.. तारसारोपनिषत् ..
यन्नारायणतारार्थसत्यज्ञानसुखाकृति .
त्रिपान्नारायणाकरं तद्ब्रह्मैवास्मि केवलम् ..
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ ..
बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां
देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र
क्वचन गच्घ्छेत्तदेव मन्येतेति . इदं वै कुरुक्षेत्रं देवानां
देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् . अत्र हि जन्तोः
प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे
येनासावमृतीभूत्वा मोक्षी भवति . तस्मादविमुक्तमेव निषेवेत .
अविमुक्तं न विमुञ्चेत् . एवमेवैष भगवन्निति वै याज्ञवल्क्यः .. १..
अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकम् .
किं तारयतीति . स होवाच याज्ञवल्क्यः . ॐ नमो नारायणायेति
तारकं चिदात्मकमित्युपासितव्यम् . ओमित्येकाक्षरमात्मस्वरूपम् .
नम इति द्व्यक्षरं प्रकृतिस्वरूपम् . नारायणायेति पञ्चाक्षरं
परंब्रह्मस्वरूपम् . इति य एवं वेद . सोऽमृतो भवति . ओमिति ब्रह्मा
भवति . नकारो विष्णुर्भवति . मकारो रुद्रो भवति . नकार ईश्वरो भवति .
रकारोऽण्डं विराड् भवति . यकारः पुरुषो भवति . णकारो भगवान्भवति .
यकारः परमात्मा भवति . एतद्वै नारायणस्याष्टाक्षरं वेद
परमपुरुषो भवति .
अयमृग्वेदः प्रथमः पादः .. १..
ॐइत्येतदक्षरं परं ब्रह्म . तदेवोपासितव्यम् . एतदेव
सूक्ष्माष्टाक्षरं भवति . तदेतदष्टात्मकोऽष्टधा
भवति . अकारः प्रथमाक्षरो भवति . उकारो द्वितीयाक्षरो भवति .
मकारस्तृतीयाक्षरो भवति . बिन्दुस्तुरीयाक्षरो भवति . नादः
पञ्चमाक्षरो भवति . कला षष्ठाक्षरो भवति . कलातीता
सप्तमाक्षरो भवति . तत्परश्चाष्टमाक्षरो भवति .
तारकत्त्वात्तारको भवति . तदेव तारकं ब्रह्म त्वं विद्धि .
तदेवोपासितव्यम् .. अत्रैते श्लोका भवन्ति ..
अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः .
उकाराक्षरसंभूत उपेन्द्रो हरिनायकः .. १..
मकाराक्षरसंभूतः शिवस्तु हनुमान्स्मृतः .
बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् .. २..
नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः .
कलायाः पुरुषः साक्षाल्लक्ष्मणो धरणीधरः .. ३..
कलातीता भगवती स्वयं सीतेति संज्ञिता .
तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः .. ४..
ओमित्येतदक्षरमिदं सर्वम् . तस्योपव्याख्यानं भूतं
भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताछन्दो
ऋक्कलाशक्तिसृष्ट्यात्मकमिति . य एवं वेद .
यजुर्वेदो द्वितीयः पादः .. २..
अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः
परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि
भगव इति . स होवाच याज्ञवल्क्यः .
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो
जाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः .. १..
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्य
उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः .. २..
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यः
शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै नमोनमः .. ३..
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः
शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः .. ४..
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो
भरतो भूर्भुवः सुवस्तस्मै वै नमोनमः .. ५..
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपो
लक्ष्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः .. ६..
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता
भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः .. ७..
यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् .
उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः
शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो
भरतः ५ कलास्वरूपो लक्ष्मणः ६ कलातीता भगवती सीता
चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः
परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य-
परमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि
भूर्भुवः सुवस्तस्मै नमोनमः .. ८..
एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति . स वायुपूतो
भवति . स आदित्यपूतो भवति . स स्थाणुपूतो भवति . स सर्वैर्देवैर्ज्ञातो
भवति . तेनेतिहासपुराणानं रुद्राणां शतसहस्राणि जप्तानि फलानि
भवन्ति . श्रीमन्नारायणाष्टाक्षरानुस्मरणेन गायत्र्याः
शतसहस्रं जप्तं भवति . प्रणवानामयुतं जप्तं भवति .
दशपूर्वान्दशोत्तरान्पुनाति . नारायणपदमवाप्नोति य एवं वेद .
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् .
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते . विष्णोर्यत्परमं पदम् ..
इत्युपनिषत् ..
सामवेदस्तृतीयः पादः .. ३..
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
इति तारसारोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com