.. तर्कसंग्रह अध्याय १ - ८ ..
अथ प्रथमोऽध्याय |
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् .
बालानां सुखबोधाय क्रियते तर्कसंग्रह .. १ ..
दीपिका
विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम् .
टीकां शिशुहितां कुर्वे तर्कसंग्रहदीपिकाम् ..
चिकीर्षितस्य ग्रनथस्य निर्विघ्नपरिसमाप्त्यर्थं
शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताक्- इष्टदेवतानमस्कारात्मकं
मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नंश्चिकीर्षितं प्रतिजानीते .
निधायेति . ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति . मङ्गले कृतेऽपि
किरणवल्यादौ समाप्त्यदर्शनात्, मङ्गलाभावेऽपि कादम्बर्मादौ
समाप्तिदर्शनाच्च अन्वयव्यतिरेकाभ्यां व्यभिचारादिति चेत् न .
किरणावल्यादौ विघ्नबाहुल्यात्समाप्त्यभावः . कादम्बर्यादौ ग्रन्थाद्वहिरेव
मङ्गलं कृत्मतो न व्यभिचारः . ननु मङ्गलस्य (ग्रन्थादौ)
कर्तव्यत्वे किं प्रमाणमिति चेत् न . शिष्टाचारानुमितश्रुतेरेव्
प्रमाणत्वात् . तथा हि मङ्गलं
वेद- बोधित्कर्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वाद्दर्शादिवत् .
भोजनादौ व्यभिचार वारणाय अलौकिकेति . रात्रिश्राद्धादौ
व्यभिचारवारणाय अविगीतेति . शिष्टपदं स्पष्टार्थम् . न
कुर्यान्निष्फलं कर्म इति जलताडनादेरपि निषिद्धत्वात् . तर्क्यन्ते
प्रतिपाद्यन्ते इति तर्काः द्रव्यादिपदार्थास्तेषां संग्रहः संक्षेपेण
स्वरूपकथनं क्रियत इत्यर्थः . कस्मै प्रयोजनायेत्यत आह .
सुखबोधायेति . सुखेनानायासेन यो बोधः पदार्थज्ञानं तस्मा इत्यर्थः .
ननु बहुषु तर्कग्रथेषु सत्सु किमर्थम्पूर्वोऽयं ग्रन्थः क्रियत
इत्यत आह . बालानामिति . तेषामतिविस्तृतत्वाद्वालानां बोधो न जायत
इत्यर्थः . ग्रहणधारणपुटुर्बालः न तु स्तनन्धयः . किं कृत्वा
क्रियत इत्यत आह . निधायेति . विश्वेशं जगन्नियन्तारम् . हृदि निधाय
नितरां स्थापयित्वा सदा तद्धयानपरो भूत्वेत्यर्थः . गुरूणां
विद्यागुरूणां, वन्दनं नम्स्कारं, विधाय कृत्वेत्यर्थः ..
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः .. २ ..
दीपिका
पदार्थान् विभ्जते . द्रव्येति . पदस्यार्थः पदार्थः इति
व्युत्पत्त्याभिधेयत्वं पदार्थसामान्यलक्षणम् (लभ्यते). ननु
विभागादेव सप्तत्वे सिद्धे सप्त (पद)ग्रहणं व्यर्थमिति चेत्,
न अधिकसंख्याव्यवच्छेदार्थकत्वात् . नन्वतिरिक्तः पदार्थः
प्रमितो वा न वा . नाऽद्यः प्रमितस्य निषेधायोगात् . न द्वितीयः
प्रतियोगिप्रमितिं विना निषेधानुपपत्तेरिति चेत्, न . पदार्थत्वं
द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थकत्वात्
(सप्तग्रहणम्). ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति
वक्तव्यम् . सप्तभिन्नस्याप्रसिद्धया कथं सप्तान्यतमत्वव्याप्तिनिश्चय
इति चेत्, न . द्रव्यादिसप्तान्यतमत्वं नाम
द्रव्यादिभेदसप्तकाभाववत्त्वम् . अतो दोषविरहात् . एवमग्रेऽपि
द्रष्टव्यम् ..
तत्र द्रव्याणी पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव .. ३ ..
दीपिका
दव्यं (द्रव्याणि)विभजते . तत्रेति . तत्र द्रव्यादिमध्ये .
द्रव्याणि नवैवेत्यन्वयः . कानि तानि इत्यत आह . पृथिवीति . ननु तमसो
दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणीति . तथा हि . नीलं
तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया च
तमसो द्रव्यत्वं ताव्त् सिद्धम् . तत्र तमसो नाकाशादिपञ्चकेऽन्तर्भावः
रूपवत्त्वात् . अत एव न वायौ, स्पर्शाभावात् सदागतिमत्त्वाभावाच्च .
नापि तेजसि, भास्वरूपाभावात् उष्णस्पर्शाभावाच्च . नापि जले,
शीतस्पर्शाभावात् नीलरूपवत्त्वाच्च . नापि पृथिव्यां, गन्धाभावात्
स्पर्शरहितत्वाच्च . तस्मात्तमो दशमद्रव्यमिति चेत्, न .
तमसस्तेजोऽभावरूपत्वात् . तथा हि . तमो न
रूपिद्रव्यमालोकासहकृतचक्षुर्ग्राह्यत्वादालोकाभाववत् .
रूपिद्रव्यचाक्षुषप्रमायामालोकस्य कारणत्वात् . तस्मात्
प्रौढप्रकाशकतेजस्सामान्याभावस्तमः, तत्र नीलं तमश्चलति इति
प्रत्ययो भ्रमः . अतो नव द्रव्याणीति सिद्धम् . द्रव्यत्वजातिमत्त्वं
गुणवत्त्वं वा द्रव्यसामान्यलक्षणम् . लक्ष्यैकदेशावृत्तित्वमव्याप्तिः .
यथा गोः कपिलत्वम् . अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः . यथा गोः
श्रृङ्गित्वम् . लक्ष्यमात्रावृत्तित्वमसंभवः . यथा
गोरेकशफवत्त्वम् . एतद्दूषणत्रयरहितधर्मो लक्षणम् . स
एवासाधारणधर्म इत्युच्यते .
लक्षयतावच्छेदकसमनियतत्वमसाधारणत्वम् . व्यावर्तकस्यैव
लक्षणत्वे व्यावृत्तावभिदेयत्वादौ चातिव्याप्तिरतस्तद्वारणाय
तद्भिन्नत्वं धर्मविशेषणं देयम् . व्यवहारस्यापि लक्षणप्रयोजनत्वे
तन्न देयम् . व्यावृत्तेरपि व्यवहारसाधनत्वात् . ननु गुणवत्त्वं न
द्रव्यलक्षणम्, आद्यक्षणावच्छिन्नघटे उत्पन्नविनिष्टघटे
चाव्याप्तेरिति चेत्, न . गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य
विवक्षितत्वात् . नन्वेवमपि एकं रूपं रसात्पृथक् इति
व्यवहाराद्रूपादावतिव्याप्तिरिति चेत्, न . एकार्थसमवायादेव
तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारात् .
रूप- रस- गन्ध- स्पर्श- संख्या- परिमाण- पृथक्त्व- संयोग- विभाग- पर्
अत्वा- ऽपरत्व- गुरूत्व- द्रवत्व- स्नेह- शब्द- बुद्धि- सुख- दुःखेच्छा
द्वेष- प्रयत्न- धर्माधर्म- संस्काराः चतुर्विंशतिर्गुणाः .. ४ ..
दीपिका
गुणान्विभजते . रूपेति . द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः .
गुणत्वजातिमान्वा . ननु लघुत्वकठिनत्वमृदुत्वादीनां विद्यमानत्वात्
कथं चतुर्विंशतिर्गुणा इति चेत्, न . लघुत्वस्य
गुरूत्वाभावरूपत्वान्मृदुत्वकठिनत्वयोः अवयवसंयोगविशेषत्वात् .
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि .. ५ ..
दीपिका
कर्म विभजते . उत्क्षेपणेति . संयोगभिन्नत्वे सति
संयोगासमवायिकारणं कर्म कर्मत्वजातिमद्वा . भ्रमणादीनामपि गमने
अन्तर्भावान्न पञ्चत्वविरोधः ..
परमपरं चेति द्विविधं सामान्यम् .. ६ ..
दीपिका
सामान्यं विभजते . परमिति . परमधिकदेशवृत्ति . अपरं
न्यूनदेशवृत्ति . सामान्यादिचतुष्टये जातिर्नास्ति ..
नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव .. ७ ..
दीपिका
विशेषं विभजते . नित्येति . पृथिव्यादिचतुष्टयपरमाणवः
आकाशादिपञ्चकं च नित्यद्रव्याणि .
समवायस्त्वेक एव .. ८ ..
दीपिका
समवायस्य भेदो नास्तीत्याह . समवायस्त्विति .
