.. सूर्योपनिषत् ..
अथर्ववेदीय सामान्योपनिषत् .
सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् .
सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं
पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः .
ब्रह्मा ऋषिः . गायत्री छन्दः . आदित्यो देवता .
हंसः सोऽहमग्निनारायणयुक्तं बीजम् . हृल्लेखा शक्तिः .
वियदादिसर्गसंयुक्तं कीलकम् .
चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः .
षट्स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् .
सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं
पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं
श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः .
ॐ भूर्भुवःसुवः . ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य
धीमहि . धियो यो नः प्रचोदयात् .
सूर्य आत्मा जगतस्तस्थुषश्च . सूर्याद्वै खल्विमानि
भूतानि जायन्ते .
सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य .
त्वमेव प्रत्यक्षं कर्मकर्तासि . त्वमेव प्रत्यक्षं ब्रह्मासि .
त्वमेव प्रत्यक्षं विष्णुरसि .
त्वमेव प्रत्यक्षं रुद्रोऽसि . त्वमेव प्रत्यक्षमृगसि .
त्वमेव प्रत्यक्षं यजुरसि .
त्वमेव प्रत्यक्षं सामासि . त्वमेव प्रत्यक्षमथर्वासि .
त्वमेव सर्वं छन्दोऽसि .
आदित्याद्वायुर्जायते . आदित्याद्भूमिर्जायते . आदित्यादापो
जायन्ते . आदित्याज्ज्योतिर्जायते .
आदित्याद्व्योम दिशो जायन्ते . आदित्याद्देवा जायन्ते .
आदित्याद्वेदा जायन्ते .
आदित्यो वा एष एतन्मण्डलं तपति . असावादित्यो ब्रह्म .
आदित्योऽन्तःकरणमनोबुद्धिचित्ताहङ्काराः . आदित्यो वै
व्यानः समानोदानोऽपानः प्राणः .
आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः . आदित्यो वै
वाक्पाणिपादपायूपस्थाः .
आदित्यो वै शब्दस्पर्शरूपरसगन्धाः . आदित्यो वै
वचनादानागमनविसर्गानन्दाः .
आनन्दमयो ज्ञानमयो विज्ञानानमय आदित्यः . नमो मित्राय
भानवे मृत्योर्मा पाहि .
भ्राजिष्णवे विश्वहेतवे नमः . सूर्याद्भवन्ति भूतानि
सूर्येण पालितानि तु .
सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च . चक्षुर्नो
देवः सविता चक्षुर्न उत पर्वतः .
चक्षुर्धाता दधातु नः . आदित्याय विद्महे सहस्रकिरणाय
धीमहि . तानः सूर्यः प्रचोदयात् .
सविता पश्चात्तात्सविता
पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् .
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः .
ॐइत्येकाक्षरं ब्रह्म . घृणिरिति द्वे अक्षरे . सूर्य
इत्यक्षरद्वयम् . आदित्य इति त्रीण्यक्षराणि .
एतस्यैव सूर्यस्याष्टाक्षरो मनुः . यः सदाहरहर्जपति स
वै ब्राह्मणो भवति स वै ब्राह्मणो भवति .
सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते .
अलक्ष्मीर्नश्यति . अभक्ष्यभक्षणात्पूतो भवति .
अगम्यागमनात्पूतो भवति . पतितसम्भाषणात्पूतो भवति .
असत्सम्भाषणात्पूतो भवति .
मध्याह्ने सूराभिमुखः पठेत् .
सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते .
सैषां सावित्रीं विद्यां न किञ्चिदपि न
कस्मैचित्प्रशंसयेत् .
य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते .
पशून्विन्दति . वेदार्थं लभते .
त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति . यो हस्तादित्ये
जपति स महामृत्युं तरति य एवं वेद ..
इत्युपनिषत् ..
हरिः ॐ भद्रं कर्णेभिरिति शान्तिः ..
इति सूर्योपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com