||तैत्तिरीयोपनिषत् ||
ॐ श्री गुरुभ्यो नमः | हरिः ॐ |
ॐ शं नो मित्रः शं वरुणः | शं नो भवत्वर्यमा |
शं न इन्द्रो बृहस्पतिः | शं नो विष्णुरुरुक्रमः |
नमो ब्रह्मणे | नमस्ते वायो | त्वमेव प्रत्यक्षं ब्रह्मासि |
त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि | ऋतं वदिष्यामि |
सत्यं वदिष्यामि | तन्मामवतु | तद्वक्तारमवतु |
अवतु माम् | अवतु वक्तारम् |
ॐ शान्तिः शान्तिः शान्तिः ||१||इति प्रथमोऽनुवाकः ||
ॐ शीक्षां व्याख्यास्यामः | वर्णः स्वरः | मात्रा बलम् |
साम सन्तानः | इत्युक्तः शीक्षाध्यायः ||१||
इति द्वितीयोऽनुवाकः ||
सह नौ यशः | सह नौ ब्रह्मवर्चसम् |
अथातः संहिताया उपनिषदम् व्याख्यास्यामः |
पञ्चस्वधिकरणेषु |
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् |
ता महासँ हिता इत्याचक्षते | अथाधिलोकम् |
पृथिवी पूर्वरूपम् | द्यौरुत्तररूपम् |
आकाशः सन्धिः ||१||
वायुः सन्धानम् | इत्यधिलोकम् | अथाधिजौतिषम् |
अग्निः पूर्वरूपम् | आदित्य उत्तररूपम् | आपः सन्धिः |
वैद्युतः सन्धानम् | इत्यधिज्यौतिषम् | अथाधिविद्यम् |
आचार्यः पूर्वरूपम् ||२||
अन्तेवास्युत्तररूपम् | विद्या सन्धिः | प्रवचनँ सन्धानम् |
इत्यधिविद्यम् | अथाधिप्रजम् | माता पूर्वरूपम् |
पितोत्तररूपम् | प्रजा सन्धिः | प्रजननँ सन्धानम् |
इत्यधिप्रजम् ||३||
अथाध्यात्मम् | अधरा हनुः पूर्वरूपम् |
उत्तरा हनुरुत्तररूपम् | वाक्सन्धिः | जिह्वा सन्धानम् |
इत्यध्यात्मम् | इतीमा महासँ हिताः |
य एवमेता महासँ हिता व्याख्याता वेद |
सन्धीयते प्रजया पशुभिः |
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ||४||
इति तृतीयोऽनुवाकः ||
यश्छन्दसामृषभो विश्वरूपः |
छन्दोभ्योऽध्यमृतात्संबभूव |
स मेन्द्रो मेधया स्पृणोतु |
अमृतस्य देव धारणो भूयासम् |
शरीरं मे विचर्षणम् | जिह्वा मे मधुमत्तमा |
कर्णाभ्यां भूरि विश्रुवम् |
ब्रह्मणः कोशोऽसि मेधया पिहितः |
श्रुतं मे गोपाय | आवहन्ती वितन्वाना ||१||
कुर्वाणाऽचीरमात्मनः | वासाँ सि मम गावश्च |
अन्नपाने च सर्वदा | ततो मे श्रियमावह |
लोमशां पशुभिः सह स्वाहा | आ मा यन्तु ब्रह्मचारिणः स्वाहा |
वि माऽऽयन्तु ब्रह्मचारिणः स्वाहा |
प्र माऽऽयन्तु ब्रह्मचारिणः स्वाहा |
दमायन्तु ब्रह्मचारिणः स्वाहा |
शमायन्तु ब्रह्मचारिणः स्वाहा ||२||
यशो जनेऽसानि स्वाहा | श्रेयान् वस्यसोऽसानि स्वाहा |
तं त्वा भग प्रविशानि स्वाहा | स मा भग प्रविश स्वाहा |
तस्मिन् त्सहस्रशाखे निभगाहं त्वयि मृजे स्वाहा |
यथाऽऽपः प्रवताऽऽयन्ति यथा मासा अहर्जरम् |
एवं मां ब्रह्मचारिणः | धातरायन्तु सर्वतः स्वाहा |
