||तंत्राख्यायिका ||
1, 2 : Affe und Keil
अस्ति कश्चिद्वणिजकः |
नगरसमीपे तेन देवताआयतनं क्रियते |
तत्र ये कर्मकारास्स्थपत्यादयः !
मध्याह्नवेलायां
आहारनिमित्तं भोजनमण्डपं अनुप्रविष्टाः |
अकस्माच्चाअनुषङ्गिकं देवगृहे वानरयूथं
आगतं |
अथ तत्रएकस्य शिल्पिनो
अर्धस्फोटितकाष्ठस्तम्भो
अर्जुनमयः खदिरकीलकेन मध्ये
यन्त्रनिखातेनावस्तब्धो
अवतिष्ठते |
तत्र कदाचिद्वानरयूथो गिरिशिखरादवतीर्य
स्वेच्छया
तरुशिखरप्रासादशृङ्गदारुनिचयेषु प्रक्रीडितुं
आरब्धः |
एकस्तु तत्राअसन्नविनाशश्चापलादुपविश्य
स्तम्भे यन्त्रचारं
उद्दिश्यैदं आह |
केनायं अस्थाने कीलको निखातः |
इति पाणिभ्यां एव सङ्गृह्यौत्पाटितुं आरब्धः |
स्थानाच्चलिते कीले यद्वृत्तं ! तदनाख्येयं !
एवं एव भवता
ज्ञातं इति |
1,2 Schakal und Trommel
अस्ति कश्चिद्गोमायुर् आहारविच्छेदात्
क्षुत्क्षामकण्ठ इतश्च
इतः परिभ्रमन्नुभयसैनस्याअयोधनभूमिं
अपश्यत् |
तत्र च महान्तं शब्दं अशृणोत् |
तद्भयसंक्षुभितहृदयः किं इदं ! विनष्टो
अस्मि ! कस्यायं
शब्दः ! क्व वा कीदृशो वाएष शब्द इति !
चिन्तयता दृष्टा
गिरिशिखराअकारा भेरी |
तां च दृष्ट्वाअचिन्तयत् |
किं अयं शब्दो अस्यास्स्वाभाविकः ! उत
परप्रेरित इति |
अथ सा यदा वायुप्रेरितैर् वृक्षाग्रैस्स्पृश्यते !
तदा शब्दं करोति !
अन्यदा न ! इति तूष्णीं आस्ते |
स तु तस्यास्सारासारतां ज्ञातुं संनिकर्षं
उपश्लिष्टः |
स्वयं च कौतुकादुभयोर् मुखयोर् अताडयत् !
अचिन्तयच्च|
गम्यं चएतद्भक्स्यं च मम |
इत्यवधार्यएकदंष्ट्रया क्षुधाविष्टः
पाटितवान् |
परुषत्वाच्च चर्मणः कथमपि न
दंष्ट्राभङ्गं अवाप्तवान् |
प्रतिबद्धाश्च पुनर् अप्यचिन्तयत् |
नूनं अस्या अन्तर् भक्ष्यं भविष्यतीति |
इत्यध्यवस्य भेर्या मुखं विदार्यान्तः
प्रविष्टः |
तस्मिन्नपि न किञ्चिदासादितवान् |
प्रतिनिवर्तितुं अशक्तो अन्तर्लीनार्धकायो
विहस्याब्रवीत् |
पूर्वं एव मया ज्ञातं इति |
1,3 Drei selbstverschuldete Unfll
अस्ति कस्मिंश्चित् प्रदेशे परिव्राड् देवशर्मा नाम |
तस्यानेकसाधूपपादितसूक्ष्मवासोविशेषौपचय्
आन् महत्य्-
अर्थमात्रा संवृत्ता |
स च न कस्यचिदपि विश्वासं याति |
अथ कदाचिदाषाढभूतिर् नाम परवित्तापहृत्
कथं इयं
अर्थमात्राअस्य मया परिहर्तव्यैति
वितर्क्यावलगनरूपेण
उपगम्य तत्कालेन च विश्वासं अनयत् |
अथ कदाचिदसौ परिव्राजकस्-
तीर्थयात्राप्रसङ्गे तेन
आषाढभूतिना सह गन्तुं आरब्धः |
तत्र च कस्मिंश्चिद्वनौद्देशे नदीतीरे
मात्राअन्तिक
आषाढभूतिं अवस्थाप्यएकान्तं
उदकग्रहणार्थं गतः |
अपश्यच्च महन् मेषयुद्धं |
अनवरतयुद्धशक्तिसम्पन्नयोश्च तयोश्
