.. तेजबिन्दु ..
तेजबिन्दूपनिषत्
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः शान्तिः शान्तिः.
ॐ तेजबिन्दुः परं ध्यानं विश्वात्मं हृदि संस्थितम् .
आणवं शांबवं शाक्तं स्थूलं सूक्ष्मं परं च यत् .. १..
दुःसाध्यं च दुराराध्यं दुष्प्रेक्ष्यं च मुक्तमव्यम् .
दुर्लक्षं दुस्तरं ध्यानं मुनीनां च मनीषिणाम् .. २..
जिताहारो जितक्रोधो जितसङ्गो जितेन्द्रयः .
निर्द्वंद्वो निरहंकारो निराशीरपरिग्रहः .. ३..
अगम्यगम्यकर्ता च गुरुमानार्थमानसः .
मुखानि त्रीणि विन्दन्ति त्रिधामा हंस उच्यते .. ४..
परं गुह्यमिदं स्थानमव्यक्तं ब्रह्म निराश्रयम् .
व्योमरूपं कलासूक्ष्मं विष्णोस्तत्परं पदम् .. ५..
त्र्यम्बकं त्रिगुणं स्थानं त्रिघातु रूपवर्जितम् .
निश्चलं निर्विकल्पं च निराधारं निराश्र्यम् .. ६..
उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् .
स्वभावभावनाग्राह्यं संघातैकपदोज्झितम् .. ७..
आनन्दं नन्दनातीतं दुष्प्रेक्ष्यमजमव्ययम् .
चित्तवृत्तिविनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् .. ८..
तद्ब्रह्माणं तदध्यातं तन्निष्ठा तत्परायणम् .
आचित्तचित्तमात्मानं तद्व्योम परमं स्थितम् .. ९..
शून्ये शून्यभावं च शून्यातीतमवस्थितम् .
न ध्यानं न च वा ध्याता न धेयो ध्येय एव च .. १०..
सर्वं तत्परमं शून्यं न परं परमात्परम् .
अचिन्त्यमप्रबुद्धं च न च सत्यं न संविदुः .. ११..
मुनीनां तत्त्वयुक्तं तु न देवा न परं विदुः .
लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् . १२..
शीतोष्णं क्षुत्पिपासं च संकल्पं च विकल्पकम् .
न ब्रह्मकुलदर्पं च न मुक्तिं ग्रन्थसंचयम् .. १३..
न भयं सुखदुःखं च तथा मानापमानयोः .
एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परं .. १४..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः शान्तिः शान्तिः.
इत्यथर्ववेदे तेजबिन्दूपन्निषत्समाप्ता ..
Tejabindu Upani\dsadtransliterated by: Anshuman Pandey [\emphapandey@u.washington.edu]16 April 1996
Proofread by Vijay Pai vijaypai@rice.edu
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com