0240102प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः ||
SP0240110सनत्कुमार उवाच |
SP0240111एवमुक्ते भगवता गणपाः सर्व एव ते |
SP0240112एवमस्त्विति संमन्त्र्य सम्भारानाहरंस्ततः ||
SP0240121तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् |
SP0240122आसनं मेरुसंकाशं मनोरममथाहरन् ||
SP0240131शातकुम्भमयं चापि चारुचामीकरप्रभम् |
SP0240132मुक्तादामावलम्बं च मणिरत्नावभासितम् ||
SP0240141स्तम्भैश्च वैडूर्यमयैः किश्ण्किणीजालसंवृतम् |
SP0240142चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् |
SP0240143कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् ||
SP0240151तस्याग्रतः पादपीठं नीलं वज्रावभासितम् |
SP0240152चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ |
SP0240153सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ ||
SP0240161अग्रतोऽग्निं समाधाय वृषभं चापि पार्श्वतः |
SP0240162सवत्सां सुरभिं चापि तस्य पार्श्वेऽथ दक्षिणे ||
SP0240171छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् |
SP0240172शश्ण्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् ||
SP0240181व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् |
SP0240182मालां कुशेशयानां च भ्रमरावलिसेविताम् ||
SP0240191आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् |
SP0240192पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ ||
SP0240201स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् |
SP0240202कीचका वेणवश्चैव कन्या चैवाभिपूजिता ||
SP0240211ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ |
SP0240212ध्वजं च पूजितं दिव्यं शश्ण्खं चैवेन्दुवर्चसम् ||
SP0240221कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् |
SP0240222राजतानां सहस्रं च पार्थिवानां तथैव च ||
SP0240231ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् |
SP0240232वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च ||
SP0240241मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा |
SP0240242कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् ||
SP0240251पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च |
SP0240252जाम्बूनदमयं सूत्रं केयूरद्वयमेव च ||
SP0240261हारं च मणिचित्राश्ण्गं रोचनारुचकं तथा |
SP0240262_नलभां पारियात्रं च वर्षं कश्ण्कणिमेव च||
SP0240271दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च |
SP0240272समन्तान्निन्युरव्यग्रा गणपा देवसंमताः ||
SP0240281ततो दिशः समुद्राश्च वरुणः सधनेश्वरः |
SP0240282यमोऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह ||
SP0240291तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा |
SP0240292रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः ||
SP0240301गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा |
SP0240302पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा ||
SP0240311वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः |
SP0240312नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः ||
SP0240321लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च |
SP0240322भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः ||
SP0240331तीर्थानि चैव सर्वाणि दानानि विविधानि च |
SP0240332ऋचो यजूंषि सामानि अथर्वाश्ण्गिरसावपि ||
SP0240341यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा |
SP0240342छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः |
SP0240343ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा ||
SP0240351तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः |
SP0240352सर्वकार्यविधिं कर्तुमादिदेश पितामहम् ||
SP0240361एकैकं कलशं तत्र सर्वौषधिसमन्वितम् |
SP0240362कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम् ||
SP0240371जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च |
SP0240372सुवर्चलां शश्ण्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् ||
SP0240381कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि |
SP0240382आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् ||
SP0240391तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः |
SP0240392पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः ||
SP0240401सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च |
SP0240402दानानि चैव सर्वाणि भगवान्संन्यवेशयत् ||
SP0240411राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह |
SP0240412क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् ||
SP0240421औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा |
SP0240422तपांसि नियमांश्चैव भगवानभ्यविन्यसत् ||
SP0240431एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च |
SP0240432वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः ||
SP0240441स जग्राह तदा ब्रह्मा एकं कलशमात्मना |
SP0240442विष्णवे च ददावेकमेकमिन्द्राय धीमते |
SP0240443गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः ||
SP0240451ततस्तमासने तस्मिन्नुपवेश्य महामनाः |
SP0240452अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत ||
SP0240461ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः |
SP0240462गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम् ||