शृङ्गपञ्जरान्तरौद्भूतसृग् बहु भूमौ
निपतितं दृष्ट्वा
आशाप्रतिबद्धचित्तः पिशितलोभतया गोमायुस्-
तज्जिघृक्षुस्-
सम्पीडितौद्घातात् सद्यः पञ्चत्वं अगमत् |
अथ परिव्राड् विस्मयाअविष्टो अब्रवीत् |
जम्बुको हुडुयुद्धेनैति |
कृतशौचश्चाअगतस्तं उद्देशं आषाढभूमिं
अपि
गृहीतार्थमात्रासारं अपक्रान्तं नापश्यद्-
देवशर्मा |
केवलं त्व्
अपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रावणकूर्-
चकाअद्य्
अपश्यत् ! अचिन्तयच्च |
क्वासावाषाढभूतिः |
नूनं अहं तेन मुषितः |
इत्युक्तवान् |
वयं चाअषाढभूतिनैति |
अथासौ कपालशकलग्रन्थिकाअवशेषः कञ्चिद्-
ग्रामं अस्तं
गच्छति रवौ प्रविष्टः |
प्रविशन्नेकान्तवासिनं तन्त्रवायं अपश्यत् !
आवासकं च
प्रार्थितवान् |
तेनापि तस्याअत्मीयगृहएकदेशे स्थानं निर्दिश्य
भार्या
अभिहिता |
यावदहं नगरं गत्वा सुहृत्समेतो मधुपानं
क्र्त्वा
आगच्छामि ! तावदप्रमत्तया गृहे त्वया भाव्यं |
इत्यादिश्य गतः |
अथ तस्य भार्या पुंश्चली दूतिकासञ्चोदिता
शरीरसंस्कारं कृत्वा
परिचितसकाशं गन्तुं आरब्धा |
अभिमुखश्चास्या भर्ता
मदविलोपासमाप्ताक्षरवचनः
परिस्खलितगतिर् अवस्रस्तवासास्समायातः |
तं च दृष्ट्वा प्रत्युत्पन्नमतिः कौशलादाकल्पं
अपनीय
पूर्वप्रकृतं एव वेषं आस्थाय
पादशौचशयनाअद्यारम्भं
अकरोत् |
कौलिकस्तु गृहं प्रविश्य निद्रावशं अगमत् |
सुप्तप्रतिबुद्धश्चासौ तां आक्रोष्टुं आरब्धः |
पुंश्चलि ! त्वद्गतं अपचारं सुहृदो मे वर्णयन्ति
|
भवतु |
पुष्टं निग्रहं करिष्यामीति |
असावपि निर्मर्यादा प्रतिवचनं दातुं आरब्धा |
पुनर् अपि चासौ प्रतिबुद्धस्तां
मध्यस्तूणायां रज्ज्वा
सुप्रतिबद्धां कृत्वा प्रसुप्तः |
दूतिकाएतां पुनर् गमनाय प्रचोदितवती |
सा तूत्पन्नप्रतिभा दूतिकां
आत्मीयदर्शनसंविधानेन
बद्ध्वा कामुकसकाशं ययौ |
असावपि प्रतिबुद्धस्तथाएव तां आक्रोष्टुं
आरब्धः |
दूतिका तु
शङ्कितहृदयानुचितवाक्यौदाहरणभीता न
किञ्चिद्-
उक्तवती |
तन्त्रवायस्तु शाठ्यादियं न किञ्चिन्
ममौत्तरं प्रयच्छति
इत्युत्थाय तस्यास्तीक्ष्णशस्त्रेण नासिकां
छित्त्वाअब्रवीत् |
तिष्ठएवंलक्षणा |
कस्त्वां अधुना वार्त्तां पृच्छति |
इत्युक्त्वा निद्रावशं उपागमत् |
आगता च सा तन्त्रवायी दूतिकां अपृच्छत् |
का ते वार्त्ता |
किं अयं प्रतिबुद्धो अभिहितवान् |
कथय कथयैति |
दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती
सामर्षं आह |
शिवास्ते सर्वा वार्त्ताः |
मुञ्च |
गच्छामीति |
तथा त्वनुष्ठिते नासिकां आदायापक्रान्ता |
तन्त्रवाय्य्- अप्य्कृतकबद्धं आत्मानं
तथाएवाकरोत् |