अभावश्चतुर्विधः - प्रागभावः, प्रध्वंसाभावः,
अत्यन्ताभावः, अन्योन्याभावश्चेति .. ९ ..
दीपिका
अभावं विभजते . प्रागभावेति .
अथ द्वितीयोऽध्याय |
तत्र गन्धवती पृथिवी . सा द्विविधा- नित्याऽनित्या च . नित्या
परमाणुरूपा . अनित्या कार्यरूपा . पुनस्त्रिविधा शरीरेन्द्रिय विषयभेदात् .
शरीरमस्मदादीनाम् . इन्द्रियं गन्धग्राहकं घ्राणम् . तच्च नासाग्रवर्ति .
विषयो मृत्पाषाणादिः .. १..
दीपिका
तत्रोद्देशक्रमानुसारात् प्रथमं पृथिव्या लक्षणमाह . तत्रेति . नाना
पदार्थसंकीर्तनमुद्देशः . उद्देशक्रमे च सरवत्रेच्छैवं नियामिका .
ननु सुरभ्यसुरभ्यवयवाख्धे द्रव्ये परस्परविरोधेन
गन्धानुत्पादादव्याप्तिः . न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम् .
अवयवगन्धस्यैव तत्र प्रतीतिसंभवेन चित्रगन्धानङ्गीकारात् किं
चोत्पन्नविनष्टघटादावव्याप्तिरिति चेत् न .
गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात् . ननु
जलादावपि गन्धप्रतीतिरिति चेत् न . अन्वयव्यतिरेकाभ्यां
पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात् . ननु कालस्य सर्वाधारतया
सर्वेषां लक्षणानां कालेऽतिव्याप्तिरिति चेत् न .
सर्वाधारताप्रयोजकभिन्नसंबन्धेन लक्षणत्वस्य विवक्षितत्वात् .
पृथिवीं विभजते . सा द्विविधेति . नित्यत्वं ध्वंसाप्रतियोगित्वम् .
अनित्यत्वं ध्वंसप्रतियोगित्वम् . प्रकारान्तरेण विभजते . पुनरिति . आत्मनो
भोगायतनं शरीरम् . यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् .
सुखदुःखसाक्षात्कारो भोगः . शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति
ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम् . शरीरेन्द्रियभिन्नो
विषयः . एवं च गन्धवच्छरीरं पार्थिवशरीरम्,
गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषय
इति तत्तल्लक्षणं बोध्यम् . पार्थिवशरीरं दर्शयति . शरीरमिति .
इन्द्रियं दर्शयति . इन्द्रियमिति . गन्धग्राहकमिति प्रयोजनम् . घ्राणमिति
संज्ञा . नासाग्रेत्याश्रयोक्तिः . एवमुत्तरत्र ज्ञेयम् . पार्थिवविषयं
दर्शयति . मृतपाषाणादीति .
शीतस्पर्शवत्यः आपः . ता द्विविधाः नित्या अनित्याश्च . नित्याः
परमाणुरूपाः . अनित्याः कार्यरूपाः . पुनः त्रिविधाः
शरीरेन्द्रियविषयभेदात् . शरीरं वरूणलोके . इन्द्रियं रसग्राहकं
रसनं जिह्वाग्रवर्ति . विषयः सरित् समुद्रादिः .. २..
दीपिका
अपां लक्षणमाह . शीतेति . उतपन्नविनिष्टजलेऽव्याप्तिवारणाय
शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वम् . ``शीतं
शिलातलम्"इत्यादौ जलसंबन्धादेव शीतस्पर्शभानमिति
नातिव्याप्तिः . अन्यत्सर्वं पूर्वरीत्या व्याख्येयम् ..
उष्णस्पर्शवत् तेजः . तच्च द्विविधं, नित्यमनित्यं च . नित्यं
परमाणुरूपम् . अनित्यं कार्यरूपम् . पुनः त्रिविधं
शरीरेन्द्रियविषयभेदात् . शरीरं आदित्यलोके प्रसिद्धम् . इन्द्रियं
रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति . विषयः चतुर्विधः,
भौम- दिव्य- औदर्य- आकरज भेदात् . भौमं वह्नयादिकम् . अबिन्धनं
दिव्यं विद्युदादि . भुक्तस्य परिणामहेतुरौदर्यम् . आकरजं सुवर्णादि .. ३..
दीपिका
तेजसो लक्षणमाह . उष्णस्पर्शवदिति . `उष्णं जलम्'इति
प्रतीतेस्तेजः संयोगानुविधायित्वान्नातिव्याप्तिः . विषयं विभजते .
भौमेति . ननु `सुवणं पार्थिवं'पीतत्वाद्गुरूत्वात् हरिद्रावत् इति
चेत् न . अत्यन्तानलसंयोगे सति घृतादौ द्रव्त्वनाशदर्शनेन,
जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके
पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्सुवर्णस्य
अत्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन
पार्थिवत्वाऽनुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया
द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः
रूपवत्तया वाय्वादिष्वनन्तर्भावात्तेजसत्वसिद्धिः .
तस्योष्णस्पर्शभास्वररूपयोरूपष्टम्भक पार्थिवरूपस्पर्शाभ्यां
प्रतिबन्धादनुपलब्धिः . तस्मात् सुवर्णं तैजसमिति सिद्धम् .
रूपरहितः स्पर्शवान् वायुः . स द्विविधः नित्यः अनित्यश्च . नित्यः
परमाणुरूपः . अनित्यः कार्यरूपः . पुनः त्रिविधः शरीरेन्द्रियविषय
भेदात् . शरीरं वायुलोके . इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति .
विषयो वृक्षादिकम्पनहेतुः . शरीरान्तःसंचारी वायुः प्राणः . स च
एकोऽपि उपाधिभेदात् प्राणापानादिसंज्ञां लभते .. ४ ..
दीपिका
वायुं लक्षयति . रूपरहितेति . आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति .
पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति . प्राणस्य कुत्रान्तर्भाव इत्यत
आह . शरीरेति . स चेति . एक एवः प्राणः स्थानभेदात्प्राणापानादिशब्दैः
व्यवह्रियत इत्यर्थः . स्पर्शानुमेयो वायुः . तथा हि -योऽयं वायौ
वाति सति अनुष्णाशीतस्पर्श उपलभ्यते स क्कचिदाश्रितः
गुणत्वाद्रूपवत् . न चास्य आश्रयः पृथिवी
उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपत्त्वनियमात् . न जल तेजसि
अनुष्णाशीतस्पर्शवत्त्वात् . न विभुचतुष्टयम् सर्वत्रोपलब्धिप्रसङ्गात् .
न मनः परमाणुस्पर्शस्यातीन्द्रियत्वात् . तस्माद्यः प्रतीयमानस्पर्शाश्रयः
स वायुः (एव). ननु वायुः प्रत्यक्षः प्रत्यक्षाश्रयत्वात् घटवत्
इति चेत् न . उद्भूतरूपस्योपाधित्वात् . `यत्र द्रव्यत्वे सति
बहिरिन्द्रियजन्यप्रत्यक्षत्वं, तत्र उद्भूतरूपवत्त्वम् 'इति
साध्यव्यापकत्वम् . पक्षे साधनाव्यापकत्वम् . न चैवं
तप्तवारिस्थतेजसोऽपि अप्रत्यक्षत्वापत्तिः इष्टत्वात् .
तस्माद्रूपरहितत्वाद्वायुरप्रत्यक्षः . इदानीं
कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते . ईश्वरस्य
चिकीर्षावशात्परमाणुषु क्रिया जायते . ततः परमाणुद्वयसंयोगे
द्वयणुकमुत्पद्यते . त्रिभिरेव द्वयणुकैस्त्रयणुकमुत्पद्यते . एवं
चतुरणुकादिक्रमेण महती पृथिवीः, महत्य आपः, महत्तेजः,
महान्वायुरूत्पद्यते . एवमुत्पन्नस्य कार्यद्रव्यस्य संजिहीर्षावशात्
क्रियया परमाणुद्वयविभागे द्वयणुकनाशः . इत्येवं पृथिव्यादिनाशः .
असमवायिकारणाशात् द्वयणुकनाशः . समवायिकारणाशात् त्र्यणुकनाश इति
संप्रदायः सर्वत्रासमवायिकारणनाशात् द्रव्यनाश इति नवीनाः . किं पुनः
परमाणुसद्भावे प्रमाणम् . उच्यते --जालसूर्यमरीचिस्थं सर्वतः
सूक्षमतमं यत् द्रव्यं उपलभ्यते तत्सावयवं
चाक्षुषद्रव्यत्वाद्धटवत् . त्र्यणुकावयवोऽपि सावयवः
महदारम्भकत्वात्कपालवत् . यो द्वयणुकावयवः स परमाणुः . स च
नित्यं, तस्यापि कार्यत्वे अनवस्थाप्रसङ्गात् . सृष्टिप्रलयसद्भावे
`धाता यथापूर्वमकल्पयत् . 'इति श्रुतिरेव प्रमाणम् .
`सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः . सर्वभावकार्यध्वंसो
महाप्रलयः'इति विवेकः .
शब्दगुणकमाकाशम् . तच्चैकं नित्यञ्च .. ५..
दीपिका
आकाशं लक्षयति . शब्दगुणकमिति . नन्वाकाशमपि
पृथिव्यादिवन्नाना, किं नेत्याह . तच्चैकमिति . भेदे
प्रमाणाभावादित्यर्थः . एकत्वादेव सर्वत्र
शब्दोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह विभ्विति .
सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वं, मूर्तत्वं
परिच्छिन्नपरिमाणवत्त्वं क्रियावत्त्वं वा.विभुत्वादेव
आत्मवन्नित्यमित्याह . नित्यं चेति .
अतीतादिव्यवहारहेतुः कालः . स चैको विभुर्नित्यश्च .. ६..
दीपिका
कालं लक्षयति . अतीतेति . सर्वाधारः कालः सर्वकार्यनिमित्तकारणम् .
प्राच्यादिव्यवहारहेतुर्दिक् . सा चैका विभ्वी नित्या च .. ७..
दीपिका
दिशो लक्षणमाह . प्राचीति . दिगपि कार्यमात्रनिमित्तकारणम् .
ज्ञानाधिकरणमात्मा . स द्विविधः परमात्मा जीवात्मा च . तत्रेश्वरः
सर्वज्ञः परमात्मैक एव . जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च .. ८..
दीपिका
आत्मनो लक्षणमाह . ज्ञानेति . आत्मानं विभजते . स द्विविध इति .
परमात्मनो लक्षणमाह . तत्रेति . नित्यज्ञानाधिकरणत्वमीश्वरत्वम् .
नन्वीश्वरसद्भावे किं प्रमाणम् . न तावत्प्रत्यक्षम् . तद्धि बाह्यामान्तरं
वा . नाद्यः अरूपिद्रव्यत्वात् . न द्वितीयः आत्मसुखदुःखादिव्यतिरिक्तत्वात् .
नाप्यनुमानं लिङ्गाभावादिति चेत् न . अङ्कुरादिकं सकर्तृकं
कार्यत्वाद्धटवत् इत्यनुमानस्यैव प्रमाणत्वात् .
उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् . उपादानं
समवायिकारणम् . सकलपरमाण्वादिसूक्ष्मदर्शित्वात्सर्वज्ञत्वम् . यः
सर्वज्ञः स सर्ववित् इत्यागमोऽपि तत्र प्रमाणम् . जीवस्य लक्षणमाह .
जीव इति . सुखाद्याश्रयत्वं जीवलक्षणम् . ननु मनुष्योऽहं ब्राह्मणोऽहम्
इत्यादौ सर्वत्राहंप्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति
चेत् न . शरीरस्यात्मवे करपादिनाशे शरीरनाशादात्मनोऽपि
नाशप्रसंगात् . नापीन्द्रियाणामात्मत्वम् , `योऽहं घटमद्राक्षं
सोऽहमिदानीं स्पृशामि'इत्यनुसन्धानाभावप्रसङ्गात् .
अन्यानुभूतेऽर्थे अन्यस्यानुसंधानायोगात् . तस्माद्देहेइन्द्रियव्यतिरिक्तो जीवः
सुखदुःखादिवैचित्र्यात्प्रतिशरीरं भिन्नः . स च न परमाणुः .
सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात् . न मध्यमपरिमाणवान् तथा
सति अनित्यत्वप्रसङ्गेन कृथानाकृताभ्यागमप्रसङ्गात् . तस्मान्नित्यो
विभुर्जीवः ..
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः . तच्च प्रत्यात्मनियतत्वादनन्तं
परमाणुरूपं नित्यं च .. ९..
दीपिका
मनसो लक्षणमाह . सुखेति . स्पर्शरहित्वे सति क्रियावत्वं मनसो
लक्षणम् . तद्विभजते . तच्चेति . एकैकस्यात्मन एकैकं मन
इत्यात्मनामनेकत्वान् मसोऽप्यनेकत्वमित्यर्थः . परमाणुरूपमिति .
मध्यमपरिमाणवत्त्वे अनित्यत्वप्रसङ्गादित्यर्थः . ननु मनो विभु
स्पर्शरहित्वे सति द्रव्यत्वादाकाशादिवदिति चेत् न . मनसो विभुत्वे
आत्ममनः संयोगस्याऽसमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गः . न
च विभुद्वयसंयोगोऽस्त्विति वाच्यम् . तत्संयोगस्य नित्यत्वेन
सुषुप्त्यभावप्रसङ्गात, पुरीतद्रव्यतिरिक्तस्थले आत्ममनः
संयोगस्य सर्वदा विद्यमानत्वात् . अणुत्वे तु यदा मनः पुरीतत् प्रविंशति
तदा सुषुप्तिः यदा निस्सरति तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः .
अथ तृतीयोऽध्याय |
चक्षुर्मात्रग्राह्यो गुणो रूपम्.तच्च
शुक्लनीलपीतरक्तहरितकपिशचित्र भेदात्सप्तविधम् .
पृथिवीजलतेजोवृत्ति . तत्र पृथिव्यां सप्तविधम् . अभावस्वरशुक्लं
जले . भावस्वरशुक्लं तेजसि .. १..
दीपिका
रूपं लक्षयति . चक्षुरिति . संख्यादावतिव्याप्तिवारणाय मात्रपदम् .
रूपत्वेऽतिव्याप्तिवारणाय गुणपदम् . नन्वव्याप्यवृत्तिनीलादिसमुदाय एव
चित्ररूपमिति चेत् न . रूपस्य व्याप्यवृत्तित्वनियमात् . ननु चित्रपटे
अवयवरूपस्यैव प्रतीतिरिति चेत् न . रूपरहितत्वेन
पटस्याप्रत्यक्षत्वप्रसंगात् . न च रूपवत्समवेतत्वं
प्रत्यक्षत्वप्रयोजकं गौरवात् . तस्मात्पटस्य
प्रत्यक्षत्वान्यथानुपपत्त्या चित्ररूपसिद्धिः . रूपस्याश्रयमाह .
पृथिवीति . आश्रयं विभज्य दर्शयति . तत्रेति .
रसनग्राह्यो गुणो रसः . स च मधुराम्ललवणकतुकषायतिक्तभेदात्
षड्विधः . पृथिवीजलवृत्तिः . तत्र पृथिव्यां षड्विधः . जले
मधुर एव .. २..
दीपिका
रसं लक्षयति . रसनेति . रसत्वेऽतिव्याप्तिवारणाय गुणपदम् .
रसस्याश्रयमाह . पृथिवीति . आश्रयं विभज्य दर्शयति . तत्रेति .
घ्राणाग्राह्यो गुणो गन्धः . स द्विविधः सुरभिरसुरभिश्च .
पृथिवीमात्रव्रित्तिः .. ३..
दीपिका
गन्धं लक्षयति . घ्राणेति . गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम् .
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः . स च त्रिविधः
शीतोष्णानुष्णाशीतभेदात् . पृथिव्यप्तेजोवायुवृत्तिः . तत्र शीतो जले .
उष्णस्तेजसि . अनुष्णाशीतः पृथिवीवायव्योः .. ४..
दीपिका
स्पर्शं लक्षयति . त्वगिति . स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम् .
संयोगादावतिव्याप्तिवारणाय मात्रपदम् .
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च . अन्यत्र अपाकजं
नित्यमनित्यम् च . नित्यगतं नित्यम् अनित्यगतमनित्यम् .. ५..
दीपिका
पाकजमिति . पाकस्तेजः संयोगः . तेन पूर्वरूपं नश्यति
रूपान्तरमुत्पद्यत इत्यर्थः . तत्र परमाणुष्वेव पाको न द्वयणुकादौ .
आमनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे
पुनद्वर्यणुकादिक्रमेण रक्तघटोत्पत्तिः . तत्र परमाणवः
समवायिकारणम् . तेजः संयोगोऽसमवायिकारणम् . अदृष्टादिकं
निमित्तकारणम् . द्वयणुकादिरूपे कारणरूपसमवायिकारणमिति पीलुपाकवादिनो
वैशेषिकाः . पूर्वघटस्य नाशं विनैव् अवयविनि अवयवेषु च
परमाणुपर्यन्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः .
अत एव पार्थिवपरमाणुरूपादिकमनित्यमनित्यर्थः . अन्यत्र
जलादावित्यर्थः . नित्यगतमिति . परमाणुगतमित्यर्थः . अनित्यगतमिति .
द्वयणुकादिगतभित्यर्थः . रूपादिचतुष्टयम् उद्भूतं प्रत्यक्षम् .
अनुद्भूतमप्रत्यक्षम् . उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः .
तदभावोऽनुद्भूतत्वम् .
एकत्वादिव्यवहारहेतुः संख्या . सा नवद्रव्यवृत्तिः
एकत्वादिपरार्धपर्यन्ता . एकत्वं नित्यमनित्यं च . नित्यगतं नित्यम् .
अनित्यगतमनित्यम् . द्वित्वादिकं तु सर्वत्राऽनित्यमेव .. ६..
दीपिका
संख्या लक्षयति . एकेति .
मानव्यवहारासाधारणकारणं परिमाणम् . नवद्रव्यवृत्तिः . तच्चुर्विधम् .
अणु महत् दीर्घं हृअस्वं चेति .. ७..
दीपिका
परिमाणं लक्षयति . मानेति . परिमाणं विभजते . तच्चेति . भावप्रधानो
निर्देशः . अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वं चेत्यर्थः .
पृथग्व्यवहारासाधारणकारणं पृथक्वत्वम् . सर्वद्रव्यवृत्तिः ..८..
दीपिका
संयुक्तव्यवहारहेतुः संयोगः . सर्वद्रव्यवृत्तिः .. ९..
दीपिका
संयोगं लक्षयति . संयुक्तेति . इमौ संयुक्तौ इति
व्यवहारहेतुरित्यर्थः . संख्यादिलक्षणे सर्वत्र
दिक्कालादावतिव्यप्तिवारणाय असाधाराणेति विशेषणीयम् . संयोगो द्विविधः
कर्मजः संयोगजश्चेति . आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः . द्वितीयो
हस्तपुस्तकसंयोगात्कायपुस्तकसंयोगः . अव्याप्यवृत्तिः संयोगः .
स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम् .
संयोगनाशको गुणो विभागः . सर्वद्रव्यवृत्तिः .. १०..
दीपिका
विभागं लक्षयति . संयोगेति . कालादावतिव्याप्तिवारणाय गुण इति .
रूपादावतिव्याप्तिवारणाय संयोगनाशक इति . विभागोऽपि द्विविधः कर्मजो
विभागजश्चेति . आद्यो हस्तपुस्तकविभागः . द्वितीयो
हस्तपुस्तकविभागात्कायपुस्तकविभागः .
परापरव्यवहारासाधारणकारणे परत्वापरत्वे . पृथिव्यादिचतुष्टय
मनोवृत्तिनी . ते द्विविधे दिक्कृते कालकृते च . दूरस्थे दिक्कृतं
परत्वम् . समीपस्थे दिक्कृतमपरत्वम् . ज्येष्ठे कालकृतं परत्वम् .
कनिष्ठे कालकृतमपरत्वम् .. ११..
दीपिका
परत्वापरत्वयोर्लक्षणमाह . परापरेति . परव्यवहारासाधारणकारणं
परत्वम् . अपरव्यवहारासाधारणकारणमपरत्वम् इत्यर्थः . ते विभजते .
ते द्विविधे इति . दिक्कृतयोरूदाहरणमाह . दूरस्थ इति . कालकृते
उदाहरति . ज्येष्ठ इति .
आद्यपतनासमवायिकारणं गुरूत्वम् . पृथिवीजलवृत्ति .. १२..
दीपिका
गुरूत्वं लक्षयति . आद्येति . द्वितीयादिपतनस्य
वेगासमवायिकारणत्वद्वेगेऽतिव्याप्तिवारणाय आद्येति .
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् . पृथिव्यप्तेजोवृत्ति . तद्द्विविधं
सांसिद्धिकं नैमित्तिकं च.सांसिद्धिकं जले . नैमित्तिकं
पृथिवीतेजसोः . पृथिव्यां घृतादावग्नि संयोगजं द्रवत्वम् . तेजसि
सुवर्णादौ .. १३ ..
दीपिका
द्रवत्वं लक्षयति . आद्येति . स्यन्दनं प्रस्रवणम् . तेजःसंयोगजं
नैमित्तिकम् . तद्भिन्नं सांसिद्धिकम् . पृथिव्यां नैमित्तिकमुदाहरति .
घृतादाविति . तेजसि तदाह . सुवर्णादाविति .
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः . जलमात्रवृत्तिः .. १४..
दीपिका
स्नेहं लक्षयति . चूर्णेति . कालादावतिव्याप्तिवारणाय गुणपदम् .
रूपादावतिव्याप्तिवारणाय पिण्डीभावेति .
श्रोत्रग्राह्यो गुणः शब्दः, आकाशमात्रवृत्तिः . स द्विविधः,
ध्वन्यात्मकः वर्णात्मकश्च . तत्र ध्वन्यात्मकः भेर्यादौ . वर्णात्मकः
संस्कृतभाषादिरूपः .. १५..
शब्दं लक्षयति . श्रोत्रेति . शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम् .
रूपादावतिव्याप्तिवारणाय श्रोत्रेति . शब्दास्त्रिविधः संयोगजः,
विभागजः, शब्दजश्चेति . तत्र आद्यो भेरीदण्डसंयोगजन्यः .
द्वितीयो वंशे पाटयमाने दळद्वयविभागजन्यश्चटाशब्दः .
भेर्यादिदेशमारभ्य श्रोत्रदेशपर्यन्तं द्वितीयादिशब्दाः शब्दजाः .
सर्वेव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् . सा द्विविधा स्मृतिरनुभवश्च .. १६..
दीपिका
बुद्धेर्लक्षणमाह . सर्वव्यवहारेति . कालादावतिव्याप्तिवारणाय गुण इति .
रूपादावतिव्याप्तिवारणाय सर्वव्यवहार इति . जानामीत्यनुव्यवसायगम्यं
ज्ञानमेव लक्षणमिति भावः . बुद्धिं विभजते . सेति .
संस्कारमात्रजन्यं ज्ञानं स्मृतिः .. १७..
दीपिका
स्मृतेर्लक्षणमाः . संस्कारेति . भावनाख्यः संस्कारः .
संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति .
घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति . प्रत्यभिज्ञायाम्
अतिव्याप्तिवारणाय मात्रपदम् .
तद्भिन्नं ज्ञानमनुभवः . स द्विविधः, यथार्थोऽयथार्थश्च .. १८..
दीपिका
अनुभवं लक्षयति . तद्भिन्नमिति . स्मृतिभिन्नं ज्ञानमनुभव
इत्यर्थः . अनुभवं विभजते . स द्विविध इति .
तद्वति तत्प्रकारकोऽनुभवो यथार्थः . यथा रजते इदं रजतमिति
ज्ञानम् . सैव प्रमेत्युच्यते .. १९..
दीपिका
यथार्थानुभवस्य लक्षणमाह . तद्वतीति . ननु घटे घटत्वम् इति
प्रमायामव्याप्तिः, घटत्वे घटाभावादिति चेत् न, यत्र
यत्संबन्धोऽस्ति तत्र तत्संबन्धानुभवः इत्यर्थाद्धटत्वे
घटसंबन्धोऽस्तीति नाव्याप्तिः . सैवेति . यथार्थानुभव एव शास्त्रे
प्रमेत्युच्यत इत्यर्थः .
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः . यथा
शुक्ताविदंरजतमिति ज्ञानम् . सैव अप्रमा इत्युच्यते .. २०..
दीपिका
अयथार्थानुभवं लक्षयति . तदभाववतीति . नन्विदं संयोगीति
प्रमायामतिव्याप्तिरिति चेत् न . यदवच्छेदेन
यत्संबन्धाभावस्तदवच्छेदेन तत्संबन्धज्ञानस्य विविक्षितत्वात् .
संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्संयोगावच्छेदेन
संयोगसंबन्धस्य सत्त्वान्नातिव्याप्तिः .
यथार्थानुभवः चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात् .. २१..
दीपिका
यथार्थानुभवं विभजते . यथार्थेति .
तत् करणमपि चतुर्विधं प्रत्यक्षानुमानोपशब्द भेदात् .. २२..
दीपिका
प्रसङ्गात्प्रमाकरणं विभजते . तत्करणमपीति . प्रमाकरणमित्यर्थः .
प्रमाकरणं प्रमाणमिति प्रमाणसामान्यलक्षणम् .
असाधरणं कारणं करणम् .. २३..
दीपिका
करणलक्षणमाह . असाधारणेति . दिक्कालादावतिव्याप्तिवारणाय असाधारणेति .
कार्यनियतपूर्ववृत्ति कारणम् .. २४..
दीपिका
कारणलक्षणमाह . कार्येति . पूर्ववृत्ति कारणमित्युक्ते
रासभादावतिव्याप्तिः स्यादतो नियतेति . तावन्मात्रे कृते
कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति . ननु तन्तुरूपमपि पटं प्रति कारणं
स्यादति चेत् न, अनन्यथासिद्धत्वे सतीति विशेषणात् .