SP0240471वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च |
SP0240472केयूरे कुण्डले चैव मुकुटं हारमेव च |
SP0240473पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम् ||
SP0240481छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च |
SP0240482ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ||
SP0240490विष्णुरुवाच |
SP0240491नमः कुष्माण्डराजाय वज्रोद्यतकराय च |
SP0240492शालश्ण्कायनपौत्राय हलमार्गोत्थिताय च ||
SP0240501शिलादस्य च पुत्राय रुद्रजप्यकराय च |
SP0240502रुद्रभक्ताय देवाय नमोऽन्तर्जलशायिने ||
SP0240511गणानां पतये चैव भूतानां पतये नमः |
SP0240512उमापुत्राय देवाय पट्टिसायुधधारिणे ||
SP0240521नमो दंष्ट्राकरालाय ललाटनयनाय च |
SP0240522प्रमथाय वरेण्याय ईशानायार्पिताय च ||
SP0240531द्वाराध्यक्षाय शूराय सुयशापतये नमः |
SP0240532नमः प्रवरमालाय क्षीरोदनिलयाय च ||
SP0240541महागणाधिपतये महायोगेश्वराय च |
SP0240542दिण्डिमुण्डाय चण्डाय एकाक्षररताय च ||
SP0240551अक्षयायामृतायैव अजरायामराय च |
SP0240552पशूनां पतये चैव जेत्रे मृत्योस्तथैव च ||
SP0240561नमः पवनवेगाय सर्वज्ञायाजिताय च |
SP0240562अनेकशिरसे चैव अनेकचरणाय च ||
SP0240571किरीटिने कुण्डलिने महापरिघबाहवे |
SP0240572सर्वान्देवान्गणांश्चैव पाहि देव नमोऽस्तु ते ||
SP0240580सनत्कुमार उवाच |
SP0240581एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने |
SP0240582प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह ||
SP0240591ततो गणा जयेत्यूचुस्ततो देवास्ततोऽसुराः |
SP0240592ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च ||
SP0240601ततः शश्ण्खांश्च भेरींश्च पटहाडम्बरांस्तथा |
SP0240602वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान् ||
SP0240611दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः |
SP0240612अवादयन्त गणपा हर्षयन्तो मुदा युताः ||
SP0240620सनत्कुमार उवाच |
SP0240621नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् |
SP0240622पठेत सततं मर्त्यः स गच्छेन्मम लोकताम् ||
SP0240631नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् |
SP0240632तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ||
SP0240641यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः |
SP0240642न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा ||
SP0240651नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः |
SP0240652ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति ||
SP0249999इति स्कन्दपुराणे चतुर्विंशतिमोऽध्यायः ||
स्कंदपुराण अध्याय २४
SP0240010सनत्कुमार उवाच |
SP0240011ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः |
SP0240012प्रणम्य देवं देवीं च इदं वचनमब्रुवन् ||
SP0240021भगवन्देवतारिघ्न देवदेवाम्बिकापते |
SP0240022किमर्थं वयमाहूता आज्ञापय कृतं हि तत् ||
SP0240031किं सागराञ्छोषयामो यमं वा सह किंकरैः |
SP0240032हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः ||
SP0240041बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना |
SP0240042आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः ||
SP0240051कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया |
SP0240052कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् ||
SP0240061तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः |
SP0240062उवाच देवः सम्पूज्य गणान्गणपतिर्भवः ||
SP0240070देव उवाच |
SP0240071शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः |
SP0240072श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशश्ण्किताः ||
SP0240081नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः |
SP0240082प्रियोऽग्रनायकश्चैव सेनानीर्वः समाहितः ||
SP0240091तमिमं मम संदेशाद्यूयं सर्वेऽभिसंमताः |
SP0240092सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम् ||
SP0240101अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः |
SP0240102प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः ||
SP0240110सनत्कुमार उवाच |
SP0240111एवमुक्ते भगवता गणपाः सर्व एव ते |
SP0240112एवमस्त्विति संमन्त्र्य सम्भारानाहरंस्ततः ||
SP0240121तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् |
SP0240122आसनं मेरुसंकाशं मनोरममथाहरन् ||
SP0240131शातकुम्भमयं चापि चारुचामीकरप्रभम् |
SP0240132मुक्तादामावलम्बं च मणिरत्नावभासितम् ||
SP0240141स्तम्भैश्च वैडूर्यमयैः किश्ण्किणीजालसंवृतम् |
SP0240142चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् |
SP0240143कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् ||
SP0240151तस्याग्रतः पादपीठं नीलं वज्रावभासितम् |
SP0240152चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ |
SP0240153सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ ||
SP0240161अग्रतोऽग्निं समाधाय वृषभं चापि पार्श्वतः |
SP0240162सवत्सां सुरभिं चापि तस्य पार्श्वेऽथ दक्षिणे ||
SP0240171छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् |
SP0240172शश्ण्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् ||
SP0240181व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् |
SP0240182मालां कुशेशयानां च भ्रमरावलिसेविताम् ||
SP0240191आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् |
SP0240192पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ ||
SP0240201स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् |
SP0240202कीचका वेणवश्चैव कन्या चैवाभिपूजिता ||
SP0240211ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ |
SP0240212ध्वजं च पूजितं दिव्यं शश्ण्खं चैवेन्दुवर्चसम् ||
SP0240221कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् |
SP0240222राजतानां सहस्रं च पार्थिवानां तथैव च ||
SP0240231ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् |
SP0240232वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च ||
SP0240241मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा |
SP0240242कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् ||
SP0240251पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च |
SP0240252जाम्बूनदमयं सूत्रं केयूरद्वयमेव च ||
SP0240261हारं च मणिचित्राश्ण्गं रोचनारुचकं तथा |
SP0240262_नलभां पारियात्रं च वर्षं कश्ण्कणिमेव च||
SP0240271दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च |
SP0240272समन्तान्निन्युरव्यग्रा गणपा देवसंमताः ||
SP0240281ततो दिशः समुद्राश्च वरुणः सधनेश्वरः |
SP0240282यमोऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह ||
SP0240291तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा |
SP0240292रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः ||
SP0240301गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा |
SP0240302पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा ||
SP0240311वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः |
SP0240312नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः ||
SP0240321लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च |
SP0240322भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः ||
SP0240331तीर्थानि चैव सर्वाणि दानानि विविधानि च |
SP0240332ऋचो यजूंषि सामानि अथर्वाश्ण्गिरसावपि ||
SP0240341यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा |
SP0240342छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः |
SP0240343ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा ||
SP0240351तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः |
SP0240352सर्वकार्यविधिं कर्तुमादिदेश पितामहम् ||
SP0240361एकैकं कलशं तत्र सर्वौषधिसमन्वितम् |
SP0240362कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम् ||
SP0240371जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च |
SP0240372सुवर्चलां शश्ण्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् ||
SP0240381कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि |
SP0240382आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् ||
SP0240391तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः |
SP0240392पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः ||
SP0240401सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च |
SP0240402दानानि चैव सर्वाणि भगवान्संन्यवेशयत् ||
SP0240411राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह |
SP0240412क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् ||
SP0240421औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा |
SP0240422तपांसि नियमांश्चैव भगवानभ्यविन्यसत् ||
SP0240431एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च |
SP0240432वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः ||
SP0240441स जग्राह तदा ब्रह्मा एकं कलशमात्मना |
SP0240442विष्णवे च ददावेकमेकमिन्द्राय धीमते |
SP0240443गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः ||
SP0240451ततस्तमासने तस्मिन्नुपवेश्य महामनाः |
SP0240452अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत ||
SP0240461ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः |
SP0240462गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम् ||
SP0240471वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च |
SP0240472केयूरे कुण्डले चैव मुकुटं हारमेव च |
SP0240473पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम् ||
SP0240481छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च |
SP0240482ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ||
SP0240490विष्णुरुवाच |
SP0240491नमः कुष्माण्डराजाय वज्रोद्यतकराय च |
SP0240492शालश्ण्कायनपौत्राय हलमार्गोत्थिताय च ||
SP0240501शिलादस्य च पुत्राय रुद्रजप्यकराय च |
SP0240502रुद्रभक्ताय देवाय नमोऽन्तर्जलशायिने ||
SP0240511गणानां पतये चैव भूतानां पतये नमः |
SP0240512उमापुत्राय देवाय पट्टिसायुधधारिणे ||
SP0240521नमो दंष्ट्राकरालाय ललाटनयनाय च |
SP0240522प्रमथाय वरेण्याय ईशानायार्पिताय च ||
SP0240531द्वाराध्यक्षाय शूराय सुयशापतये नमः |
SP0240532नमः प्रवरमालाय क्षीरोदनिलयाय च ||
SP0240541महागणाधिपतये महायोगेश्वराय च |
SP0240542दिण्डिमुण्डाय चण्डाय एकाक्षररताय च ||
SP0240551अक्षयायामृतायैव अजरायामराय च |
SP0240552पशूनां पतये चैव जेत्रे मृत्योस्तथैव च ||
SP0240561नमः पवनवेगाय सर्वज्ञायाजिताय च |
SP0240562अनेकशिरसे चैव अनेकचरणाय च ||
SP0240571किरीटिने कुण्डलिने महापरिघबाहवे |
SP0240572सर्वान्देवान्गणांश्चैव पाहि देव नमोऽस्तु ते ||
SP0240580सनत्कुमार उवाच |
SP0240581एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने |
SP0240582प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह ||
SP0240591ततो गणा जयेत्यूचुस्ततो देवास्ततोऽसुराः |
SP0240592ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च ||
SP0240601ततः शश्ण्खांश्च भेरींश्च पटहाडम्बरांस्तथा |
SP0240602वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान् ||
SP0240611दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः |
SP0240612अवादयन्त गणपा हर्षयन्तो मुदा युताः ||
SP0240620सनत्कुमार उवाच |
SP0240621नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् |
SP0240622पठेत सततं मर्त्यः स गच्छेन्मम लोकताम् ||
SP0240631नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् |
SP0240632तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ||
SP0240641यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः |
SP0240642न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा ||
SP0240651नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः |
SP0240652ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति ||
SP0249999इति स्कन्दपुराणे चतुर्विंशतिमोऽध्यायः ||
स्कंदपुराण अध्याय २५
SP0250010सनत्कुमार उवाच |
SP0250011ततस्तत्रागतान्देवान्देवताधिपतिर्भवः |
SP0250012मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः ||
SP0250021मरुतो ये महावेगा महासत्त्वा महौजसः |
SP0250022आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः ||
SP0250031युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी |
SP0250032दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः ||
SP0250040मरुत ऊचुः |
SP0250041त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा |
SP0250042प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि ||
SP0250051त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा |
SP0250052मा नः परानिवेशान याचनेन विभावय ||
SP0250061पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः |
SP0250062पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः |
SP0250063स त्वं पितामहोऽस्माकं न परान्कर्तुमर्हसि ||
SP0250071स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः |
SP0250072सुयशां मरुतां कन्यामानयामास तत्क्षणात् ||
SP0250081स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः |
SP0250082कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ |
SP0250083अथर्वाश्ण्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः ||
SP0250091नारदः पर्वतश्चैव चित्रसेनश्च गायनः |
SP0250092विश्वावसू रुचिश्चैव हाहा हूहू तथैव च ||
SP0250101तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः |
SP0250102ईतिश्चैवेन्द्रवाहश्च यज्ञवाहोऽथ दक्षिणः |
SP0250103एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः ||
SP0250111उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि |
SP0250112तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः |
SP0250113अनृत्यन्त महाभागा नृत्तं सुरमनोहरम् ||
SP0250120सनत्कुमार उवाच |
SP0250121स एवमभवद्व्यास विवाहस्तस्य धीमतः |
SP0250122नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः ||
SP0250131ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः |
SP0250132पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च |
SP0250133शिलादस्य च लोकेशः श्रिया परमया युतः ||
SP0250140देव उवाच |
SP0250141वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया |
SP0250142वरं ददामि ते वत्स अनया सहमीप्सितम् ||
SP0250150नन्द्युवाच |
SP0250151भगवन्यदि तुष्टोऽसि त्वयि भक्तिर्दृढास्तु मे |
SP0250152सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः ||
SP0250161पितरं चैव मे देव उत्पादकमिमं प्रभो |
SP0250162अनुग्रहेण युक्तेन योक्तुमर्हसि कामद ||
SP0250170देव उवाच |
SP0250171सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः |
SP0250172पार्वत्या सहितो धीमन्निदं च शृणु मे वचः ||
SP0250181सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः |
SP0250182महायोगी महेष्वासो महाबलपराक्रमः ||
SP0250191अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव |
SP0250192अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् ||
SP0250201अयं च ते पिता विप्रः परमैश्वर्यसंयुतः |
SP0250202भविष्यति गणाध्यक्षो महागणपतिर्मम ||
SP0250211पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम् |
SP0250212उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम् |
SP0250213तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम् ||
SP0250221स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम् |
SP0250222भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः |
SP0250223स कामचारी वैभ्राजे गणपोऽस्य भविष्यति ||
SP0250230सनत्कुमार उवाच |
SP0250231ततो देवी महाभागा शैलादेरददद्वरम् |
SP0250232सोऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत् ||
SP0250241ततो मरुत्सुता चैव उभाभ्यामपि चोदिता |
SP0250242वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह ||
SP0250251युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि |
SP0250252नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा |
SP0250253एतदिच्छामि देवेशौ वरं वरसहस्रदौ ||
SP0250260सनत्कुमार उवाच |
SP0250261ततस्तावेवमेतत्ते भवितेति शुचिस्मिते |
SP0250262ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम् ||
SP0250271गणाश्चास्य ततोऽभ्येत्य सर्वे देवप्रियेप्सया |
SP0250272वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः ||
SP0250281युष्मासु मम भक्तिश्च ऐश्वर्यं चापि संमतम् |
SP0250282वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च ||
SP0250290गणा ऊचुः |
SP0250291भवान्मन्तानुमन्ता च गतिरागतिरेव च |
SP0250292अस्माकमीशः सर्वेषां देवानामपि चेश्वरः ||
SP0250301कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः |
SP0250302ईतीनां द्वारपालश्च प्रमथानां तथैव च ||
SP0250311महाबलो महायोगी सेनानीस्त्वं हि नो मतः |
SP0250312त्वं भूतो भूतनेता च नायकोऽथ विनायकः ||
SP0250321ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा |
SP0250322त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः ||
SP0250331महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह |
SP0250332जप्येश्वरनिकेतश्च जप्येश्वरविभावितः ||
SP0250341भावनः सर्वभूतानां वरदो वरदार्चितः |
SP0250342अस्माकं वरदश्चैव भव भूतेश्वर प्रभो ||
SP0250350सनत्कुमार उवाच |
SP0250351स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः |
SP0250352उवाच प्रणतः सर्वान्ब्रूत किं करवाणि वः ||
SP0250361त एवमुक्ता गणपाः सर्व एव महाबलाः |
SP0250362ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ ||
SP0250371त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना |
SP0250372अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः ||
SP0250381स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि |
SP0250382क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा ||
SP0250390सनत्कुमार उवाच |
SP0250391एवमुक्तस्तदा सर्वान्प्रणम्य बहुमानतः |
SP0250392शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा ||
SP0250400नन्द्युवाच |
SP0250401नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च |
SP0250402नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा ||
SP0250411नमः कामचरेभ्यश्च नम उग्रेभ्य एव च |
SP0250412मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः ||
SP0250421नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च |
SP0250422नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च ||
SP0250431नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः |
SP0250432नमो वोऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च ||
SP0250441नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च |
SP0250442नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः ||
SP0250451धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः |
SP0250452नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः ||
SP0250461नमः शरभरूपेभ्यः शतरूपेभ्य एव च |
SP0250462नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च ||
SP0250471नमो मार्जाररूपेभ्यः काककोकेभ्य एव च |
SP0250472नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च ||
SP0250481नमोऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च |
SP0250482नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च ||
SP0250491नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च |
SP0250492नमो वामनरूपेभ्यो वामरूपेभ्य एव च ||
SP0250501देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः |
SP0250502नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः ||
SP0250511ग्रहेभ्यश्च नमो वोऽस्तु मोक्षेभ्यश्च नमस्तथा |
SP0250512शुभेभ्यश्च नमो वोऽस्तु अशुभेभ्यस्तथैव च |
SP0250513मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः ||
SP0250521इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः |
SP0250522दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां च संयुगे ||
SP0250531तपोऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु धर्मनित्यताम् |
SP0250532दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां तथा ||
SP0250540सनत्कुमार उवाच |
SP0250541इमौ नन्दिगणेन्द्राणां स्तवौ योऽध्येति नित्यशः |
SP0250542सोऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते ||
SP0250551सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम् |
SP0250552पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन् ||
SP0250560सनत्कुमार उवाच |
SP0250561ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता |
SP0250562निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम् ||
SP0250571देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः |
SP0250572सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः |
SP0250573ईप्सितं सह देव्या वै जगाम स्थानमव्ययम् ||
SP0250581य इमं नन्दिनो जन्म वरदानं तथैव च |
SP0250582अभिषेकं विवाहं च पठेद्वा श्रावयीत वा |
SP0250583ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम् ||
SP0250591यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या |
SP0250592सोऽपि गतः परलोकविचारी नन्दिसमोऽनुचरो हि मम स्यात् ||
SP0259999इति स्कन्दपुराणे पञ्चविंशतिमोऽध्यायः ||
Text available at Institute of Indian Studies of the University of Groningen
http://www.theol.rug.nl/~bakker/sp.htm
Adhyaaya 26-52 are in preparation.
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com