कौलिकस्तु यथापूर्वं एव प्रतिबुद्धस्तां आक्रोशत्
|
असावपि दुष्टा बहु धृष्टरं आह |
धिग्घतो असि |
को मां निरागसं विरूपयितुं समर्थः |
शृण्वन्तु मे लोकपालाः |
यथाअहं कौमारं भर्तारं मुक्त्वा नान्यं
परपुरुषं
मनसाअपि वेद्मि ! तथा ममानेन सत्येनाव्यङ्ग्यं
मुखं अस्त्व्
इति |
अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः
प्रज्वाल्यौल्कां
अव्यङ्गमुखीं जायां दृष्ट्वा प्रोत्फुल्लनयनः
परिचुम्ब्य
हृष्टमना बन्धवादवमुच्य पीडितं च
परिष्वज्य शय्यां
आरोपितवान् |
परिव्राजकस्त्वादित एवाअरभ्य यथावृत्तं
अर्थं अभिज्ञातवान् |
दूतिकाअपि हस्तकृतनासापुटा स्वगृहं
गत्वाअचिन्तयत् |
किं अधुना कर्तव्यं इति |
अथ तस्या भर्ता नापितो राजकुलात् प्रत्यूषस्य्
आगत्य तां भार्यां आह
|
समर्पय ! भद्रे ! क्षुरभाण्डं |
राजकुले कर्म कर्तव्यं इति |
सा च दुष्टाअभ्यन्तरस्थाएव क्षुरं एव प्राहिणोत् |
स च समस्तक्षुरभाण्डासमर्पणात्
क्रोधाअविष्टचित्तो
नापितस्तं एव तस्याः क्षुरं प्रतीपं प्राहिणोत्
|
अथासावार्तरवं उच्छैः कृत्वा पाणिना
नासापुटं प्रमृज्य
असृक्पातसमेतां नासिकां क्षितौ
प्रक्षिप्याब्रवीत् |
परित्रायध्वं ! परित्रायध्वं |
अनेनाहं अदृष्टदोषा विरूपितैति |
तथाअभ्यागतै राजपुरुषैः
प्रत्यक्षदर्शनां तां दृष्ट्वा
विरूपां कीलपार्ष्णिलगुडैर् अतीव हतं
पश्चाद्बाहुबन्धश्
च तया सह धर्मस्थानं उपनीतो नापितः |
पृच्छ्यमानश्चाधिकृतैः किं इदं महद्-
विशसनं स्वदारेषु
त्वया कृतं इति यदा बहुश उच्यमानो नौत्तरं
प्रयच्छति ! तदा
धर्माधिकृताश्शूले अवतंस्यतां इत्य्
आज्ञापितवन्तः |
निष्पापं च परिव्राट् च्छूलस्थानं नीयमानं
नापितं दृष्ट्वा
सत्त्वानुकम्पया चौपलब्धतत्त्वार्थो अधिकरणं
उपगम्य
धर्मस्थानाधिकृतान् अब्रवीत् |
नार्हथएनं अदोषकर्तारं नापितं शूले
समारोपयितुं |
यत्कारणं ! इदं आश्चर्यत्रयं श्रूयतां |
जम्बुको हुडुयुद्धेन वयं चाअषाढभूतिना |
दूतिका तन्त्रवायेन त्रयो अनर्थास्स्वयं कृतः ||५५||
समुपलब्धतत्त्वार्थैश्चाधिकृतैः परित्रायितो
नापित इति |
Encoded proofread by Lars Martin Fosse lmfosse at online.no
%@@1
% File name : tantraakhyayikaa.itx
%--------------------------------------------
% Text title : ta.ntrAkhyAyikA
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : ????Source
% Transliterated by : Lars Martin Fosse lmfosse at online.no
% Proofread by : Lars Martin Fosse lmfosse at online.no
% Latest update : 13 Dec 1996, November 1, 2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .