.. अन्नम्भट्टलिखित तर्कसंग्रह ..
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् |
बालानां सुखबोधाय क्रियते तर्कसंग्रहः ||
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः
सप्तपदार्थाः || १||
तत्र द्रव्याणि
पृथिव्यप्तेजोवाय्वाकाशाकालदिगात्ममनांसि नवैव || २||
रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभग-
परत्वापरत्वगुरुत्व-
द्रवत्व- स्नेह- शब्द- बुद्धि- सुख- दुःखेच्छा- द्वेष- प्रयत्न-
धर्माधर्म- संस्काराः चतुर्विंशतिर्गुणाः || ३||
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि
पञ्च कर्माणि || ४||
परमपरं चेति द्विविधं सामान्यम् || ५||
नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव || ६||
समवायस्त्वेक एव || ७||
अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावः
अत्यन्ताभावः अन्योन्याभावश्चेति || ८||
तत्र गन्धवती पृथिवी |
सा द्विविधानित्याऽनित्या च |
नित्या परमाणुरूपा |
अनित्या कार्यरूपा |
पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् |
शरीरमस्मदादीनाम् |
इन्द्रियं गन्द्धग्राहकं घ्राणम् |
तच्च नासाग्रवर्ति |
विषयो मृत्पाषाणादिः || ९||
शीतस्पर्शवत्यः आपः |
ता द्विविधाः नित्या अनित्याश्च |
नित्यः परमाणुरूपाः |
अनित्याः कार्यरूपाः |
पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् |
शरीरं वरुणलोके |
इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति |
विषयः सरित्समुद्रादिः || १०||
उष्णस्पर्शवत्तेजः |
तच्च द्विविधं नित्यमनित्यं च |
नित्यं परमाणुरूपं |
अनित्यं कार्यरूपं |
पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् |
शरीरमादित्यलोके प्रसिद्धम् |
इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति |
विषयश्चतुर्विधः भौमदिव्यौदर्याकरज भेदात् |
भौमं वह्न्यादिकम् |
अबिन्धनं दिव्यं विद्युदादि |
भुक्तस्य परिणामहेतुरौदर्यम् |
आकरजं सुवर्णादि || ११||
रूपरहीतः स्पर्शवान्वायुः |
स द्विविधः नित्योऽनित्यश्च |
नित्यः परमाणुरूपः |
अनित्यः कार्यरूपः |
पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् |
शरीरं वायुलोके |
इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति |
विषयो वृक्षादिकम्पनहेतुः || १२||
शरीरान्तःसंचारी वयुः प्राणः |
स च एकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते || १३||
शब्दगुणकमाकाशम् |
तच्चैकं विभु नित्यञ्च || १४||
अतीतादिव्यवहारहेतुः कालः |
स चैको विभुर्नित्य्श्च || १५||
प्राच्यादिव्यवहारहेतुर्दिक् |
सा चैका विभ्वी नित्या च || १६||
ज्ञानाधिकरणमात्मा |
स द्विविधः परमात्मा जीवात्मा च |
तत्रेश्वरः सर्वज्ञः परमात्मैक एव |
जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च || १७||
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः |
तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं
च || १८||
चक्षुर्मात्रग्राह्यो गुणो रूपम् |
तच्च शुक्लनीलपीतरक्तहरितकपिशचिन्न
भेदात्सप्तविधम् |
पृथिवीजलतेजोवृत्ति |
तत्र पृथिव्यां सप्तविधम् |
अभास्वरशुक्लं जले |
भास्वरशुक्लं तेजसि || १९||
रसनग्राह्यो गुणो रसः |
स च मधुराम्ललवणकटुकषायतिक्तभेदात्
षड्विधः |
पृथिवीजलवृत्तिः | तत्र पृथिव्यां षड्विधः|
जले मधुर एव || २०||
घ्राणग्राह्यो गुणो गन्धः |
स द्विविधः सुरभिरसुरभिश्च |
पृथिवीमत्रवृत्तिः || २१||
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः |
स च त्रिविधः शीतोष्णानुष्णाशीतभेदात् |
पृथिव्यप्तेजोवायुवृत्तिः |
तत्र शीतो जले |
उष्णस्तेजसि |
अनुष्णाशीतः पृथिवीवाय्वोः || २२||
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च |
अन्यत्र अपाकजं नित्यमनित्यं च |
नित्यगतं नित्यम् |
अनित्यगतमनित्यम् || २३||
एकत्वादिव्यवहारहेतुः संख्या |
सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता |
एकत्वं नित्यमनित्यं च |
नित्यगतं नित्यम् |
अनित्यगतमनित्यम् |
द्वित्वादिकं तु सर्वत्राऽनित्यमेव || २४||
मानव्यवहारासाधारणकारणं परिमाणम् |
नवद्रव्यवृत्तिः |
तच्चतुर्विधम् |
अनु महद्दीर्घं हृस्वं चेति || २५||
पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् |
सर्वद्रव्यवृत्तिः || २६||
संयुक्तव्यवहारहेतुः संयोगः |
सर्वद्रव्यवृत्तिः || २७||
संयोगनाशको गुणो विभागः |
सर्वद्रव्यवृत्तिः || २८||
परापरव्यवहारासाधारणकारणे परत्वापरत्वे |
पृथिव्यादिचतुष्टय मनोवृत्तिनी |
ते द्विविधे दिक्कृते कालकृते च |
दूरस्ते दिक्कृतं परत्वम् |
समीपस्थे दिक्कृतमपरत्वम् |
ज्येष्ठे कालकृतं परत्वम् |
कनिष्ठे कालकृतमपरत्वम् || २९||
आद्यपतनासमवायिकारणं गुरुत्वम् |
पृथिवीजलवृत्ति || ३०||
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् |
पृथिव्यप्तेजोवृत्ति |
तद्द्विविधं सांसिद्धिकं नैमित्तिकं च |
सांसिद्धिकं जले |
नैमित्तिकं पृथिवीतेजसोः |
पृथिव्यां घृतादावग्नि संयोगजं द्रवत्वम् |
तेजसि सुवर्णादौ || ३१||
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः |
जलमात्रवृत्तिः || ३२||
श्रोत्रग्राह्यो गुणः शब्दः आकाशमात्रवृत्तिः |
स द्विविधः ध्वन्यात्मकः वर्णात्मकश्च |
तत्र ध्वन्यात्मकः भेर्यादौ |
वर्णात्मकः संस्कृतभाषादिरूपः || ३३||
सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् |
सा द्विविधा स्मृतिरनुभवश्च |
संस्कारमात्रजन्यं ज्ञानं स्मृतिः |
तद्भिन्नं ज्ञानमनुभवः |
स द्विविधः यथार्थोऽयथार्थश्च |
तद्वति तत्प्रकारकोऽनुभवो यथार्थः |
यथा रजते इदं रजतमिति ज्ञानम् |
सैव प्रमेत्युच्यते |
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः |
यथा शुक्ताविदंरजतमिति ज्ञानम् |
सैव अप्रमेत्युच्यते || ३४||
यथार्थनुभवश्चतुर्विधः
प्रत्यक्षानुमित्युपमितिशाब्दभेदात् |
तत्करणमपि चतुर्विधं
प्रत्यक्षानुमानोपमानशाब्दभेदात् ||३५||
असाधारणं कारणं करणम् |
कार्यनियतपूर्ववृत्ति कारणं |
कार्यं प्रागभावप्रतियोगि || ३६||
कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् |
यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् |
यथा तंतवः पटस्य पटश्च स्वगतरूपादेः |
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति
यत्कारणं
तदसमवायिकारणम् |
यथा तंतुसंयोगः पटस्य तन्तुरूपं पटरूपस्य |
तदुभयभिन्नं कारणं निमित्तकारणम् |
यथा तुरीवेमादिकं पटस्य |
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं
तदेव करणम् || ३७||
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् |
इन्द्रियार्थसंनिकर्षजन्यं ज्ञानं प्रत्यक्षम् |
तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति |
तत्र निष्प्रकारणं ज्ञानं निर्विकल्पकं यथेदं
किञ्चित् |
सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं
ब्राह्मणोऽयं श्यामोऽयं
पाचकोऽयमिति || ३८||
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः
षड्विधः |
संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः
समवायः
समवेतसमवायः विशेषणविशेष्यभावश्चेति |
चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः |
घटरूपप्रत्यक्षजनने संयुक्तसमवायः
संनिकर्षः |
चक्षुः संयुक्ते घटे रूपस्य समवायात् |
रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः
संनिकर्षः |
चक्षुः संयुक्ते घटे रूपं समवेतं तत्र
रूपत्वस्य समवायात् |
श्रोत्रेण शब्दसाक्षात्कारे समवायः संनिकर्षः
कर्णविवरवर्त्याकाशस्य
श्रोत्रत्वात् शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च
समवायात् |
शब्दत्वसाक्षात्कारे समवेतसमवायः संनिकर्षः
श्रोत्र्समवेते शब्दे
शब्दत्वस्य समवायात् |
अभावप्रत्यक्षे विशेषणविशेष्यभावः संनिकर्षः
घटाभाववद्भूतलमित्यत्र
चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् |
एवं संनिकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं
तत्करणमिन्द्रियं
तस्मातिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् || ३९||
अनुमितिकरणमनुमानम् |
परामर्शजन्यं ज्ञानमनुमितिः |
व्याप्तिविशिष्टपक्षधर्मताज्ञानं |
यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं
परामर्शः |
तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः |
यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो
व्याप्तिः |
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता || ४०||
अनुमानं द्विविधं स्वार्थं परार्थं च |
तत्र स्वार्थं स्वानुमितिहेतुः तथाहि स्वायमेव
भूयोदर्शनेन यत्र यत्र
धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा
पर्वतसमीपं गतः
तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिं
स्मरति यत्र यत्र
धूमस्तत्र तत्राग्निरिति |
तदनन्तरं वह्निव्याप्यधुमवानयं पर्वत इति
ज्ञानमुत्पद्यते अयमेव
लिश्ण्गपरामर्श इत्युच्यते |
तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते |
तदेतत्स्वार्थानुमानम् |
यत्तु स्वयं धुमाग्निमनुमाय परंप्रतिबोधयितुं
पञ्चावयव वाक्यं प्रयुज्यते
तत्परार्थानुमानम् |
यथा पर्वतो वह्निमान्धूमत्वाद्यो यो धूमवान्स
वह्निमान्यथा महानसः तथा
चायं तस्मात्तथेति |
अनेन प्रतिपादिताल्लिष्ण्गात्परोऽप्यग्निं प्रतिपद्यते || ४१||
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः |
पर्वतो वह्निमानिति प्रतिज्ञा |
धूमवत्वादिति हेतुः |
यो यो धूमवान्स वह्निमान्यथा महानस इत्युदाहरणम् |
तथा चायमित्युपनयः |
तस्मात्तथेति निगमनम् || ४२||
स्वार्थानुमितिपरार्थानुमित्योः लिश्ण्गपरामर्श एव
करणम् |
तस्माल्लिश्ण्गपरामर्शोऽनुमानम् || ४३||
लिश्ण्गं त्रिविधम् |
अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति |
अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि |
यथा वह्नौ साध्ये धूवत्त्वम् |
यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः |
यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद
इति व्यप्तिरेकव्याप्तिः |
अन्वयमात्रव्याप्तिकं केवलान्वयि |
यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् |
अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति
सर्वस्यापि
प्रमेयत्वादभिधेयत्वाच्च |
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि यथा
पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् |
यदितरेभ्यो न भिद्यते न तद्गन्धवद्यथा जलम् |
न चेयं तथा |
तस्मान्न तथेति |
अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो
नास्ति पृथिवीमात्रस्य
पक्षत्वात् || ४४||
सन्दिग्धसाध्यवान्पक्षः |
यथा धूमवत्त्वे हेतौ पर्वतः |
निश्चितसाध्यवान्सपक्षः यथा तत्रैव महानसम् |
निश्चितसाध्याऽभाववान्विपक्षः यथा तत्रैव
महाह्रदः || ४५||
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च
हेत्वाभासाः |
सव्यभिचारोऽनैकान्तिकः |
स त्रिविधः साधारणासाधारणानुपसंहारिभेदात् |
तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः यथा
पर्वतो वह्निमान्प्रमेयत्वादिति |
प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् |
सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः
असाधारणः |
यथा शब्दो नित्यः शब्दत्वादिति |
शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च
व्यावृत्तं शब्दमात्रवृत्तिः |
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी |
यथा सर्वमनित्यं प्रमेयत्वादिति |
अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति |
साध्याभावव्याप्तो हेतुर्विरुद्धः |
यथा शब्दो नित्यः कृतकत्वादिति |
कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् |
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स
सत्प्रतिपक्षः |
यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत् |
शब्दोऽनित्यः कार्यत्वाद्घटवत् |
असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो
व्याप्यत्वासिद्धश्चेति |
आश्रयासिद्धो यथा गगनारविन्दं सुरभि
अरविन्दत्वात्सरोजारविन्दवत् |
अत्र गगनारविन्दमाश्रयः स च नास्त्येव |
स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् |
अत्र चाक्षुषत्वं शब्दं नास्ति शब्दस्य
श्रावणत्वात् |
सोपाधिको हेतुः व्याप्यत्वासिद्धः |
साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः |
साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं
साध्यव्यापकत्वम् |
साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं
साधनाव्यापकत्वम् |
पर्वतो धूमवान्वह्निमत्वादित्यत्रार्द्रेन्धनसंयोग
उपाधिः |
तथाहि |
यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता |
यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्त्ययोगोलके
आर्द्रेन्धनसंयोगाभावादिति
साधनाव्यापकता |
एवं साध्यव्यापकत्वे अस्ति
साधनाव्यापकत्वार्द्रेन्धनसंयोग उपाधिः |
सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम् |