प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ||३||
इति चतुर्थोऽनुवाकः ||
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः |
तासामु ह स्मैतां चतुर्थीम् | माहाचमस्यः प्रवेदयते |
मह इति | तत् ब्रह्म | स आत्मा | अङ्गान्यन्या देवताः |
भूरिति वा अयं लोकः | भुव इत्यन्तरिक्षम् |
सुवरित्यसौ लोकः ||१||
मह इत्यादित्यः | आदित्येन वाव सर्वे लोका महीयन्ते |
भूरिति वा अग्निः | भुव इति वायुः | सुवरित्यादित्यः |
मह इति चन्द्रमाः | चन्द्रमसा वाव
सर्वाणि ज्योतीँ षि महीयन्ते | भूरिति वा ऋचः |
भुव इति सामानि |
सुवरिति यजूँ षि ||२||
मह इति ब्रह्म | ब्रह्मणा वाव सर्वे वेदा महीयन्ते |
भूरिति वै प्राणः | भुव इत्यपानः | सुवरिति व्यानः |
मह इत्यन्नम् | अन्नेन वाव सर्वे प्राण महीयन्ते |
ता वा एताश्चतस्रश्चतुर्ध | चतस्रश्चतस्रो व्याहृतयः |
ता यो वेद |
स वेद ब्रह्म | सर्वेऽस्मै देवा बलिमावहन्ति ||३||
इति पञ्चमोऽनुवाकः ||
स य एषोऽन्तरहृदय आकाशः | तस्मिन्नयं पुरुषो मनोमयः |
अमृतो हिरण्मयः | अन्तरेण तालुके | य एष स्तन इवावलंबते |
सेन्द्रयोनिः | यत्रासौ केशान्तो विवर्तते | व्यपोह्य शीर्षकपाले |
भूरित्यग्नौ प्रतितिष्ठति |
भुव इति वायौ ||१||
सुवरित्यादित्ये | मह इति ब्रह्मणि | आप्नोति स्वाराज्यम् |
आप्नोति मनसस्पतिम् | वाक्पतिश्चक्षुष्पतिः |
श्रोत्रपतिर्विज्ञानपतिः | एतत्ततो भवति | आकाशशरीरं ब्रह्म |
सत्यात्म प्राणारामं मन आनन्दम् |
शान्तिसमृद्धममृतम् |
इति प्राचीनयोग्योपास्स्व ||२||इति षष्ठोऽनुवाकः ||
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः |
अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि |
आप ओषधयो वनस्पतय आकाश आत्मा | इत्यधिभूतम् |
अथाध्यात्मम् | प्राणो व्यानोऽपान उदानः समानः |
चक्षुः श्रोत्रं मनो वाक् त्वक् |
चर्म माँसँ स्नावास्थि मज्जा |
एतदधिविधाय ऋषिरवोचत् | पाङ्क्तं वा इदँ सर्वम् |
पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति ||१||इति सप्तमोऽनुवाकः ||
ओमिति ब्रह्म | ओमितीदँ सर्वम् |
ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति |
ओमिति सामानि गायन्ति | ओँ शोमिति शस्त्राणि शँ सन्ति |
ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति | ओमिति ब्रह्मा प्रसौति |
ओमित्यग्निहोत्रमनुजानाति |
ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति |
ब्रह्मैवोपाप्नोति ||१||इत्यष्टमोऽनुवाकः ||
ऋतं च स्वाध्यायप्रवचने च |
सत्यं च स्वाध्यायप्रवचने च |
तपश्च स्वाध्यायप्रवचने च |
दमश्च स्वाध्यायप्रवचने च |
शमश्च स्वाध्यायप्रवचने च |
अग्नयश्च स्वाध्यायप्रवचने च |
अग्निहोत्रं च स्वाध्यायप्रवचने च |
अतिथयश्च स्वाध्यायप्रवचने च |
मानुषं च स्वाध्यायप्रवचने च |
प्रजा च स्वाध्यायप्रवचने च |
प्रजनश्च स्वाध्यायप्रवचने च |
प्रजातिश्च स्वाध्यायप्रवचने च |
सत्यमिति सत्यवचा राथीतरः |
तप इति तपोनित्यः पौरुशिष्टिः |
स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः |
तद्धि तपस्तद्धि तपः ||१||इति नवमोऽनुवाकः ||
अहं वृक्षस्य रेरिवा | कीर्तिः पृष्ठं गिरेरिव |
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि | द्रविणँ सवर्चसम् |
सुमेध अमृतोक्षितः | इति त्रिशङ्कोर्वेदानुवचनम् ||१||
इति दशमोऽनुवाकः ||
वेदमनूच्याचार्योन्तेवासिनमनुशास्ति |
सत्यं वद | धर्मं चर | स्वाध्यायान्मा प्रमदः |
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः |
सत्यान्न प्रमदितव्यम् | धर्मान्न प्रमदितव्यम् |
कुशलान्न प्रमदितव्यम् | भूत्यै न प्रमदितव्यम् |
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ||१||
देवपितृकार्याभ्यां न प्रमदितव्यम् | मातृदेवो भव |
पितृदेवो भव | आचार्यदेवो भव | अतिथिदेवो भव |
यान्यनवद्यानि कर्माणि | तानि सेवितव्यानि | नो इतराणि |
यान्यस्माकँ सुचरितानि |
तानि त्वयोपास्यानि ||२||
नो इतराणि | ये के चारुमच्छ्रेयाँसो ब्राह्मणाः |
तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् | श्रद्धया देयम् |
अश्रद्धयाऽदेयम् | श्रिया देयम् | ह्रिया देयम् | भिया देयम् |
संविदा देयम् |
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ||३||
ये तत्र ब्राह्मणाः संमर्शिनः | युक्ता आयुक्ताः |
अलूक्षा धर्मकामाः स्युः | यथा ते तत्र वर्तेरन् |
तथा तत्र वर्तेथाः | अथाभ्याख्यातेषु |
ये तत्र ब्राह्मणाः संमर्शिनः | युक्ता आयुक्ताः |
अलूक्षा धर्मकामाः स्युः | यथा ते तेषु वर्तेरन् |
तथा तेषु वर्तेथाः | एष आदेशः | एष उपदेशः |
एषा वेदोपनिषत् | एतदनुशासनम् | एवमुपासितव्यम् |
एवमु चैतदुपास्यम् ||४||इत्येकादशऽनुवाकः ||
शं नो मित्रः शं वरुणः | शं नो भवत्वर्यमा |
शं न इन्द्रो बृहस्पतिः | शं नो विष्णुरुरुक्रमः |
नमो ब्रह्मणे | नमस्ते वायो | त्वमेव प्रत्यक्षं ब्रह्मासि |
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् | ऋतमवादिषम् |
सत्यमवादिषम् | तन्मामावीत् | तद्वक्तारमावीत् |
आवीन्माम् | आवीद्वक्तारम् |
ॐ शान्तिः शान्तिः शान्तिः ||१||इति द्वादशोऽनुवाकः ||
||इति शीक्षावल्ली समाप्ता ||
ॐ सह नाववतु | सह नौ भुनक्तु | सह वीर्यं करवावहै |
तेजस्वि नावधीतमस्तु मा विद्विषावहै |
ॐ शान्तिः शान्तिः शान्तिः ||
ॐ ब्रह्मविदाप्नोति परम् | तदेषाऽभ्युक्ता |
सत्यं ज्ञानमनन्तं ब्रह्म | यो वेद निहितं गुहायां परमे व्योमन् |
सोऽश्नुते सर्वान् कामान् सह | ब्रह्मणा विपश्चितेति ||
तस्माद्वा एतस्मादात्मन आकाशः संभूतः | आकाशाद्वायुः |
वायोरग्निः | अग्नेरापः | अद्भ्यः पृथिवी |
पृथिव्या ओषधयः | ओषधीभ्योऽन्नम् | अन्नात्पुरुषः |
स वा एष पुरुषोऽन्न्नरसमयः |
तस्येदमेव शिरः |
अयं दक्षिणः पक्षः | अयमुत्तरः पक्षः |
अयमात्मा | इदं पुच्छं प्रतिष्ठा |
तदप्येष श्लोको भवति ||१||इति प्रथमोऽनुवाकः ||
अन्नाद्वै प्रजाः प्रजायन्ते | याः काश्च पृथिवीँ
श्रिताः |
अथो अन्नेनैव जीवन्ति | अथैनदपि यन्त्यन्ततः |
अन्नँ हि भूतानां ज्येष्ठम् | तस्मात् सर्वौषधमुच्यते |
सर्वं वै तेऽन्नमाप्नुवन्ति | येऽन्नं ब्रह्मोपासते |
अन्नँ हि भूतानां ज्येष्ठम् | तस्मात् सर्वौषधमुच्यते |
अन्नाद् भूतानि जायन्ते | जातान्यन्नेन वर्धन्ते |
अद्यतेऽत्ति च भूतानि | तस्मादन्नं तदुच्यत इति |
तस्माद्वा एतस्मादन्नरसमयात् | अन्योऽन्तर आत्मा प्राणमयः |
तेनैष पूर्णः | स वा एष पुरुषविध एव |
तस्य पुरुषविधताम् | अन्वयं पुरुषविधः |
तस्य प्राण एव शिरः | व्यानो दक्षिणः पक्षः |
अपान उत्तरः पक्षः | आकाश आत्मा |
पृथिवी पुच्छं प्रतिष्ठा | तदप्येष श्लोको भवति ||१||
इति द्वितीयोऽनुवाकः ||
प्राणं देवा अनु प्राणन्ति | मनुष्याः पशवश्च ये |
प्राणो हि भूतानामायुः | तस्मात् सर्वायुषमुच्यते |
सर्वमेव त आयुर्यन्ति | ये प्राणं ब्रह्मोपासते |
प्राणो हि भूतानामायुः | तस्मात् सर्वायुषमुच्यत इति |
तस्यैष एव शारीर आत्मा | यः पूर्वस्य |
तस्माद्वा एतस्मात् प्राणमयात् | अन्योऽन्तर आत्मा मनोमयः |
तेनैष पूर्णः | स वा एष पुरुषविध एव |
तस्य पुरुषविधताम् | अन्वयं पुरुषविधः |
तस्य यजुरेव शिरः | ऋग्दक्षिणः पक्षः | सामोत्तरः पक्षः |
आदेश आत्मा | अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा |
तदप्येष श्लोको भवति ||१||इति तृतीयोऽनुवाकः ||
यतो वाचो निवर्तन्ते | अप्राप्य मनसा सह |
आनन्दं ब्रह्मणो विद्वान् | न बिभेति कदाचनेति |
तस्यैष एव शारीर आत्मा | यः पूर्वस्य |
तस्माद्वा एतस्मान्मनोमयात् | अन्योऽन्तर आत्मा विज्ञानमयः |
तेनैष पूर्णः | स वा एष पुरुषविध एव |
तस्य पुरुषविधताम् |
अन्वयं पुरुषविधः | तस्य श्रद्धैव शिरः |
ऋतं दक्षिणः पक्षः |
सत्यमुत्तरः पक्षः | योग आत्मा | महः पुच्छं प्रतिष्ठा |
तदप्येष श्लोको भवति ||१||इति चतुर्थोऽनुवाकः ||
विज्ञानं यज्ञं तनुते | कर्माणि तनुतेऽपि च |
विज्ञानं देवाः सर्वे |
ब्रह्म ज्येष्ठमुपासते | विज्ञानं ब्रह्म चेद्वेद |
तस्माच्चेन्न प्रमाद्यति | शरीरे पाप्मनो हित्वा |
सर्वान्कामान्समश्नुत इति | तस्यैष एव शारीर आत्मा |
यः पूर्वस्य | तस्माद्वा एतस्माद्विज्ञानमयात् |
अन्योऽन्तर आत्माऽऽनन्दमयः | तेनैष पूर्णः |
स वा एष पुरुषविध एव | तस्य पुरुषविधताम् |
अन्वयं पुरुषविधः | तस्य प्रियमेव शिरः | मोदो दक्षिणः पक्षः |
प्रमोद उत्तरः पक्षः | आनन्द आत्मा | ब्रह्म पुच्छं प्रतिष्ठा |
तदप्येष श्लोको भवति ||१||इति पञ्चमोऽनुवाकः ||
असन्नेव स भवति | असद्ब्रह्मेति वेद चेत् |
अस्ति ब्रह्मेति चेद्वेद | सन्तमेनं ततो विदुरिति |
तस्यैष एव शारीर आत्मा | यः पूर्वस्य |
अथातोऽनुप्रश्नाः | उताविद्वानमुं लोकं प्रेत्य |
कश्चन गच्छती३ उ |3 This is a mark for prolonging the vowel in the form |अऽऽ]|
आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता ३ उ | सोऽकामयत |
बहु स्यां प्रजायेयेति | स तपोऽतप्यत | स तपस्तप्त्वा |
इदँ सर्वमसृजत | यदिदं किञ्च | तत्सृष्ट्वा |
तदेवानुप्राविशत् | तदनुप्रविश्य | सच्च त्यच्चाभवत् |
निरुक्तं चानिरुक्तं च | निलयनं चानिलयनं च |
विज्ञानं चाविज्ञानं च | सत्यं चानृतं च सत्यमभवत् |
यदिदं किञ्च | तत्सत्यमित्याचक्षते |
तदप्येष श्लोको भवति ||१||इति षष्ठोऽनुवाकः ||
असद्वा इदमग्र आसीत् | ततो वै सदजायत |
तदात्मानँ स्वयमकुरुत |
तस्मात्तत्सुकृतमुच्यत इति |
यद्वै तत् सुकृतम् | रसो वै सः |
रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति | को ह्येवान्यात्कः
प्राण्यात् | यदेष आकाश आनन्दो न स्यात् |
एष ह्येवाऽऽनन्दयाति |
यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं
प्रतिष्ठां विन्दते | अथ सोऽभयं गतो भवति |
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते |
अथ तस्य भयं भवति | तत्वेव भयं विदुषोऽमन्वानस्य |
तदप्येष श्लोको भवति ||१||इति सप्तमोऽनुवाकः ||
भीषाऽस्माद्वातः पवते | भीषोदेति सूर्यः |
भीषाऽस्मादग्निश्चेन्द्रश्च | मृत्युर्धावति पञ्चम इति |
सैषाऽऽनन्दस्य मीमाँसा भवति |
युवा स्यात्साधुयुवाऽध्यायकः |
आशिष्ठो दृढिष्ठो बलिष्ठः |
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् |
स एको मानुष आनन्दः | ते ये शतं मानुषा आनन्दाः ||१||
स एको मनुष्यगन्धर्वाणामानन्दः | श्रोत्रियस्य चाकामहतस्य |
ते ये शतं मनुष्यगन्धर्वाणामानन्दाः |
स एको देवगन्धर्वाणामानन्दः | श्रोत्रियस्य चाकामहतस्य |
ते ये शतं देवगन्धर्वाणामानन्दाः |
स एकः पितृणां चिरलोकलोकानामानन्दः |
श्रोत्रियस्य चाकामहतस्य |
ते ये शतं पितृणां चिरलोकलोकानामानन्दाः |
स एक आजानजानां देवानामानन्दः ||२||
श्रोत्रियस्य चाकामहतस्य |
ते ये शतं आजानजानां देवानामानन्दाः |