अनन्यथासिद्धत्वमन्यथासिद्धिरहितत्वम् . अन्यथासिद्धिः त्रिविधा -
येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तेन
तदन्यथासिद्धम् . यथा तन्तुनां तन्तुरूपं तन्तुत्वं च पटं प्रति . तं
प्रति तदन्यथासिद्धम् . यथा शब्दं प्रति पूर्ववृतित्त्वे ज्ञात एव
पटं प्रत्याकाशस्य . अन्यत्र कॢप्तनियतपूर्ववतिर्न एव कार्यसंभवे
तत्सहभूतमन्यथासिद्धम् . यथा पाकजस्थले गन्धं प्रति
रूपप्रागभावस्य . एवञ्च अनन्यथासिद्धनियतपूर्ववृत्तित्वं
कारणत्वम् .
कार्यं प्रागभावप्रतियोगि .. २५..
दीपिका
कार्यलक्षणमाह . कार्यमिति .
कारणं त्रिविधम् -समवाय्यसमवायिनिमित्तभेदात् .. २६..
यत् समवेतं कार्यं उत्पद्यते तत् समवायिकारणम् .
यथा तंतवः पटस्य, पटश्च स्वगतरूपादेः .. २७..
दीपिका
कारणं विभजते . कारणमिति . समवायिकारणस्य लक्षणमाह ------
यत्समवेतमिति . यस्मिन् समवेतमित्यर्थः . असमवायिकारणं लक्षयति
----कार्यणेति . कार्येणेत्येतदुदाहरति -----तन्तुसंयोग इति .
कार्येण कारणेन वा सह एकस्मिन्नर्थे समवेतत्वे सति यत्कारणं
तदसमवायिकारणम् .
यथा तंतुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य .. २८..
दीपिका
कार्येण पटेन सह एकस्मिंस्तन्तौ समवेतत्वात्तन्तुसंयोगः
पटस्यासमवायिकारणमियर्थः . कारणेनेत्येतदुदाहरति ----
तन्तुरूपमिति . कारणेन पटेन सह एकस्मिंस्तन्तौ समवेतत्वात् .
तदुभयभिन्नं कारणं निमित्तकारणम् .
यथा तुरीवेमादिकं पटस्य .. २९..
दीपिका
तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः . निमित्तकारणं लक्षयति
---तदुभयेति . समवाय्यसमवायिभिन्नकारणं निमित्तकारणमित्यर्थः .
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् .. ३०..
दीपिका
करणलक्षणमुपसंहरति ----तदेतदिति .
अथ चतुर्थोऽध्याय |
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् .. ३१..
दीपिका
प्रत्यक्षलक्षणमाह ------तत्रेति . प्रमाणचतुष्टयमध्ये
इत्यर्थः .
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् . तद्द्विविधं निर्विकल्पकं
सविकल्पकं चेति . तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं
किञ्चित् . सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं,
ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति .. ३२..
दीपिका
प्रत्यक्षज्ञानस्य लक्षणमाह --------इन्द्रियेति . इन्द्र्यियं
चक्षुरादिकम्, अर्थो घटादिः, तयोः संनिकर्षः संयोगादिः,
तज्जन्यं ज्ञानमित्यर्थः . तद्विभजते तद्द्विविधमिति . निर्विकल्पस्य
लक्षणमाह -------निष्प्रकारकमिति .
विशेषणविशेष्यसंबन्धानवगाहि ज्ञानमित्यर्थः . ननु निर्विकल्पके
किं प्रमाणमिति चेत् न, गौरिति विशिष्टज्ञानं
विशेषणज्ञानजन्यं, विशिष्टज्ञानत्वात्, दण्डीति ज्ञानवत्
इत्यनुमानस्य प्रमाणत्वात् . विशेषणज्ञानस्यापि
सविकल्पकत्वेऽनवस्थाप्रसङ्गान्निर्विकल्पकसिद्धिः . सविकल्पकं
लक्षयति . सप्रकारकमिति . नामजात्यादिविशेष्यविशेषणसंबन्धावगाहि
ज्ञानमित्यर्थः . सविकल्पकमुदाहरति . यथेति .
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः षड्विधः . सन्योगः,
संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः,
समवेतसमवायः, विशेषणविशेष्यभावश्चेति .. ३३..
दीपिका
इन्द्रियार्थसंनिकर्षं विभजते . प्रत्यक्षेति .
चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः .. ३४..
दीपिका
संयोगसंनिकर्षमुदाहरति . चक्षुषेति . द्रव्यप्रत्यक्षे सर्वत्र
संयोगः संनिकर्षः . आत्मा मनसा संयुज्यते, मन इन्द्रियेण,
इन्द्रियमर्थेन, ततः प्रत्यक्षज्ञानमुत्पद्यते इत्यर्थः .
घटरूपप्रत्यक्षजनने संयुक्त समवायः संनिकर्षः .
चक्षुः संयुक्ते घटे रूपस्य समवायात् .. ३५..
दीपिका
संयुक्तसमवायमुदाहरति . घटरूपेति . तत्र युक्तिमाह . चक्षुःसंयुक्त
इति .
रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः .
चक्षुः संयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात् .. ३६..
दीपिका
संयुक्तसमवेतसमवायमुदाहरति . रूपत्वेति .
श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः कर्णविवरवर्त्याकाशस्य
श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणिनोश्च समवायात् .. ३७..
दीपिका
समवायमुदाहरति . श्रोत्रेणेति . तदुपपादयति . कर्णेति . ननु
दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेत् न,
वीचीतरङ्गन्यायेन वा शब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य
श्रोत्रेण संबन्धात्प्रत्यक्षसंभवः .
शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे
शबत्वस्य समवायात् .. ३८..
दीपिका
समवेतसमवायमुदाहरति . शब्दत्वेति .
अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः,
घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य
विशेषणत्वात् .. ३९..
दीपिका
विशेषणविशेष्याभावमुदाहरति . अभावेति . तदुपपादयति .
घटाभाववदिति . भूतले घटो नास्तीत्यत्र अभावस्य विशेष्यत्वं
द्रष्टव्यम् . एतेन अनुपलब्धेः प्रमाणान्तरत्वं निरस्तम् . यद्यत्र
घटोऽभविष्यत्तर्हि भूतलमिवाद्रक्ष्यत, दर्शनाभावान्नास्तीति
तर्कितप्रतियोगिसत्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैव
अभावज्ञानोत्पत्तौ अनुपलब्धेः प्रमाणान्तरत्वासंभवात् .
अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तावनुपलब्धेः
करणत्वयोगात् . विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव,
नातिरिक्तः संबन्धः . प्रत्यक्षज्ञानमुपसंहरस्तस्य करणमाह .
एवमिति .
एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम्,
तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् .. ४०..
दीपिका
असाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः .
प्रत्यक्षप्रमाणमुपसंहरति .
अथ पंचमोऽध्याय |
अनुमितिकरणमनुमानम् .. १..
दीपिका
अनुमानं लक्षयति ------अनुमितिकरणमिति .
परामर्शजन्यं ज्ञानमनुमितिः .. २..
दीपिका
अनुमितिं लक्षयति ---परामर्शेति . ननु
संशयोत्तरप्रत्यक्षेऽतिव्याप्तिः स्थाणुपुरूषसंशयानन्तरं
पुरूषत्वव्याप्यकरादिमानयम् इति परामर्शे सति पुरूष एव इति
प्रत्यक्षजननात् . न च तत्रानुमितिरेवेति वाच्यम् . पुरूषं साक्षात्करोमि
इत्यनुव्यवसायविरोधादिति चेत् न,
पक्षतासहकृतपरामर्शजन्यत्वस्य विविक्षित्वात् .
सिषाधयिषाविरहविशिष्टसिद्धयभावः पक्षता .
साध्यसिद्धिरनुमितिप्रतिबन्धिका . सिद्धिसत्त्वेऽपि अनुमियुयाम्
इतीच्छायामनुमितिदर्शनात् . सिषाधयिषोत्तेजिका .
तत्श्चोत्तेजकाभावविशिष्टमण्यभावस्य
दाहकारणत्ववत्सिषाधयिषाविरहविशिष्टसिद्धयभावस्याप्यनुमितिकारणत्वम् .
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः . यथा
वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः . तज्जन्यं पर्वतो
वह्निमानिति ज्ञानमनुमितिः .. ३..
दीपिका
परामर्शं लक्षयति -----व्याप्तीति . व्याप्तिविषयकं
यत्पक्षधर्मताज्ञानं स परामर्श इत्यर्थः . परामर्शमभिनीय
दर्शयति ------यथेति . अनुमितिमभिनीय दर्शयति -------
तज्जन्यमिति . परामर्शजन्यमित्यर्थः . व्याप्तिलक्षणमाह ----
यत्रेति .
यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः .. ४..
दीपिका
यत्र धूमस्तत्राग्निः इति व्याप्तेरभिनयः . साहचर्यनियमः इति लक्षणम् .
साहचर्यं सामानाधिकरण्यं, तस्य नियमः .
हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं
व्यापाप्तिरित्यर्थः .
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता .. ५..
दीपिका
पक्षधर्मतारूपमाह --------व्याप्यस्येति .
अनुमानं द्विविधं --स्वार्थं परार्थं च .. ६..
तत्र स्वार्थं स्वानुमितिहेतुः, तथाहि, स्वयमेव भूयोदर्शनेन
यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा
पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्
व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निः इति . तदन्तरं
वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते, अयमेव
लिङ्गपरामर्श इत्युच्यते . तस्मात् पर्वतो वह्निमानिति ज्ञानमनुमितिः
उत्पद्यते . तदेतत् स्वार्थानुमानम् .. ७..
दीपिका
अनुमानं विभजते --------अनुमानमिति . स्वार्थानुमानं दर्शयति
स्वयमेवेति . ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः
सहचारदर्शनेऽपि वज्रमणौ व्यभिचारोपलब्धेर्भूयोदर्शनेन कथं
व्याप्तिग्रह इति चेत् न . व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य
व्याप्तिग्राहकत्वात् . व्यभिचारज्ञानं निश्चयः शङ्का च . तद्विरहः
क्वचित्तर्कात्, क्वचित्स्वतः सिद्ध एव . धूमाग्न्योर्व्याप्तिग्रहे
कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को व्यभिचारशङ्कानिवर्तकः .
ननु सकलवह्निधूमयोरसन्निकर्षात्कथं व्याप्तिग्रह इति चेत् न .
वह्नित्वधूमत्वरूपसामान्यप्रत्यासत्त्यासकलवह्निधूमज्ञानसंभवात् .
तस्मादिति . लिङ्गपरामर्शादित्यर्थः .
यत्तु स्वयं धूमादग्निमनुमाय परंप्रतिबोधयितुं पञ्चावयव वाक्यं
प्रयुज्यते तत् परार्थानुमानम् . यथा पर्वतो वह्निमान्, धूमत्वात् ,
यो यो धूमवान् स वह्निमान् यथा महानसः, तथा चायं,
तस्मात्तथेति . अनेन प्रतिपादितात् लिङ्गात् परोऽप्यग्निं प्रतिपद्यते .
दीपिका
परार्थानुमानमाह ----------यत्त्विति . यच्छब्दस्य `
तत्परार्थानुमानम् 'इति तच्छब्देनान्वयः .
पञ्चावयववाक्यमुदाहरति -----यथेति .
प्रतिज्ञा -हेतु -उदाहरण -उपनय -निगमनानि
पञ्चावयवाः . पर्वतो वह्निमानिति प्रतिज्ञा . धूमवत्वात् इति हेतुः . यो यो
धूमवान् स वह्निमान् यथा महानस इत्युदाहरणम् . तथा च अयमिति
उपनयः . तस्मात्तथेति निगमनम् .. ९..
दीपिका
अवयवस्वरूपमाह ---------प्रतिज्ञेति .. उदाहृत्वाक्ये
प्रतिज्ञादिविभागमाह -------पर्वतो वह्निमानिति .. साध्यवत्तया
पक्षवचनं प्रतिज्ञा . पञ्चम्यन्तं लिङ्गप्रतिपादकं हेतुः .
व्याप्तिप्रतिपादकं उदाहरणम् . व्याप्तिविशिष्टलिङ्गप्रतिपादकं
वचनमुपनयः . हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनं निगमनम् .
अबाधितत्वादिकं निगमनप्रयोजनम् .
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् . तस्मात्
लिङ्गपरामर्शोऽनुमानम् .. १०..
दीपिका
अनुमितिकरणमाह ---स्वार्थेति . ननु
व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेव अनुमितिसंभवे
विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्य इति चेत् न, `
वह्निव्याप्यवानयम् 'इति शाब्दपरामर्शस्थले
परामर्शस्यावश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् .
लिङ्गं न करणम्, अतीतादौ व्यभिचारात् . `व्यापारवत्वकारणं
करणम् 'इति मते परामर्शद्वारा व्याप्तिज्ञानं करणम् . तज्जन्यत्वे
सति तज्जन्यजनको व्यापारः . अनुमानमुपसंहरति -तस्मादिति .
लिङ्गं त्रिविधम् . अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि
चेति . अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि . यथा वह्नौ
साध्ये धूमवत्त्वम् . यत्र धूमस्तत्राग्नियर्था महानस इत्यन्वयव्याप्तिः .
यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति
व्याप्तिरेकव्याप्तिः .. ११..
दीपिका
लिङ्गं विभजते ---लिङ्गमिति .. अन्वयव्यतिरेकिणं लक्षयति ---
अन्वयेनेति .. हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः,
तदभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः .
अन्वयमात्रव्याप्तिकं केवलान्वयि . यथा घटः अभिधेयः प्रमेयत्वात्
पटवत् . अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि
प्रमेयत्वात् अभिधेयत्वाच्च .. १२..
दीपिका
केवलान्वयिनो लक्षणमाह --------अन्वयेति .. केवलान्वयिसाध्यकं
लिङ्गं केवलान्वयि . (वृत्तिमत्)अत्यन्ताभावाप्रतियोगित्वं
केवलान्वयित्वम् . ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च
सर्वत्रास्तीति व्यतिरेकाभावः .
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि, यथा पृथिवीतरेभ्यो
भिद्यते गन्धवत्त्वात् . यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा
जलम् . न चेयं तथा . तस्मान्न तथेति . अत्र यद्गन्धवत् तदितरभिन्नम्
इत्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात् .. १३..
दीपिका
केवलव्यतिरेकिणो लक्षणमाह ---व्यतिरेकेति .
तदुदाहरति-यथेति . नन्वितरभेदः प्रसिद्धो वा न वा . आद्ये यत्र
प्रसिद्धस्तत्र हेतुसत्त्वे अन्वयित्वम्, असत्त्वे असाधारण्यम् . द्वितीये
साध्यज्ञानाभावात्कथं तद्विशिष्टानुमितिः . विशेषणज्ञानाभावे
विशिष्टज्ञानानुदयात्प्रतियोगिज्ञानाभावाद्वयतिरेकव्याप्तिज्ञानमपि न
स्यादिति चेत् न . जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं
प्रसिद्धानां मेलनं पृथिव्यां साध्यते . तत्र
त्रयोधत्वावच्छिन्नभेदात्मक -
साध्यस्यैकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये .
प्रत्येकाधिकरणप्रसिद्धया साध्यविशिष्टानुमितिः व्यतिरेकव्याप्तिनिरूपणं
चेति .
सन्दिग्धसाध्यवान् पक्षः . यता धूमवत्त्वे हेतौ पर्वतः .. १४..
दीपिका
पक्षलक्षणमाह -------सन्दिग्धेति .. ननु
श्रवणान्तरभाविमननस्थले अव्याप्तिः . तत्र वेदवाक्यैरात्मनो
निश्चित्वेन सन्देहाभावात् . किञ्च प्रत्यक्षेऽपि वह्नौ
यत्रेच्छयानुमितिस्तत्राव्याप्तिरिति चेत् न, उक्तपक्षताश्रयत्वस्य
पक्षलक्षणत्वात् .
निश्चितसाध्यवान् सपक्षः, यथा तत्रैव महानसम् .. १५..
दीपिका
सपक्षलक्षणमाह --------निश्चितेति ..
निश्चितसाध्याऽभाववान् विपक्षः . यथा तत्रैव महाह्रदः .. १६..
दीपिका
विपक्षलक्षणमाह -----निश्चितेति ..
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः .. १७..
दीपिका
एवं सद्धेतून्निरूप्य असद्धेतून्निरूपयितुं विभजते ------
सव्यभिचारेति .. अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं
हेत्वाभासत्वम् .
सव्यभिचारः अनैकान्तिकः . स त्रिविधः
साधारणासाधारणानुपसंहारिभेदात् .. १८..
दीपिका
सव्यभिचारं विभजते ----स त्रिविध इति ..
तत्र साध्याभाववद्वृत्तिः साधारणः अनैकान्तिकः, यथा पर्वतो
वह्निमान् प्रमेयत्वात् इति . प्रमेयत्वस्य वह्नयभाववति ह्रदे विद्यमानत्वात् .. १९..
दीपिका
साधारणं लक्षयति -----तत्रेति .. उदाहरति ----यथेति ..
सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः . यथा
शब्दो नित्यः शब्दत्वात् इति . शब्दत्वं हि सर्वेभ्यो
नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः .. २०..
दीपिका
असाधारणं लक्षयति -----सर्वेति ..
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी . यथा सर्वमनित्यं
प्रमेयत्वादिति . अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति .. २१..
दीपिका
अनुपसंहारिणो लक्षणमाह --------अन्वयेति ..
साध्याभावव्याप्तो हेतुर्विरूद्धः . यथा शब्दो नित्यः कृतकत्वादिति .
कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् .. २२..
दीपिका
विरूद्धं लक्षयति -----साध्येति ..
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः . यथा
शब्दो नित्यः श्रावणत्वात् शब्दत्ववत् . शब्दोऽनित्यः कार्यत्वात् घटवत् .. २३..
दीपिका
सत्प्रतिपक्षं लक्षयति ----यस्येति ..
असिद्धस्त्रिविधः ----आश्रयासिद्धः, स्वरूपासिद्धो
व्याप्यत्वासिद्धश्चेति .. २४..
दीपिका
असिद्धं विभजते ---असिद्ध इति ..
आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दत् . अत्र
गगनारविन्दमाश्रयः स च नास्त्येव .. २५..
दीपिका
आश्रयासिद्धमुदाहरति ---गगनेति ..
स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् . अत्र चाक्षुषत्वं शब्दं
नास्ति शब्दस्य श्रावणत्वात् .. २६..
दीपिका
स्वरूपासिद्धमुदाहरति ---यथेति ..
सोपाधिको हेतुः व्याप्यत्वासिद्धः . साध्यव्यापकत्वे सति साधनाव्यापकत्वं
उपाधिः . साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् .
साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् . पर्वतो
धूमवान्वह्निमत्वादित्यत्र आर्द्रेन्धनसंयोग उपाधिः . तथाहि . यत्र
धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता . यत्र
वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति अयोगोलके आर्द्रेन्धनसंयोगाभावादिति
साधनाव्यापकता . एवं साध्यव्यापकत्वे सति
साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः . सोपाधिकत्वात् वह्निमत्त्वं
व्याप्यत्वासिद्धम् .. २७..
दीपिका
व्याप्यत्वासिद्धस्य लक्षणमाह ---सोपाधिक इति .. उपाधेर्लक्षणमाह
---साध्येति .. उपादिश्चतुर्विधः केवलसाध्यव्यापकः,
पक्षधर्मावच्छिन्नसाध्यव्यापकः,
साधनावच्छिन्नसाध्यव्यापकः,
उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति . आद्यः आर्द्रेन्धनसंयोगः .
द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र
बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वम् . तृतीयो
यथा ---प्रागभावो विनाशी जन्यत्वादित्यत्र
जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् . चतुर्थो यथा ---
प्रागभावो विनाशी प्रमेयत्वात् इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं
भावत्वम् .
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः . यथा
वह्निरनुष्णो द्रव्यत्वात् जलवत् . अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं
स्पर्शनप्रत्यक्षेण गुह्यात इति बाधितत्वम् .. २८..
दीपिका
बाधितस्य लक्षणमाह ----यस्येति .. अत्र बाधस्य
ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन
साक्षादनुमितिप्रतिबन्धकत्वम् . इतरेषां तु परामर्शप्रतिबन्धकत्वम् .
तत्रापि साधारणस्याव्यभिचाराभावरूपतया, विरूद्धस्य
समानाधिकरण्याभावतया व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभावतया,
असाधारणनुपसंहारिणोः व्याप्तिसंशयाधायकत्वेन
व्याप्तिज्ञानप्रतिबन्धकत्वम्, आश्रयासिद्धिस्वरूपासिद्धयोः
पक्षधर्मताज्ञानप्रतिबन्धकत्वम् . उपाधिस्तु व्यभिचारज्ञानद्वारा
व्याप्तिज्ञानप्रतिबन्धकः . सिद्धसाधनं तु पक्षताविघटकतया
आश्रयासिद्धावन्तर्भवतीति प्राञ्चः . निग्रहस्थानान्तरमिति नवीनाः ..
अथ षष्ठोऽध्याय |
उपमितिकरणमुपमानम् . संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः . तत्करणं
सादृश्यज्ञानम् . अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः . तथा हि
कश्चिद्गवयशब्दार्थमजानन् कुतिश्चित् आरण्यकपुरुषाद्गोसदृशो
गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्दं
पश्यति . तदन्तरमसौ गवयशब्दवाच्य इत्युपमितिरूत्पद्यते .. १..
दीपिका
उपमानं लक्षयति ----उपमितिकरणमिति ..
अथ सप्तमोऽध्याय |
आप्तवाक्यं शब्दः . आप्तस्तु, यथार्थवक्ता . वाक्यं पदसमूहः . यथा
गामानयेति . शक्तं पदम् . अस्मात्पदात् अयमर्थो बोद्धव्य इतीश्वरसंकेतः
शक्तिः .. १..
दीपिका
शब्दं लक्षयति ---आप्तेति .. आप्तं लक्षयति ---आप्तस्त्विति ..
वाक्यलक्षणमाह ----वाक्यमिति .. पदलक्षणमाह ---शक्तमिति ..
अर्थस्मृत्यनुकूलपदपदार्थसंबन्धः शक्तिः . सा च पदार्थान्तरमिति
मीमांसकाः . तन्निरासार्थमाह ---अस्मादिति .. डित्थादीनामिव
घटादीनामपि संकेत एव शक्तिः न तु पदार्थान्तरमित्यर्थः . ननु
गवादिपदानां जातावेव शक्तिः, विशेषणतया जातेः
प्रथममुपस्थित्वात् . व्यक्तिलाभास्तु आक्षेपादिति केचित् . तत् न,
गामान्येत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेर्व्यक्तावेव
संभवेन, जातिविशिष्टव्यक्तावेव शक्तिकल्पनात् . शक्तिग्रहश्च
वृद्धव्यवहारेण . व्युत्पित्सुर्बालो `गामानय'
इत्युत्तमवृद्धवाक्यश्रवणान्तरं मध्यमवृद्धस्य
प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा
मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्तजन्यत्वं
निश्चित्य `अश्वमानय गां बधान'इति वाक्यान्तरे आवापोद्वापाभ्यां
गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्य अश्वत्वविशिष्टे
शक्तिरिति व्युत्पद्यते . ननु सर्वत्र कार्यपरत्वाद्वयवहारस्य
कार्यपरवाक्य एव व्युत्पर्त्तिन सिद्धपर इति चेत् न . `काश्यां
त्रिभुवन्तिलको भूपतिरास्ते 'इत्यादौ सिद्धेऽपि व्यवहारात्, `
विकसितपद्मे मधुकरस्तिष्ठति 'इत्यादौ
प्रसिद्धपदसमभिव्यवहारात्सिद्धेऽपि मधुकरादिव्युत्पत्तिदर्शनाच्च .
लक्षणापि शब्दवृत्तिः . शक्यसंबन्दो लक्षणा . गङ्गायां घोष
इत्यत्र गङ्गापदवाच्यप्रवाहसंबन्धादेव तीरोपस्थितौ तीरेऽपि
शक्तिर्न कल्प्यते . सैधवादौ लवणाश्वयोः
परस्परसंबन्धाभावान्नानाशक्तिकल्पनम् . लक्षणा त्रिविधा ----
जहल्लक्षणा, अजहल्लक्षणा, जहदजल्लक्षणा चेति . यत्र
वाच्यार्थस्यान्वयाभावः तत्र जहल्लक्षणा . यथा मञ्चाः क्रोशन्तीति .
यत्र वाच्यार्थस्याप्यन्वयः, तत्र अजहदिति . यथा छत्रिणो
गच्चन्तीति . यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः, तत्र
जहदजहदिति . यथा तत्त्वमसीति . गौण्यपि लक्षणैव
लक्ष्यमाणगुणसंबन्धस्वरूपा यथा अग्निर्माणवक इति . व्यञ्चनापि
शक्तिलक्षणान्तर्भूता, शब्दशक्तिमूला अर्थशक्तिमूला च .
अनुमानादिना अन्यथासिद्धा . तात्पर्यानुपपत्तिर्लक्षणाबीजम् .
तत्प्रीतीतीच्छयोच्चरितत्वं तात्पर्यम् . तात्पर्यज्ञानञ्च
वाक्यार्थज्ञाने हेतुः नानार्थानुरोधात् . प्रकरणादिकं तात्पर्यग्राहकम् .
द्वारमित्यादौ पिधेहीति शब्दाध्याहारः . ननु
अर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय
शब्दाध्याहारासंभवादर्थाध्याहार एव युक्त इति चेत् न .
पदविशेषजन्यपदार्थोपस्तिथेः शाब्दज्ञाने हेतुत्वात् . अन्यथा `
घटः कर्मत्वमानयं कृतिः 'इत्यत्रापि शाब्दज्ञानप्रसङ्गात् .
पङ्कजादिपदेषु योगरूढिः . अवयवशक्तिर्योगः . समुदायशक्ती रूढिः .
नियतपद्मत्वादिज्ञानार्थं समुदायशक्तिः . अन्यथा कुमुदेऽपि
प्रयोगप्रसङ्गात् . `इतरान्विते शक्तिः 'इति प्राभाकराः . अन्वयस्य
वाक्यार्थतया भानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया इति
गौतमीयाः .
आकांक्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः पदस्य
पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकांक्षा . अर्थाबाधो
योग्यता . पदानामविलम्बेनोच्चारणं संनिधिः .. २..
दीपिका
आकांक्षेति .. आकाङ्क्षादिज्ञानमित्यर्थः . अन्यथा
आकांक्षादिभ्रमाच्छाब्दभ्रमो न स्यात् . आकाङ्क्षां लक्षयति ---
पदस्येति .. योग्यतालक्षणमाह ----अर्थेति .. संनिधिलक्षणमाह
----पदानामिति . अविलम्बेन पदार्थोपस्थितिः संनिधिः . उच्चारणं तु
तदुपयोगितयोक्तम् .
आकांक्षादिरहितं वाक्यप्रमाणम् . यथा गौरश्वः पुरूषो हस्तीति न
प्रमाणमाकांक्षाविरहात् . अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् .
प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं
सांनिध्याभावात् .. ३..
दीपिका
गौरश्व इति .. घटकर्मत्वमित्यप्यनाकांक्षोदाहरणं द्रष्टव्यम् .
वाक्यं द्विविधम् . वैदिकं लौकिकं च . वैदिकमीश्वरोक्तत्वात्सर्वमेव
प्रमाणम् . लौकिकं त्वाप्तोक्तं प्रमाणम् . अन्यदप्रमाणम् .. ४..
दीपिका
वाक्यं विभजते ---वाक्यमिति .. वैदिकस्य विशेषमाह ---
वैदिकमीश्वरोक्तत्वादिति .. ननु वेदस्यानादित्वात्कथमीश्वरोक्तत्वमिति चेत्
न . `वेदः पौरूषेयः वाक्यसमूहत्वात् भारतादिवत् 'इत्यनुमानेन
पौरूषेयत्वसिद्धेः . न च स्मर्यमाणकर्तृकत्वमुपाधिः,
गौतमादिभिः शिष्यपरम्परया वेदेऽपि सकर्तृकत्वस्मरणेन
साधनव्यापकत्वात् . `तस्मात्तेपानात्त्रयो वेदा अजायन्त 'इति
श्रुतेश्च . ननु वर्णा नित्याः, स एवायं गकार इति प्रत्यभिज्ञाबलात् .
तथा च कथं वेदस्यानित्यत्वमिति चेत् न, `उत्पन्नो गकारो
विनिष्टो गकार'इत्यादिप्रतीत्या वर्णानामनित्यत्वात्, `सोऽयं
गकार'इति प्रत्यभिज्ञायाः `सेएयं दीपज्वाला '
इतिवत्साजात्यावलम्बनत्वात्, वर्णानां
नित्यत्वेऽप्यानुपूर्वाविशिष्टवाक्यस्यानित्यत्वाच्च . तस्मादीश्वरोक्ता वेदाः .
मन्वादिस्मृतीनामाचाराणां च वेदमूलकतया प्रमाण्यम् .
स्मृतिमूलवाक्यानामिदानीमनध्ययनात्तन्मूलभूता काचिच्छारवोत्सन्नेति
कल्प्यते . ननु पठ्यमानवेदवाक्योत्सादनस्य कल्पयितुमशक्यतया
विप्रकीर्णवादस्यायुक्तत्वान्नित्यानुमेयो वेदो मूलमिति चेत् न, तथा सति
कदापि वर्णानामानुपूर्वीज्ञानासंभवेन बोधकत्वास/न्भवात् .
वाक्यार्थज्ञानं शाब्दज्ञानम् . तत्करणं शब्दः .. ५..
दीपिका
ननु एतानि पदानि स्मारितार्थसंसर्गवन्ति आकांक्षादिमत्पदकदम्बकत्वात्
मद्वाक्यवत् इत्यनुमानादेव संसर्गज्ञासंभवाच्छब्दो न
प्रमाणान्तरमिति चेन्न . अनुमित्यपेक्षया विलक्षणस्य शाब्दज्ञानस्य
`शाब्दात्प्रत्येमि 'इत्वनुव्यवसायंसाक्षिकस्य सर्वसंमतत्वात् .
नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति `पीनो देवदत्तो दिवा न भुङ्क्ते
'इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या
रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेन्न . `देवदत्तो रात्रौ
भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात् 'इत्यनुमानेनैव
रात्रिभोजनस्य सिद्धत्वात् . शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव .
`इह वटे यक्षस्तिष्ठति 'इत्यैतिह्यमपि
अज्ञातम्लवक्तृकशब्द एव . चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति
न प्रमाणान्तरम् . तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि ..
अथ अष्टमोऽध्याय | NaiyAyikA theory on epistemologय्
ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतोग्राह्यं परतो वेति विचार्यते .
तत्र विप्रतिपत्तिः ------ज्ञानप्रामाण्यं
तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा इति . अत्र
विधिकोटिः स्वतस्त्वम् . निषेधकोटिः परतस्त्वम् . अनुमानादिग्राह्यत्वेन
सिद्धसाधनवारणाय यावदिति . 'इदं ज्ञानमप्रमा `इति ज्ञानेन
प्रामाण्याग्रहाद्वाधवारणाय -----अप्रामाण्याग्राहकेति..
इदं ज्ञानमप्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्यापि
अप्रामाण्याग्राहकत्वाभावात्स्वतस्त्वं न स्यादतस्तदिति .
तस्मिन्ग्राह्यप्रामाण्याश्रयेऽप्रामाण्याग्राहिकेत्यर्थः . उदाहृतस्थले
व्यवसायाप्रामाण्यग्राहकस्याप्यनुव्यवसाये तद्ग्राहकत्वात्स्वतस्त्वसिद्धिः .
ननु स्वत एव प्रामाण्यं गृह्यते, `घटमहं जानामि '
इत्यनुव्यवसायेन घटघटत्वयोरिव तत्संबन्धस्यापि विषयीकरणात्
व्यवसायरूप प्रत्यासत्तेस्तुल्यत्वात् . पुरोवर्तिनि प्रकारसंबन्धस्यैव
प्रमात्वपदार्थत्वादिति चेत् न . स्वतःप्रामाण्यग्रहे `जलज्ञानं प्रमा
न वा 'इत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात् . अनुव्यवसायेन
प्रामाणस्य निश्चितत्वात् . तस्मात्स्वतोग्राह्यत्वाभावात्परतो ग्राह्यत्वमेव .
तथाहि . प्रथमं जलज्ञानान्तरं प्रवृत्तौ सत्यां जललाभे सति
पूर्वोत्पन्नं जलज्ञानं प्रमा सफलप्रवृत्तिजनकत्वात् यन्नैवं
तन्नैवं यथा अप्रमा इति व्यतिरेकिणा प्रमात्वं निश्चीयते .
द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन
तत्सजातीयत्वलिङ्गेनान्वयव्यतिरेकिणापि गृह्यते . प्रमाया
गुणजन्यत्वमुत्पत्तौ परतस्त्वम् . प्रमासाधारणकारणं गुणः,
अप्रमासाधारणकारणं दोषः . तत्र प्रत्यक्षे
विशेषणवद्विशेष्यसंनिकर्षो गुणः . अनुमितौ व्यापकवति
व्याप्यज्ञानम् . उपमितौ यथार्थसादृश्यज्ञानम् . शाब्दज्ञाने
यथार्थयोग्यताज्ञानम् . इत्याद्यूहनीयम् . पुरोवर्तिनि
प्रकाराभावस्यानुव्यवसायेनानुपस्थितत्वादप्रमात्वं परत एव गृह्यते .
पित्तादिदोषजन्यत्वमुत्पत्तौ परतस्त्वम् . ननु सर्वेषां ज्ञानानां
यथार्थत्वादयथार्थज्ञानमेव नास्तीति . न च `शुक्ताविदं रजतम्
'इति ज्ञानात्प्रवृत्तिदर्शनादन्यथाख्यातिसिद्धिरिति वाच्यम् .
रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव प्रवृत्तिसंभवात् .
स्वतन्त्रोपस्थितेष्टभेदाग्रहस्यैव सर्वत्र प्रवर्तकत्वेन `नेदं
रजतम् 'इत्यादौ अतिप्रसङ्गाभावादिति चेत् न . सत्यरजस्थले
पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन
प्रवृत्तिजनकतया शुक्तावपि रजतार्थि प्रवृत्तिजनकत्वेन
विशिष्टज्ञानस्यैव कल्पनात् .
\Large Encoded by Ashish Chandra ashish\__chandr70@hotmail.com
The author of Tarka Sangraha, along with its Dipika is Annambhatta . This is
a very well known work and most Vedantins today consider it as the stepping
stone to understand the Nyaya-Vaisheshika, systems of logic.
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com