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स
बाधितः |
यथा वह्निरनुष्णो द्रव्यत्वाज्जलवत् |
अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं
स्पर्शनप्रत्यक्षेण गुह्यते
इति बाधितत्वम् || ४६||
उपमितिकरणमुपमानम् |
संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः |
तत्करणं सादृश्यज्ञानम् |
अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः |
तथा हि
कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो
गवय इति श्रुत्वा वन गतो वाक्यार्थं
स्मरन्गोसदृशं पिण्डं पश्यति |
तदनन्तरमसौ गवयशब्दवाच्य
इत्युपमितिरुत्पद्यते || ४७||
आप्तवाक्यं शद्बः |
आप्तस्तु यथार्थवक्ता |
वाक्यं पदसमूहः |
यथा गामानयेति |
शक्तं पदम् |
अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः
शक्तिः || ४८||
आकाश्ण्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः
पदस्य
पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाश्ण्क्षा |
अर्थाबाघो योग्यता |
पदानामविलम्बेनोच्चारारणं संनिधिः || ४९||
आकाश्ण्क्षादिरहितं वाक्यमप्रमाणम् |
यथा गौरश्वः पुरुषो हस्तीति न
प्रमाणमाकाश्ण्क्षाविरहात् |
अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् |
प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न
प्रमाणं साम्निध्याभावात् || ५०||
वाक्यं द्विविधम् |
वैदिकं लौकिकं च |
वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् |
लौकिकं त्वाप्तोक्तं प्रमाणम् |
अन्यदप्रमाणम् || ५१||
वाक्यार्थ्ज्ञानं शब्दज्ञानम् |
तत्करणं शब्दः || ५२||
अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् |
एकस्मिन्धर्मिणि विरुद्धनानाध्र्म्वैशिष्ट्यावगाहि
ज्ञानं संशयः |
यथा स्थाणुर्वा पुरुषो वेति |
मिथ्याज्ञानं विपर्ययः |
यथा शुक्तौ इदं रजतमिति |
व्याप्यारोपेण व्यापकारोपस्तर्कः यथा यदि वह्निर्न
स्यात्तर्हि धूमोऽपि न स्यादिति || ५३||
स्मृतिरपि द्विविधा |
यथार्थायथार्था च |
प्रमाजन्या यथार्था |
अप्रमाजन्याऽयथार्था || ५४||
सर्वेषामनुकूलतया वेदनीयं सुखम् || ५५||
सर्वेषां प्रतिकूलतया वेदनीयं दुःखम् || ५६||
इच्छा कामः || ५७||
क्रोधो द्वेषः || ५८||
कृतिः प्रयत्नः || ५९||
विहितकर्मजन्यो धर्मः || ६०||
निषिद्धकर्मजन्यस्त्वधर्मः || ६१||
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः || ६२||
बुद्धीच्छा प्रयत्ना द्विविधाः |
नित्या अनित्याश्च |
नित्या ईश्वरस्यानित्या जीवस्य || ६३||
संस्कारस्त्रिविधः |
वेगो भावना स्थितिस्थापकश्चेति |
वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः |
अनुभवजन्या स्मृतिहेतुर्भावना |
आत्ममात्रवृत्तिः |
अन्यथाकृतस्य पुनस्तदवस्थापकः स्थितिस्थापकः
कटादिपृथिवीवृत्तिः || ६४||
चलनात्मकं कर्म |
ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् |
अधोदेशसंयोगहेतुरपक्षेपणम् |
शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम् |
विप्रकृष्टसंयोगहेतुः प्रसारणम् |
अन्यत्सर्वं गमनम् |
पृथिव्यादिचतुष्टयमनोमात्रव्ट्ति || ६५||
नित्यमेकमनेकानुगतं सामान्यं
द्रव्यगुणकर्मवृत्ति |
तद्द्विविधं पराऽपरभेदात् |
परं सत्ता |
अपरं द्रव्यत्वादिः || ६६||
नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः || ६७||
नित्यसम्बन्धः समवायः |
अयुतसिद्धवृत्तिः |
ययोर्द्वयोर्मध्ये
एकमविनश्यदपराऽश्रितमेवावतिष्ठते
तावयुतसिद्धौ
यथा अवयवाऽवयविनौ क्रियाक्रियावन्तौ जातिव्यक्ती
विशेषनित्यद्रव्ये चेति || ६८||
अनादिः सान्तः प्रागभावः |
उत्पत्तेः पूर्वं कार्यस्य |
सादिरनन्तः प्रध्वंसः |
उत्पत्यनन्तरं कार्यस्य |
त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः |
यथा भूतले घटो नास्तीति |
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः |
यथा घटः पटो नेति || ६९||
सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव
पदार्था इति सिद्धम् || ७०||
कणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये |
अन्नंभट्टेन विदुषा रचितस्तर्कसंग्रहः ||
इति श्रीमहामहोपाध्याय
अन्नंभट्टविरचिततर्कसंग्रहः समाप्तः ||
Encoded by Vlad Sovarel (svlad1972@rediffmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com