स एकः कर्मदेवानां देवानामानन्दः |
ये कर्मणा देवानपियन्ति | श्रोत्रियस्य चाकामहतस्य |
ते ये शतं कर्मदेवानां देवानामानन्दाः |
स एको देवानामानन्दः | श्रोत्रियस्य चाकामहतस्य |
ते ये शतं देवानामानन्दाः | स एक इन्द्रस्याऽऽनन्दः ||३||
श्रोत्रियस्य चाकामहतस्य | ते ये शतमिन्द्रस्याऽऽनन्दाः |
स एको बृहस्पतेरानन्दः | श्रोत्रियस्य चाकामहतस्य |
ते ये शतं बृहस्पतेरानन्दाः | स एकः प्रजापतेरानन्दः |
श्रोत्रियस्य चाकामहतस्य |
ते ये शतं प्रजापतेरानन्दाः |
स एको ब्रह्मण आनन्दः | श्रोत्रियस्य चाकामहतस्य ||४||
स यश्चायं पुरुषे | यश्चासावादित्ये | स एकः |
स य एवंवित् | अस्माल्लोकात्प्रेत्य |
एतमन्नमयमात्मानमुपसङ्क्रामति |
एतं प्राणमयमात्मानमुपसङ्क्रामति |
एतं मनोमयमात्मानमुपसङ्क्रामति |
एतं विज्ञानमयमात्मानमुपसङ्क्रामति |
एतमानन्दमयमात्मानमुपसङ्क्रामति |
तदप्येष श्लोको भवति ||५||इत्यष्टमोऽनुवाकः ||
यतो वाचो निवर्तन्ते | अप्राप्य मनसा सह |
आनन्दं ब्रह्मणो विद्वान् |
न बिभेति कुतश्चनेति |
एतँ ह वाव न तपति |
किमहँ साधु नाकरवम् | किमहं पापमकरवमिति |
स य एवं विद्वानेते आत्मानँ स्पृणुते |
उभे ह्येवैष एते आत्मानँ स्पृणुते | य एवं वेद |
इत्युपनिषत् ||१||इति नवमोऽनुवाकः ||
||इति ब्रह्मानन्दवल्ली समाप्ता ||
ॐ सह नाववतु | सह नौ भुनक्तु | सह वीर्यं करवावहै |
तेजस्वि नावधीतमस्तु मा विद्विषावहै |
ॐ शान्तिः शान्तिः शान्तिः ||
भृगुर्वै वारुणिः | वरुणं पितरमुपससार |
अधीहि भगवो ब्रह्मेति | तस्मा एतत्प्रोवाच |
अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति |
तँ होवाच | यतो वा इमानि भूतानि जायन्ते |
येन जातानि जीवन्ति |
यत्प्रयन्त्यभिसंविशन्ति | तद्विजिज्ञासस्व | तद् ब्रह्मेति |
स तपोऽतप्यत | स तपस्तप्त्वा ||१||इति प्रथमोऽनुवाकः ||
अन्नं ब्रह्मेति व्यजानात् | अन्नाद्ध्येव खल्विमानि
भुतानि जायन्ते | अन्नेन जातानि जीवन्ति |
अन्नं प्रयन्त्यभिसंविशन्तीति | तद्विज्ञाय |
पुनरेव वरुणं पितरमुपससार | अधीहि भगवो ब्रह्मेति |
तँ होवाच | तपसा ब्रह्म विजिज्ञासस्व | तपो ब्रह्मेति |
स तपोऽतप्यत | स तपस्तप्त्वा ||१||इति द्वितीयोऽनुवाकः ||
प्राणो ब्रह्मेति व्यजानात् |
प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते |
प्राणेन जातानि जीवन्ति | प्राणं प्रयन्त्यभिसंविशन्तीति |
तद्विज्ञाय | पुनरेव वरुणं पितरमुपससार |
अधीहि भगवो ब्रह्मेति | तँ होवाच |
तपसा ब्रह्म विजिज्ञासस्व | तपो ब्रह्मेति |
स तपोऽतप्यत | स तपस्तप्त्वा ||१||इति तृतीयोऽनुवाकः ||
मनो ब्रह्मेति व्यजानात् | मनसो ह्येव खल्विमानि
भूतानि जायन्ते | मनसा जातानि जीवन्ति |
मनः प्रयन्त्यभिसंविशन्तीति | तद्विज्ञाय |
पुनरेव वरुणं पितरमुपससार | अधीहि भगवो ब्रह्मेति |
तँ होवाच | तपसा ब्रह्म विजिज्ञासस्व | तपो ब्रह्मेति |
स तपोऽतप्यत | स तपस्तप्त्वा ||१||इति चतुर्थोऽनुवाकः ||
विज्ञानं ब्रह्मेति व्यजानात् |
विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते |
विज्ञानेन जातानि जीवन्ति |
विज्ञानं प्रयन्त्यभिसंविशन्तीति | तद्विज्ञाय |
पुनरेव वरुणं पितरमुपससार | अधीहि भगवो ब्रह्मेति |
तँ होवाच | तपसा ब्रह्म विजिज्ञासस्व | तपो ब्रह्मेति |
स तपोऽतप्यत | स तपस्तप्त्वा ||१||इति पञ्चमोऽनुवाकः ||
आनन्दो ब्रह्मेति व्यजानात् |
आनन्दाध्येव खल्विमानि भूतानि जायन्ते |
आनन्देन जातानि जीवन्ति | आनन्दं प्रयन्त्यभिसंविशन्तीति |
सैषा भार्गवी वारुणी विद्या | परमे व्योमन्प्रतिष्ठिता |
स य एवं वेद प्रतितिष्ठति | अन्नवानन्नादो भवति |
महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन |
महान् कीर्त्या ||१||इति षष्ठोऽनुवाकः ||
अन्नं न निन्द्यात् | तद्व्रतम् | प्राणो वा अन्नम् |
शरीरमन्नादम् | प्राणे शरीरं प्रतिष्ठितम् |
शरीरे प्राणः प्रतिष्ठितः | तदेतदन्नमन्ने प्रतिष्ठितम् |
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति |
अन्नवानन्नादो भवति |
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन | महान् कीर्त्या ||१||
इति सप्तमोऽनुवाकः ||
अन्नं न परिचक्षीत | तद्व्रतम् | आपो वा अन्नम् |
ज्योतिरन्नादम् | अप्सु ज्योतिः प्रतिष्ठितम् |
ज्योतिष्यापः प्रतिष्ठिताः | तदेतदन्नमन्ने प्रतिष्ठितम् |
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति |
अन्नवानन्नादो भवति |
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन |
महान् कीर्त्या ||१||
इत्यष्टमोऽनुवाकः ||
अन्नं बहु कुर्वीत | तद्व्रतम् | पृथिवी वा अन्नम् |
आकाशोऽन्नादः | पृथिव्यामाकाशः प्रतिष्ठितः |
आकाशे पृथिवी प्रतिष्ठिता |
तदेतदन्नमन्ने प्रतिष्ठितम् |
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति |
अन्नवानन्नादो भवति |
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन | महान्कीर्त्या ||१||
इति नवमोऽनुवाकः ||
न कञ्चन वसतौ प्रत्याचक्षीत | तद्व्रतम् |
तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् |
अराध्यस्मा अन्नमित्याचक्षते |
एतद्वै मुखतोऽनँ राद्धम् |
मुखतोऽस्मा अन्नँ राध्यते |
एतद्वै मध्यतोऽनँ राद्धम् |
मध्यतोऽस्मा अन्नँ राध्यते |
एदद्वा अन्ततोऽन्नँ राद्धम् |
अन्ततोऽस्मा अन्नँ राध्यते ||१||
य एवं वेद | क्षेम इति वाचि | योगक्षेम इति प्राणापानयोः |
कर्मेति हस्तयोः | गतिरिति पादयोः | विमुक्तिरिति पायौ |
इति मानुषीः समाज्ञाः | अथ दैवीः | तृप्तिरिति वृष्टौ |
बलमिति विद्युति ||२||
यश इति पशुषु | ज्योतिरिति नक्षत्रेषु |
प्रजातिरमृतमानन्द इत्युपस्थे | सर्वमित्याकाशे |
तत्प्रतिष्ठेत्युपासीत | प्रतिष्ठावान् भवति |
तन्मह इत्युपासीत | महान्भवति | तन्मन इत्युपासीत |
मानवान्भवति ||३||
तन्नम इत्युपासीत | नम्यन्तेऽस्मै कामाः |
तद्ब्रह्मेत्युपासीत | ब्रह्मवान्भवति |
तद्ब्रह्मणः परिमर इत्युपासीत |
पर्येणं म्रियन्ते द्विषन्तः सपत्नाः |
परि येऽप्रिया भ्रातृव्याः |
स यश्चायं पुरुषे | यश्चासावादित्ये | स एकः ||४||
स य एवंवित् | अस्माल्लोकात्प्रेत्य |
एतमन्नमयमात्मानमुपसङ्क्रम्य |
एतं प्राणमयमात्मानमुपसङ्क्रम्य |
एतं मनोमयमात्मानमुपसङ्क्रम्य |
एतं विज्ञानमयमात्मानमुपसङ्क्रम्य |
एतमानन्दमयमात्मानमुपसङ्क्रम्य |
इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् |
एतत् साम गायन्नास्ते | हा ३ वु हा ३ वु हा ३ वु ||५||
अहमन्नमहमन्नमहमन्नम् |
अहमन्नादो३ऽहमन्नादो३.आहमन्नादः |
अहँ श्लोककृदहँ श्लोककृदहँ श्लोककृत् |
अहमस्मि प्रथमजा ऋता३स्य |
पूर्वं देवेभ्योऽमृतस्य ना३भायि |
यो मा ददाति स इदेव मा३ऽऽवाः |
अहमन्नमन्नमदन्तमा३द्मि |
अहं विश्वं भुवनमभ्यभवा३म् |
सुवर्न ज्योतीः | य एवं वेद | इत्युपनिषत् ||६||
इति दशमोऽनुवाकः ||
||इति भृगुवल्ली समाप्ता ||
ॐ सह नाववतु | सह नौ भुनक्तु | सह वीर्यं करवावहै |
तेजस्वि नावधीतमस्तु मा विद्विषावहै |
||ॐ शान्तिः शान्तिः शान्तिः ||
||हरिः ओ३म् ||
Encoded by Kartik, Avinash Sathaye
Proofread by John Manetta
%@@1
% File name : tait.itx
%--------------------------------------------
% Text title : taittiriiyopanishhat.h
% Author : Vedic Rishis
% Language : Sanskrit
% Subject : Philosophy
% Description.comments : #7/108; Krishna YajurVeda, Mukhya upanishad
%
%
% Transliterated by : Kartik, Avinash Sathaye
% Proofread by : John Manetta
% Latest update : Aug 2, 1996, 7/20/1999, 11/1/2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions : i2big.hdr,ijag.inc,itrans.sty,multicol.sty,article.sty
% Transliteration scheme: ITRANS 5.1
% Site access : http://sanskritdocuments.org
% http://sanskrit.gde.to
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
%@@2
%
% Please ignore the following commands upto #indian and others with
% \ mark,
% which are needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .