.. श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम् ..
.. श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम् ..
ऋषय ऊचुः -
सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक .
वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत .. १..
ज्ञानदानेन संसारसागरात्तारयस्व नः .
कलौ कलुषचित्ता ये नराः पापरताः सदा .. २..
केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनैः .
इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् .. ३..
सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि .
श्रीसूत उवाच -
शृणुध्वमृषयः सर्वे नैमिषारण्यवासिनः .. ४..
तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः .
स्वयंभुवा पुरा प्रोक्तं नारदाय महात्मने .. ५..
तदहं संप्रवक्ष्यामि श्रोतुं कौतूहलं यदि .
ऋषय ऊचुः -
किमाह भगवान्ब्रह्मा नारदाय महात्मने .. ६..
सूतपुत्र महाभाग वक्तुमर्हसि सांप्रतम् .
श्रीसूत उवाच -
दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतम् .. ७..
साष्टाङ्गप्रणिपत्यैनं ब्रह्माणं भुवनेश्वरम् .
नारदः परिपप्रच्छ कृताञ्जलिरुपस्थितः .. ८..
नारद उवाच -
लोकनाथ सुरश्रेष्ठ सर्वज्ञकरुणाकर .
षण्मुखस्य परं स्तोत्रं पावनं पापनाशनम् .. ९..
धातस्त्वं पुत्रवात्सल्यात्तद्वद प्रणताय मे .
उपदिश्य तु मां देव रक्ष रक्ष कृपानिधे .. १०..
ब्रह्मा उवाच -
शृणु वक्ष्यामि देवर्षे स्तवराजमिमं परम् .
मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् .. ११..
सहस्राणि च नामानि षण्मुखस्य महात्मनः .
यानि नामानि दिव्यानि दुःखरोगहराणि च .. १२..
तानि नामानि वक्ष्यामि कृपया त्वयि नारद .
जपमात्रेण सिध्यन्ति मनसा चिन्तितान्यपि .. १३..
इहामुत्रं परं भोगं लभते नात्र संशयः .
इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् .
सन्देहो नात्र कर्तव्यः शृणु मे निश्चितं वचः .. १४..
ॐ अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्रमहामन्त्रस्य .
ब्रह्मा ऋषिः . अनुष्टुप्छन्दः . सुब्रह्मण्यो देवता .
शरजन्माक्षय इति बीजम् . शक्तिधरोऽक्षय इति शक्तिः .
कार्तिकेय इति कीलकम् . क्रौचंभेदीत्यर्गलम् .
शिखिवाहन इति कवचम् . षण्मुख इति ध्यानम् .
श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः .
ध्यानम् -
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितम् .
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् .. १..
कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितम् .
काञ्चीकङ्कणकिंकिणीरवयुतं शृङ्गारसारोदयम् .. २..
ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् .
खेटं कुक्कुटमंकुशं च वरदं पाशं धनुश्चक्रकम् ..
३..
वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखम् .
देवं चित्रमयूरवाहनगतं चित्राम्बरालंकृतम् .. ४..
.. सुब्रह्मण्य सहस्रनाम स्तोत्रम् ..
अचिन्त्यशक्तिरनघस्त्वक्षोभ्यस्त्वपराजितः .
अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः .. १..
अत्युदारो ह्यघहरस्त्वग्रगण्योऽद्रिजासुतः .
अनन्तमहिमाऽपारोऽनन्तसौख्यप्रदोऽव्ययः .. २..
अनन्तमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः .
अकल्मषोऽभिरामोऽग्रधुर्यश्चामितविक्रमः .. ३..
अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः .
अरिन्दमोऽखिलाधारस्त्वणिमादिगुणोऽग्रणीः .. ४..
अचञ्चलोऽमरस्तुत्यो ह्यकलङ्कोऽमिताशनः .
अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः .. ५..
अतीन्द्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः .
आपद्विनाशकस्त्वार्य आढ्य आगमसंस्तुतः .. ६..
आर्तसंरक्षणस्त्वाद्य आनन्दस्त्वार्यसेवितः .
आश्रितेष्टार्थवरद आनन्द्यार्तफलप्रदः .. ७..
आश्चर्यरूप आनन्द आपन्नार्तिविनाशनः .
इभवक्त्रानुजस्त्विष्ट इभासुरहरात्मजः .. ८..
इतिहासश्रुतिस्तुत्य इन्द्रभोगफलप्रदः .
इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः .. ९..
इहामुत्रेष्टफलद इष्टदस्त्विन्द्रवन्दितः .
ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः .. १०..
ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः .
उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः .. ११..
उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः .
उज्जृम्भ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः .. १२..
उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः .
उरुप्रभावश्चोदीर्ण उमापुत्र उदारधीः .. १३..
ऊर्ध्वरेतःसुतस्तूर्ध्वगतिदस्तूर्जपालकः .
ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः .. १४..
ऊर्जिवानूर्जितोदार ऊर्जितोर्जितशासनः .
ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः .. १५..
ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शनः .
ऋतंभरो ह्यृजुप्रीत ऋषभस्त्वृद्धिदस्त्वृतः .. १६..
लुलितोद्धारको लूतभवपाशप्रभञ्जनः .
एणाङ्कधरसत्पुत्र एक एनोविनाशनः .. १७..
ऐश्वर्यदश्चैन्द्रभोगी चैतिह्यश्चैन्द्रवन्दितः .
ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः .. १८..
औदार्यशील औमेय औग्र औन्नत्यदायकः .
औदार्य औषधकर औषधं चौषधाकरः .. १९..
अंशुमाल्यंशुमालीड्य अम्बिकातनयोऽन्नदः .
अन्धकारिसुतोऽन्धत्वहारी चाम्बुजलोचनः .. २०..
अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः .
अस्तामित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः .. २१..
कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः .
कामदः कारणं काम्यः कमनीयः कृपाकरः .. २२..
काञ्चनाभः कान्तियुक्तः कामी कामप्रदः कविः .
कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः .. २३..
कुङ्कुमाङ्गः क्लमहरः कुशलः कुक्कुटध्वजः .
कुशानुसंभवः क्रूरः क्रूरघ्नः कलितापहृत् .. २४..
कामरूपः कल्पतरुः कान्तः कामितदायकः .
कल्याणकृत्क्लेशनाशः कृपालुः करुणाकरः .. २५..
कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृती .
कोमलाङ्गः कुशप्रीतः कुत्सितघ्नः कलाधरः .. २६..
ख्यातः खेटधरः खड्गी खट्वाङ्गी खलनिग्रहः .
ख्यातिप्रदः खेचरेशः ख्यातेहः खेचरस्तुतः .. २७..
खरतापहरः स्वस्थः खेचरः खेचराश्रयः .
खण्डेन्दुमौलितनयः खेलः खेचरपालकः .. २८..
खस्थलः खण्डितार्कश्च खेचरीजनपूजितः .
गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः .. २९..
गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः .
गतिप्रदो गुणनिधिः गम्भीरो गिरिजात्मजः .. ३०..
गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः .
गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः .. ३१..
गुह्यो गुणज्ञो गीतिज्ञो गतातङ्को गुणाश्रयः .
गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः .. ३२..
गणनीयचरित्रश्च गतक्लेशो गुणार्णवः .
घूर्णिताक्षो घृणिनिधिः घनगम्भीरघोषणः .. ३३..
घण्टानादप्रियो घोषो घोराघौघविनाशनः .
घनानन्दो घर्महन्ता घृणावान् घृष्टिपातकः .. ३४..
घृणी घृणाकरो घोरो घोरदैत्यप्रहारकः .
घटितैश्वर्यसंदोहो घनार्थो घनसंक्रमः .. ३५..
चित्रकृच्चित्रवर्णश्च चञ्चलश्चपलद्युतिः .
चिन्मयश्चित्स्वरूपश्च चिरानन्दश्चिरंतनः .. ३६..
चित्रकेलिश्चित्रतरश्चिन्तनीयश्चमत्कृतिः .
चोरघ्नश्चतुरश्चारुश्चामीकरविभूषणः .. ३७..
चन्द्रार्ककोटिसदृशश्चन्द्रमौलितनूभवः .
छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः .. ३८..
छेदीकृततमःक्लेशश्छत्रीकृतमहायशाः .
छादिताशेषसंतापश्छरितामृतसागरः .. ३९..
छन्नत्रैगुण्यरूपश्च छातेहश्छिन्नसंशयः .
छन्दोमयश्छन्दगामी छिन्नपाशश्छविश्छदः .. ४०..
जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः .
जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः .. ४१..
जयी जितेन्द्रियो जैत्रो जरामरणवर्जितः .
ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः .. ४२..
जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः .
जम्भारिवन्द्यो जयदो जगञ्जनमनोहरः .. ४३..
जगदानन्दजनको जनजाड्यापहारकः .
जपाकुसुमसंकाशो जनलोचनशोभनः .. ४४..
जनेश्वरो जितक्रोधो जनजन्मनिबर्हणः .
जयदो जन्तुतापघ्नो जितदैत्यमहाव्रजः .. ४५..
जितमायो जितक्रोधो जितसङ्गो जनप्रियः .
झंझानिलमहावेगो झरिताशेषपातकः .. ४६..
झर्झरीकृतदैत्यौघो झल्लरीवाद्यसंप्रियः .
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः .. ४७..
टंकारनृत्तविभवः टंकवज्रध्वजाङ्कितः .
टंकिताखिललोकश्च टंकितैनस्तमोरविः .. ४८..
डम्बरप्रभवो डम्भो डम्बो डमरुकप्रियः .
डमरोत्कटसन्नादो डिंभरूपस्वरूपकः .. ४९..
ढक्कानादप्रीतिकरो ढालितासुरसंकुलः .
ढौकितामरसंदोहो ढुण्डिविघ्नेश्वरानुजः .. ५०..
तत्त्वज्ञस्तत्वगस्तीव्रस्तपोरूपस्तपोमयः .
त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः .. ५१..
त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः .
तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् .. ५२..
स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तुतिप्रियः .
स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः .. ५३..
स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः .
दान्तो दयापरो दाता दुरितघ्नो दुरासदः .. ५४..
दर्शनीयो दयासारो देवदेवो दयानिधिः .
दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः .. ५५..
दुर्धरो दानशीलश्च द्वादशाक्षो द्विषड्भुजः .
द्विषट्कर्णो द्विषड्बाहुर्दीनसंतापनाशनः .. ५६..
दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः .
दीर्घवृत्तो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः .. ५७..
दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः .
दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमण्डनः .. ५८..
दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशांपतिः .
दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः .. ५९..
दम्भो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिन्तकः .
धुरंधरो धर्मपरो धनदो धृतिवर्धनः .. ६०..
धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः .
धनाध्यक्षो धनपतिर्धृतिमान्धूतकिल्बिषः .. ६१..
धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद् ध्रुवः .
धाता धीमान्धर्मचारी धन्यो धुर्यो धृतव्रतः .. ६२..
नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः .
निरवद्यो निराधारो निष्कलङ्को निरञ्जनः .. ६३..
निर्ममो निरहंकारो निर्मोहो निरुपद्रवः .
नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः .. ६४..
निरवद्यो निरीहश्च निर्दर्शो निर्मलात्मकः .
नित्यानन्दो निर्जरेशो निःसङ्गो निगमस्तुतः .. ६५..
निष्कण्टको निरालम्बो निष्प्रत्यूहो निरुद्भवः .
नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः .. ६६..
नेता निधिर्नैकरूपो निराकारो नदीसुतः .
पुलिन्दकन्यारमणः पुरुजित्परमप्रियः .. ६७..
प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः .
पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः .. ६८..
पुण्योदयः परं ज्योतिः पुण्यकृत्पुण्यवर्धनः .
परानन्दः परतरः पुण्यकीर्तिः पुरातनः .. ६९..
प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः .
प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः .. ७०..
पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः .
प्रसन्नः परमस्पष्टः परः परिवृढः परः .. ७१..
परमात्मा परब्रह्म परार्थः प्रियदर्शनः .
पवित्रः पुष्टिदः पूर्तिः पिङ्गलः पुष्टिवर्धनः .. ७२..
पापहारी पाशधरः प्रमत्तासुरशिक्षकः .
पावनः पावकः पूज्यः पूर्णानन्दः परात्परः .. ७३..
पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः .
प्राणदः प्राणिजनकः प्रदिष्टः पावकोद्भवः .. ७४..
परब्रह्मस्वरूपश्च परमैश्वर्यकारणम् .
परर्द्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् .. ७५..
प्रज्ञापरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः .
फणीश्वरः फणिवरः फणामणिविभूषणः .. ७६..
फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः .
फडुच्चाटितपापौघः फणिलोकविभूषणः .. ७७..
बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बली .
ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः .. ७८..
बालरूपो ब्रह्मगर्भो ब्रह्मचारी बुधप्रियः .
बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः .. ७९..
बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः .
बृहद्भानुतनूद्भूतो बृहत्सेनो बिलेशयः .. ८०..
बहुबाहुर्बलश्रीमान् बहुदैत्यविनाशकः .
बिलद्वारान्तरालस्थो बृहच्छक्तिधनुर्धरः .. ८१..
बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः .
भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः .. ८२..
भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः .
भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः .. ८३..
भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः .
भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः .. ८४..
भावको भीकरो भीष्मो भावकेष्टो भवोद्भवः .
भवतापप्रशमनो भोगवान् भूतभावनः .. ८५..
भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः .
भूरिभोओगप्रदो भद्रो भजनीयो भिषग्वरः .. ८६..
महासेनो महोदारो महाशक्तिर्महाद्युतिः .
महाबुद्धिर्महावीर्यो महोत्साहो महाबलः .. ८७..
महाभोगी महामायी मेधावी मेखली महान् .
मुनिस्तुतो महामान्यो महानन्दो महायशाः .. ८८..
महोर्जितो माननिधिर्मनोरथफलप्रदः .
महोदयो महापुण्यो महाबलपराक्रमः .. ८९..
मानदो मतिदो माली मुक्तामालाविभूषणः .
मनोहरो महामुख्यो महर्द्धिर्मूर्तिमान्मुनिः .. ९०..
महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः .
मुदाकरो मुक्तिदाता महाभोगो महोरगः .. ९१..
यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः .
यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी .. ९२..
यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः .
यन्त्रो यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रवाहकः .. ९३..
यातनारहितो योगी योगीशो योगिनां वरः .
रमणीयो रम्यरूपो रसज्ञो रसभावनः .. ९४..
रञ्जनो रञ्जितो रागी रुचिरो रुद्रसंभवः .
रणप्रियो रणोदारो रागद्वेषविनाशनः .. ९५..
रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः .
रत्नाङ्गदधरो रत्नभूषणो रमणीयकः .. ९६..
रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः .
राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः .. ९७..
राजद्वेदागमस्तुत्यो रजःसत्त्वगुणान्वितः .
रजनीशकलारम्यो रत्नकुण्डलमण्डितः .. ९८..
रत्नसन्मौलिशोभाढ्यो रणन्मञ्जीरभूषणः .
लोकैकनाथो लोकेशो ललितो लोकनायकः .. ९९..
लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः .
लोकबन्धुर्लोकधाता लोकत्रयमहाहितः .. १००..
लोकचूडामणिर्लोकवन्द्यो लावण्यविग्रहः .
लोकाध्यक्षस्तु लीलावान्लोकोत्तरगुणान्वितः .. १०१..
वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः .
विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः .. १०२..
विपाशो विगतातङ्को विचित्राङ्गो विरोचनः .
विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः .. १०३..
वचस्करो व्यापकश्च विज्ञानी विनयान्वितः .
विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् .. १०४..
वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः .
विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः .. १०५..
वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् .
विश्वकर्मा वीतभयो वागीशो वासवार्चितः .. १०६..
वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वरासनः .
विशाखो विमलो वाग्मी विद्वान्वेदधरो वटुः .. १०७..
वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः .
विजयी विनयी वेत्ता वरीयान्विरजा वसुः .. १०८..
वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी .
वरशीलो वरगुणो विशोको वज्रधारकः .. १०९..
शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः .
श्रीमान्शिष्टः शुचिः शुद्धः शाश्वतो श्रुतिसागरः .. ११०..
शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः .
शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः .. १११..
शितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः .
षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः .. ११२..
षट्चक्रस्थः षडूर्मिघ्नः षडङ्गश्रुतिपारगः .
षड्भावरहितः षट्कः षट्शास्त्रस्मृतिपारगः .. ११३..
षड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः .
षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः .. ११४..
षट्कोणमध्यनिलयः षण्डत्वपरिहारकः .
सेनानीः सुभगः स्कन्दः सुरानन्दः सतां गतिः .. ११५..
सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी .
सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः .. ११६..
सिद्धार्थः सिद्धसंकल्पः सिद्धसाधुः सुरेश्वरः .
सुभुजः सर्वदृक्साक्षी सुप्रसादः सनातनः .. ११७..
सुधापतिः स्वयंज्योतिः स्वयंभूः सर्वतोमुखः .
समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुहृत् .. ११८..
सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः .
संभाव्यः सुमनाः सेव्यः सकलागमपारगः .. ११९..
सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः .
सर्वलक्षणसंपन्नः सत्यधर्मपरायणः .. १२०..
सर्वदेवमयः सत्यः सदा मृष्टान्नदायकः .
सुधापी सुमतिः सत्यः सर्वविघ्नविनाशनः .. १२१..
सर्वदुःखप्रशमनः सुकुमारः सुलोचनः .
सुग्रीवः सुधृतिः सारः सुराराध्यः सुविक्रमः .. १२२..
सुरारिघ्नः स्वर्णवर्णः सर्पराजः सदा शुचिः .
सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः .. १२३..
हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः .
हस्तचित्रायुधधरो हृताघो हसिताननः .. १२४..
हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः .
हेमाद्रिभिद्धंसरूपो हुंकारहतकिल्बिषः .. १२५..
हिमाद्रिजातातनुजो हरिकेशो हिरण्मयः .
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः .. १२६..
हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः .
हरप्रियो हितकरो हतपापो हरोद्भवः .. १२७..
क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः .
क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रः क्षमाकरः .. १२८..
क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः .
क्षालिताघः क्षितिधरः क्षीणसंरक्षणक्षमः .. १२९..
क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकः .
क्षितिभृन्नाथतनयामुखपङ्कजभास्करः .. १३०..
क्षताहितः क्षरः क्षन्ता क्षतदोषः क्षमानिधिः .
क्षपिताखिलसंतापः क्षपानाथसमाननः .. १३१..
इति नाम्नां सहस्राणि षण्मुखस्य च नारद .
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा .. १..
स सद्यो मुच्यते पापैर्मनोवाक्कायसंभवैः .
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् .. २..
वाक्येनैकेन वक्ष्यामि वाञ्छितार्थ प्रयच्छति .
तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः .. ३..
.. इति श्रीस्कान्दे महापुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे
षण्मुखसहस्रनामस्तोत्रं संपूर्णम् ..
Encoded by Kirk Wortman kirkwort@hotmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com