.. तेजोबिन्दूपनिषत् ..
यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा .
तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् .
आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् .. १..
दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् .
दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् .. २..
यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः .
निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः .. ३..
अगम्यागमकर्ता यो गम्याऽगमयमानसः .
मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते .. ४..
परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः .
सोमरूपकला सूक्ष्मा विष्णोस्तत्परमं पदम् .. ५..
त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् .
निश्चलं निर्विकल्पं च निराकारं निराश्रयम् .. ६..
उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् .
स्वभावं भावसंग्राह्यमसङ्घातं पदाच्च्युतम् .. ७..
अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तिमव्ययम् .
चिन्त्यमेवं विनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् .. ८..
तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् .
अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् .. ९..
अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् .
न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च .. १०..
सर्वं च न परं शून्यं न परं नापरात्परम् .
अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः .. ११..
मुनीनां संप्रयुक्तं च न देवा न परं विदुः .
लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् .. १२..
शीतोष्णे क्षुत्पिपासे च सङ्कल्पकविकल्पकम् .
न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसञ्चयम् .. १३..
न भयं न सुखं दुःखं तथा मानावमानयोः .
एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् .. १४..
यमो हि नियमस्त्यागो मौनं देशश्च कालतः .
आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः .. १५..
प्राणसंयमनं चैव प्रत्याहारश्च धारणा .
आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् .. १६..
सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः .
यमोऽऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः .. १७..
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः .
नियमो हि परानन्दो नियमात्क्रियते बुधैः .. १८..
त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः .. १९..
यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह .
यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः .. २०..
वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते .
प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः .. २१..
इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् .
गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् .. २२..
आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते .
येनेदं सततं व्याप्तं स देशो विजनः स्मृतः .. २३..
कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः .
कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् .. २४..
सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् .
आसनं तद्विजानीयादन्यत्सुखविनाशनम् .. २५..
सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् .
यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते .. २६..
यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् .
मूलबन्धः सदा सेव्यो योग्योऽसौ ब्रह्मवादिनाम् .. २७..
अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते .
नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् .. २८..
दृष्टीं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् .
सा दृष्टिः परमोदारा न नासाग्रावलोकिनी .. २९..
द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् .
दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी .. ३०..
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् .
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते .. ३१..
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः .
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते .. ३२..
ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः .
अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् .. ३३..
विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् .
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः .. ३४..
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् .
मनसा धारणं चैव धारणा सा परा मता .. ३५..
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः .
ध्यानशब्देन विख्यातः परमानन्ददायकः .. ३६..
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः .
वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते .. ३७..
इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् .
लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं सम्भवेत्स्वयम् .. ३८..
ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् .
तत्स्वं रूपं भवेत्तस्य विषयो मनसो गिराम् .. ३९..
समाधौ क्रियमाणे तु विघ्नान्याअयान्ति वै बलात् .
अनुसन्धानराहित्यमालस्यं भोगलालसम् .. ४०..
लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता .
एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः .. ४१..
भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता .
ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् .. ४२..
ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् .
वृथैव ते तु जीवन्ति पशुभिश्च समा नराः .. ४३..
ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये .
ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये .. ४४..
येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः .
ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः .. ४५..
कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः .
तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च .. ४६..
निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना .
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः .. ४७..
कारणं यस्य वै कार्यं कारणं तस्य जायते .
कारणं तत्त्वतो नश्येत्कार्याभावे विचारतः .. ४८..
अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् .
उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् .. ४९..
भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् .
दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् .. ५०..
विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया ..
इति प्रथमोऽध्यायः .. १..
अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरस-
चिन्मात्रस्वरूपमनुब्रूहीति . स होवाच परमः शिवः .
अखण्डैकरसं दृश्यमखण्डैकरसं जगत् .
अखण्डैकरसं भावमखण्डैकरसं स्वयम् .. १..
अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया .
अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् .. २..
अखण्डैकरसा भूमिरखण्डैकरसं वियत् .
अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी .. ३..
अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् .
अखण्डैकरसो जीव अखण्डैकरसो ह्यजः .. ४..
अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः .
अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् .. ५..
अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः .
अखण्डैकरसं लक्ष्यमखण्डैकरसं महः .. ६..
अखण्डैकरसो देह अखण्डैकरसं मनः .
अखण्डैकरसं चित्तमखण्डैकरसं सुखम् .. ७..
अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः .
अखण्डैकरसं नित्यमखण्डैकरसं परम् .. ८..
अखण्डैकरसं किञ्चिदखण्डैकरसं परम् .
अखण्डैकरसादन्यन्नास्ति नास्ति षडानन .. ९..
अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि .
अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् .. १०..
अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् .
अखण्डैकरसं वेद्यमखण्डैकरसो भवान् .. ११..
अखण्डैकरसं गुह्यमखण्डैकरसादिकम् .
अखण्डैकरसो ज्ञाता ह्यखण्डैकरसा स्थितिः .. १२..
अखण्डैकरसा माता अखण्डैकररसः पिता .
अखण्डैकरसो भ्राता अखण्डैकरसः पतिः .. १३..
अखण्डैकरसं सूत्रमखण्डैकरसो विराट् .
अखण्डैकरसं गात्रमखण्डैकरसं शिरः .. १४..
अखण्डैकरसं चान्तरखण्डैकरसं बहिः .
अखण्डैकरसं पूर्णमखण्डैकरसामृतम् .. १५..
अखैण्डैकरसं गोत्रमखण्डैकरसं गृहम् .
अखण्डैकरसं गोप्यमखण्डैकरसशशशी .. १६..
अखण्डैकरसास्तारा अखण्डैकरसो रविः .
अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा .. १७..
अखण्डैकरस शान्त अखण्डैकरसोऽगुणः .
अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् .. १८..
अखण्डैकरसो बन्धुरखण्डैकरसः सखा .
अखण्डैकरसो राजा अखण्डैकरसं पुरम् .. १९..
अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः .
अखण्डैकरसं तारमखण्डैकरसो जपः .. २०..
अखण्डैकरसं ध्यानमखण्डैकरसं पदम् .
अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् .. २१..
अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् .
अखण्डैकरसं भोज्यमखण्डैकरसं हविः .. २२..
अखण्डैकरसो होम अखण्डैकरसो जपः .
अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् .. २३..
अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् .
चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् .. २४..
भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि .
इदं च सर्वं चिन्मात्रमयं चिन्मयमेव हि .. २५..
आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः .
सर्वलोकं च चिन्मात्रं वत्ता मत्ता च चिन्मयम् .. २६..
आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः .
यत्किञ्चिद्यन्न किञ्चिच्च सर्वं चिन्मात्रमेव हि .. २७..
अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि .
भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि .. २८..
द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि .
ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि .. २९..
संभाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि .
असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा .. ३०..
आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् .
दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा .. ३१..
सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि .
लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते .. ३२..
अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादिचिन्मयम् .
पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः .. ३३..
चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् .
चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता .. ३४..
चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् .
चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि .. ३५..
चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् .
चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् .. ३६..
चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु .
चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नस्त्यमौनकम् .. ३७..
चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि .
यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते .. ३८..
यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि .
यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते .. ३९..
यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि .
चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् .. ४०..
चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि .
अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते .. ४१..
शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् .
इत्येकरूपतया यो वा जानात्यहं त्विति .. ४२..
सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः .. ४३..
इति द्वितीयोऽध्यायः .. २..
कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ .
स होवाच परः शिवः .
परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् .
केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् .. १..
केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् .
केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् .. २..
केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् .
सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् .. ३..
केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः .
सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् .. ४..
केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा .
केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् .. ५..
निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः .
सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः .. ६..
सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः .
अपरिच्छिन्नरूपोऽस्मि ह्यखण्डानन्दरूपवान् .. ७..
सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् .
अन्तरान्तररूपोऽहमवाङ्मनसगोचरः .. ८..
आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा .
आत्मारामस्वरूपोऽस्मि ह्ययमात्मा सदाशिवः .. ९..
आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहम् .
आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् .. १०..
नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः .
नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् .. १..
नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा .
रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः .. १२..
भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा .
सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् .. १३..
देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा .
चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् .. १४..
सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहमेव हि .
सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा .. १५..
अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि .
अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् .. १६..
अहमेव महानात्मा ह्यहमेव परात्परः .
अहमन्यवदाभामि ह्यहमेव शरीरवत् .. १७..
अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः .
अहं कालत्रयातीत अहं वेदैरुपासितः .. १८..
अहं शास्त्रेण निर्णीत अहं चित्ते व्यवस्थितः .
मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च वा .. १९..
मयातिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु .
अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा .. २०..
निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा .
केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् .. २१..
स्वयमेव स्वयं भामि स्वयमेव सदात्मकः .
स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः .. २२..
स्वयमेव स्वयं भञ्जे स्वयमेव स्वयं रमे .
स्वयमेव स्वयं ज्योतिः स्वयमेव स्वयं महः .. २३..
स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये .
स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः .. २४..
स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे .
स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये .. २५..
चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् .
आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् .. २६..
सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् .
नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि नित्यदा .. २७..
अहमेव हृदाकाशश्चिदादित्यस्वरूपवान् .
आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः .. २८..
एकसंख्याविहीनोऽस्मि नित्यमुक्तस्वरूपवान् .
आकाशादपि सूक्ष्मोऽहमाद्यन्ताभाववानहम् .. २९..
सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् .
सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् .. ३०..
सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् .
विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः .. ३१..
ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन .
तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् .. ३२..
त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किञ्चन .
चिच्चैतन्यस्वरूपोऽहमहमेव शिवः परः .. ३३..
अतिभावस्वरूपोऽहमहमेव सुखात्मकः .
साक्षिवस्तुविहीनत्वात्साक्षित्वं नास्ति मे सदा .. ३४..
केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः .
अहमेवादिशेषोऽहमहं शेषोऽहमेव हि .. ३५..
नामरूपविमुक्तोऽहमहमानन्दविग्रहः .
इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः .. ३६..
बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः .
आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् .. ३७..
वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् .
सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् .. ३८..
सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् .
एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः .. ३९..
सर्वशून्यस्वरूपोऽहं सकलागमगोचरः .
मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् ..४०..
सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् .
तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् .. ४१..
सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः .
अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् .. ४२..
ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् .
चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् .. ४३..
न हि किञ्चित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् .
निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् .. ४४..
न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् .
न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् .. ४५..
न तापत्रयरूपोऽहं नेषणात्रयवानहम् .
श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि .. ४६..
सजातीयं न मे किञ्चिद्विजातीयं न मे क्वचित् .
स्वगतं च न मे किञ्चिन्न मे भेदत्रयं क्वचित् .. ४७..
असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् .
अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्यजः .. ४८..
देहत्रयमसद्विद्धि कालत्रयमसत्सदा .
गुणत्रयमसत्विद्धि ह्ययं सत्यात्मकः शुचिः .. ४९..
श्रुतं सर्वमसत्द्विद्धि वेदं सर्वमसत्सदा .
शास्त्रं सर्वमसत्द्विद्धि ह्यहं सत्यचिदात्मकः .. ५०..
मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा .
सर्वतत्त्वमसद्विद्धि ह्ययं भूमा सदाशिवः .. ५१..
गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः .
यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् .. ५२..
यच्चिन्त्यं तदसद्विद्धि यन्न्यायं तदसत्सदा .
यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् .. ५३..
सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति .
दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् .. ५४..
कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् .
दुःखादुःखमसद्विद्धि सर्वासर्वमन्मयम् .. ५५..
पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् .
लाभालाभावसद्विद्धि जयाजयमसन्मयम् .. ५६..
शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा .
रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् .. ५७..
गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् .
असदेव सदा सर्वमसदेव भवोद्भवम् .. ५८..
असदेव गुणं सर्वं सन्मात्रमहमेव हि .
स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् .. ५९..
अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापं विनाशयेत् .
अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् .. ६०..
अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् .
अहं ब्रह्मास्मि मन्त्रोऽयं जन्मपापं विनाशयेत् .. ६१..
अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् .
अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् .. ६२..
अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं विनाशयेत् .
अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विनाशयेत् .. ६३..
अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् .
अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् .. ६४..
अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन्विनाशयेत् .
अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत् .. ६५..
अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्षणात् .
अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्तिं विनाशयेत् .. ६६..
अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्तिं विनाशयेत् .
अहं ब्रह्मास्मि मन्त्रोऽयं सङ्कल्पादीन्विनाशयेत् .. ६७..
अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् .
अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं विनाशयेत् .. ६८..
अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं विनाशयेत् .
अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः .. ६९..
अहं ब्रह्मास्मि मन्त्रोऽयमप्रतर्क्यसुखप्रदः .
अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति .. ७०..
अहं ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः .
अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगिरीन्हरेत् .. ७१..
अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् .
अहं ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति .. ७२..
अहं ब्रह्मास्मि मन्त्रोऽयं ज्ञानानन्दं प्रयच्छति .
सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् .. ७३..
सर्वमन्त्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् .
सद्यो मोक्षमवाप्नोति नात्र सन्देहमण्वपि .. ७४..
इति तृतीयोध्यायः .. ३..
कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः
स्थितिमनुब्रूहीति . स होवाच परः शिवः .
चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः .
आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते .. १..
देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् .
ब्रह्माहमिति यस्यान्तः स जीवनमुक्त उच्यते .. २..
आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् .
यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः .
परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते .. ३..
यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते .
चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् .. ४..
सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः .
आनन्दरतिरव्यक्तः परिपूर्णश्चिदात्मकः .. ५..
शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः .
नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः .. ६
किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते .
न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियम् .. ७..
न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् .
न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् .. ८..
न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् .
न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः .. ९..
न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः .
न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि .. १०..
न मे तुरीयमिति यः स जीवन्मुक्त उच्यते .
इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् .. ११..
न मे कालो न मे देशो न मे वस्तु न मे मतिः .
न मे स्नानं न मे सन्ध्या न मे दैवं न मे स्थलम् .. १२..
न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् .
न मे बन्धो न मे जन्म न मे वाक्यं न मे रविः .. १३..
न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् .
ने मे जीव इति स्वात्मा न मे किञ्चिज्जगत्रयम् .. १४..
न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः .
न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः .. १५..
न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः .
न मे ब्रह्म न मे विष्णुर्न मे रुद्रो न चन्द्रमाः .. १६..
न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् .
न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः .. १७..
न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः .
न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा .. १८..
न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः .
न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः .. १९..
न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि .
न मे गन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि .. २०..
न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि .
न मे भोगो न मे रागो न मे यागो न मे लयः .. २१..
न मे मौर्ख्यं न मे शान्तं न मे बन्धो न मे प्रियम् .
न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् .. २२..
न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयः .
अध्यारोपोऽपवादो वा न मे चैकं न मे बहु .. २३..
न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि .
न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् .. २४..
न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातु सप्तकम् .
न मे शुक्लं न मे रक्तं न मे नीलं नमे पृथक् .. २५..
न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् .
न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् .. २६..
न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः .
न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् .. २७..
न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् .
न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहम् .. २८..
न मे जरा न मे बाल्यं न मे यौवनमण्वपि .
अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः .. २९..
चिदहं चिदहं चेति स जीवन्मुक्त उच्यते .
ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः .. ३०..
स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः .
स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् .. ३१..
स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते .
स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः .. ३२..
ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी .
स्वच्छरूपो महामौनी वैदेही मुक्त एव सः .. ३३..
सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः .
एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः .. ३४..
अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः .
लक्ष्यात्मा ललितात्माहं तूष्णीमात्मस्वभाववान् .. ३५..
आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धवर्जितः .
ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते .. ३६..
चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः ..३७..
निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् .
आनन्दभरितस्वान्तो वैदेही मुक्त एव सः .. ३८..
सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति .
अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः .. ३९..
किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ .
तूष्णीमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन .. ४०..
परमात्मा गुणातीतः सर्वात्मा भूतभावनः .
कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् .. ४१..
किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते .
अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः .. ४२..
शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः .
देवात्मादेवहीनात्मा मेयात्मा मेयवर्जितः .. ४३..
सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः .
सर्वसङ्कल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा .. ४४..
केवलः परमात्माहं केवलो ज्ञानविग्रहः .
सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगद्भयम् .. ४५..
जीवेश्वरेति वाक्क्वेति वेदशास्त्राद्यहं त्विति .
इदं चैतन्यमेवेति अहं चैतन्यमित्यपि .. ४६..
इति निश्चयशून्यो यो वैदेही मुक्त एव सः .
चैतन्यमात्रसंसिद्धः स्वात्मारामः सुखासनः .. ४७..
अपरिच्छिन्नरूपात्मा अणुस्थूलादिवर्जितः .
तुर्यतुर्या परानन्दो वैदेही मुक्त एव सः .. ४८..
नामरूपविहीनात्मा परसंवित्सुखात्मकः .
तुरीयातीतरूपात्मा शुभाशुभविवर्जितः .. ४९..
योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः .
गुणागुणविहीनात्मा देशकालादिवर्जितः .. ५०..
साक्ष्यसाक्षित्वहीनात्मा किञ्चित्किञ्चिन्न किञ्चन .
यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न .. ५१..
स्वस्वरूपे स्वयंज्योतिः स्वस्वरूपे स्वयंरतिः .
वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् .. ५२..
अतीतातीतभावो यो वैदेही मुक्त एव सः .
चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः .. ५३..
सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः .
तस्मिन्काले विदेहीति देहस्मरणवर्जितः .. ५४..
ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः .
परैरदृष्टबाह्यात्मा परमानन्दचिद्धनः .. ५५..
परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः .
ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः .. ५६..
ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् .
ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः .. ५७..
ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः .
ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः .. ५८..
ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः .
ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः .. ५९..
ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः .
ब्रह्मानन्दरसोद्बाहो ब्रह्मानन्दरसम्भरः .. ६०..
ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः .
आत्मरूपमिद.म् सर्वमात्मनोऽन्यन्न कञ्चन .. ६१..
सर्वमात्माहमात्मास्मि परमात्मा परात्मकः .
नित्यानन्द स्वरूपात्मा वैदेही मुक्त एव सः .. ६२..
पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः .
सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः .. ६३..
निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः .
शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः .. ६४..
जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः .
मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः .. ६५..
बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः .
द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः .. ६६..
सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः .
मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः .. ६७..
सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः .
निष्कलात्मा निर्मलात्मा बुद्धात्मापुरुषात्मकः .. ६८..
आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः .
कालत्रयस्वरूपात्मा कालत्रयविवर्जितः .. ६९..
अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः .
नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः .. ७०..
अन्यहीनस्वभावात्मा अन्यहीनस्वयंप्रभः .
विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः .. ७१..
नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः .
शमादिषट्कशून्यात्मा मुमुक्षुत्वादिवर्जितः .. ७२..
स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः .
कारणादिविहीनात्मा तुरीयादिविवर्जितः .. ७३..
अन्नकोशविहीनात्मा प्राणकोशविवर्जितः .
मनःकोशविहीनात्मा विज्ञानादिविवर्जितः .. ७४..
आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः .
निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः .. ७५..
दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः .
सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः .. ७६..
प्रज्ञानवाक्यहीनात्मा अहंब्रह्मास्मिवर्जितः .
तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः .. ७७..
ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः .
अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः .. ७८..
आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदमात्मकः .
भानाभानविहीनात्मा वैदेही मुक्त एव सः .. ७९..
आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् .
स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन .. ८०..
स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर .
आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् ..
इति चतुर्थोऽध्यायः .. ४..
निदाघो नाम वै मुनिः पप्रच्छ ऋभुं
भगवन्तमात्मानात्मविवेकमनुब्रूहीति .
स होवाच ऋभुः .
सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः .
सर्वकारणकार्यात्मा कार्यकारणवर्जितः .. १..
सर्वसङ्कल्परहितः सर्वनादमयः शिवः .
सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः .. २..
सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः .
सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः .. ३..
सर्वनादकलातीत एष आत्माहमव्ययः .
आत्मानात्मविवेकादिभेदाभेदविवर्जितः .. ४..
शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः .
महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः .. ५..
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः .
क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः .. ६..
अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः .
सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः .. ७..
आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः .
सच्चिदानन्दहीनो य एषैवात्मा सनातनः .. ८..
स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः .
यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च .. ९..
यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः .
नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः .. १०..
नामरूपादिकं नास्ति भोज्यं वा भोगभुक्च वा .
सद्वाऽसद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम् .. ११..
गुणं वा विगुणं वापि सम आत्मा न संशयः .
यस्य वाच्यं वाचकं वा श्रवणं मननं च वा .. १२..
गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः .
यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि .. १३..
यत्र कालमकालं वा निश्चयः संशयो न हि .
यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते .. १४..
द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् .
अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा .. १५..
अनात्मेति जगद्वापि नास्ति नास्ति निश्चिनु .
सर्वसङ्कल्पशून्यत्वात्सर्वकार्यविवर्जनात् .. १६..
केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु .
देहत्रयविहीनत्वात्कालत्रयविवर्जनात् .. १७..
जीवत्रयगुणाभावात्तापत्रयविवर्जनात् .
लोकत्रयविहीनत्वात्सर्वमात्मेति शासनात् .. १८..
चित्ताभाच्चिन्तनीयं देहाभावाज्जरा न च .
पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया न च .. १९..
मृत्युर्नास्ति जनाभावाद्बुद्ध्यभावात्सुखादिकम् .
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च .. २०..
अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि .
एकाभावे द्वितीयं न न द्वितीये न चैकता .. २१..
सत्यत्वमस्ति चेत्किञ्चिदसत्यं न च संभवेत् .
असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति .. २२..
शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते .
भयं यद्यभवं विद्धि अभयाद्भयमापतेत् .. २३..
बन्धत्वमपि चेन्मोक्षो बन्धाभावे क्व मोक्षता .
मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च .. २४..
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न .
इदं यदि तदेवास्ति तदभादिदं न च .. २५..
अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किञ्चन .
कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् .. २६..
द्वैतं यदि तदाऽद्वैतं द्वैताभावे द्वयं न च .
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेन न .. २७..
अन्तर्यदि बहिः सत्यमन्ता भावे बहिर्न च .
पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते .. २८..
तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् .
नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे .. २९..
परंब्रह्माहमस्मीति स्मरणस्य मनो न हि .
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् .. ३०..
चिन्मात्रं केवल.म् चाहं नास्त्यनात्म्येति निश्चिनु .
इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् .. ३१..
चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा .
न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः .. ३२..
मायाकार्यादिकं नास्ति माया नास्ति भयं नहि .
कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि .. ३३..
समाधिद्वितयं नास्ति मातृमानादि नास्ति हि .
अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन .. ३४..
अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न .
न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि .. ३५..
न भूमिर्न जलं नाग्निर्न न वायुर्न च खं क्वचित् .
न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् .. ३६..
न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थितम् .
नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च .. ३७..
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा .
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् .. ३८..
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि .
चिदित्येवेति नास्त्येव चिदहंभाषणं न हि .. ३९..
अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् .
वाचा यदुच्यते किञ्चिन्मनसा मनुते क्वचित् .. ४०..
बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि .
योगी योगादिकं नास्ति सदा सर्वं सदा न च .. ४१..
अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि .
भ्रान्तिरभ्रान्तिर्नास्त्येव नास्त्यनात्मेति निश्चिनु .. ४२..
वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः .
लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः .. ४३..
बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः .
गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः .. ४४..
वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् .
मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः .. ४५..
बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् .
शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते .. ४६..
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च .
नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् .. ४७..
इदमित्येव निर्दिष्टमयमित्येव कल्प्यते .
त्वमहं तदिदं सोऽहमन्यत्सद्भावमेव च .. ४८..
यद्यत्संभाव्यते लोके सर्वसङ्कल्पसंभ्रमः .
सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् .. ४९..
सर्वदोषप्रभेदाच्च नास्त्यनात्मेति निश्चिनु .
मदीयं च त्वदीयं च ममेति च तवेति च .. ५०..
मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् .
रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् .. ५१..
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु .
स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् .. ५२..
मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् .
अन्तःकरणसद्भाव अविद्याश्च संभवः .. ५३..
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु .
सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् .. ५४..
दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते .
वर्तते जगति यद्यत्सर्वं मिथ्येति निश्चिनु .. ५५..
येन केनाक्षरेणोक्तं येन केन विनिश्चितम् .
येन केनापि गदितं येन केनापि मोदितम् .. ५६..
येन केनापि यद्दत्तं येन केनापि यत्कृतम् .
यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् .. ५७..
यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु .
त्वमेव परमात्मासि त्वमेव परमो गुरुः .. ५८..
त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा .
त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः .. ५९..
कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः .
सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि .. ६०..
सत्योऽसि सिद्धोऽसि सनातनोऽसि
मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि .
देवोऽसि शान्तोऽसि निरामयोऽसि
ब्रह्मासि पूर्णोऽसि परात्परोऽसि .. ६१..
समोऽसि सच्चापि सनातनोऽसि
सत्यादिवाक्यैः प्रतिबोधितोऽसि .
सर्वाङ्गहीनोऽसि सदा स्थितोऽसि
ब्रह्मेन्द्ररुद्रादिविभावितोऽसि .. ६२..
सर्वप्रपञ्चभ्रमवर्जितोऽसि
सर्वेषु भूतेषु च भासितोऽसि .
सर्वत्र सङ्कल्पविवर्जितोऽसि
सर्वागमान्तार्थविभावितोऽसि .. ६३..
सर्वत्र सन्तोषसुखासनोऽसि
सर्वत्र गत्यादिविवर्जितोऽसि .
सर्वत्र लक्ष्यादिविवर्जितोऽसि
ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् .. ६४..
चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः .
आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः .. ६५..
आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः .
चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः .. ६६..
सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्षसि .
सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः .. ६७..
अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि .
सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः .. ६८..
सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि .
नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः .. ६९..
ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः .
अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः .. ७०..
लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः .
सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः .. ७१..
ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि .
स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि .. ७२..
स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः .
शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि .. ७३..
स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि .
स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु .. ७४..
इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते .
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् .. ७५..
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च .
अहङ्कारश्च तेजश्च लोकं भुवनमण्डलम् .. ७६..
नाशो जन्म च सत्यं च पुण्यपापजयादिकम् .
रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम् .. ७७..
गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् .
भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् .. ७८..
शमो विचारः सन्तोषो भोक्तृभोज्यादिरूपकम् .
यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् .. ७९..
आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः .
इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा .. ८०..
चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् .
सजातीयं विजातीयं लोका भूरादयः क्रमात् .. ८१..
सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसंग्रहम् .
विद्याविद्यादिरूपं च सर्ववेदं जडाजडम् .. ८२..
बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम् .
बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम् .. ८३..
सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् .
अनेकजीवसद्भावमेकजीवादिनिर्णयम् .. ८४..
यद्यद्ध्यायति चित्तेन यद्यत्सङ्कल्पते क्वचित् .
बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् .. ८५..
यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम् .
यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांसते पृथक् .. ८६..
यद्यन्न्यायेन निर्णीतं महद्भिर्वेदपारगैः .
शिवः क्षरति लोकान्वै विष्णुः पाति जगत्त्रयम् .. ८७..
ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् .
यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम् .. ८८..
सर्वोपनिषदां भावं सर्वं शशविषाणवत् .
देहोऽहमिति सङ्कल्पं तदन्तःकरणं स्मृतम् .. ८९..
देहोऽहमिति सङ्कल्पो महत्संसार उच्यते .
देहोऽहमिति सङ्कल्पस्तद्बन्धमिति चोच्यते .. ९०..
देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते .
देहोऽहमिति यद्भानं तदेव नरकं स्मृतम् .. ९१..
देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते .
देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितिः .. ९२..
देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते .
देहोऽहमिति यज्ज्ञानं तदसद्भावमेव च .. ९३..
देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते .
देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते .. ९४..
देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि .
देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् .. ९५..
देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् .
देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल .. ९६..
यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् .
कामं क्रोधं बन्धनं सर्वदुःखं
विश्वं दोषं कालनानास्वरूपम् .
यत्किञ्चेदं सर्वसङ्कल्पजालं
तत्किञ्चेदं मानसं सोम विद्धि .. ९७..
मन एव जगत्सर्वं मन एव महारिपुः .
मन एव हि संसारो मन एव जगत्त्रयम् .. ९८..
मन एव महद्दुःखं मन एव जरादिकम् .
मन एव हि कालश्च मन एव मलं तथा .. ९९..
मन एव हि सङ्कल्पो मन एव हि जीवकः .
मन एव हि चित्तं च मनोऽहङ्कार एव च .. १००..
मन एव महद्बन्धं मनोऽन्तःकरणं च तत् .
मन एव हि भूमिश्च मन एव हि तोयकम् .. १०१..
मन एव हि तेजश्च मन एव मरुन्महान् .
मन एव हि चाकाशं मन एव हि शब्दकम् .. १०२..
स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः .
जाग्रत्स्वप्नसुषुप्त्यादि मनोमयरितीरितम् .. १०३..
दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः .
दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम् .. १०४..
सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु .
नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत् .. १०५..
इति पञ्चमोऽध्यायः .. ५..
ऋभुः .. सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् .
सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम् .. १..
सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् .
सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् .. २..
सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् .
मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी .. ३..
न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् .
न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् .. ४..
न मध्यं नादि नान्तं वा न सत्यं न निबन्धजम् .
न दुःखं न सुखं भावं न माया प्रकृतिस्तथा .. ५..
न देहं न मुखं घ्राणं न जिह्वा न च तालुनी .
न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च .. ६..
न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् .
न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् .. ७..
न हस्तपादचलनं न शास्त्रं न च शासनम् .
न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः .. ८..
तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् .
नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् .. ९..
न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेश्वरः .
न गमागमचेष्टा च न नष्टं न प्रयोजनम् .. १०..
त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा .
न पीनं न कृशं क्लेदं न कालं देशभाषणम् .. ११..
न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः .
न ध्यानं योगसंसिद्धिर्न ब्रह्मवैश्यक्षत्रकम् .. १२..
न पक्षी न मृगो नाङ्गी न लोभो मोह एव च .
न मदो न च मात्सर्यं कामक्रोधादयस्तथा .. १३..
न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् .
न प्रौढहीनो नास्तिक्यं न वार्तावसरोऽति हि .. १४..
न लौकिको न लोको वा न व्यापारो न मूढता .
न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् .. १५..
न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा .
न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः .. १६..
न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः .
न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः .. १७..
न वारपक्षमासादि वत्सरं न च चञ्चलम् .
न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः .. १८..
न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः .
न यमो यमलोको वा न लोका लोकपालकाः .. १९..
न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् .
नाविद्या न च विद्या च न माया प्रकृतिर्जडा .. २०..
न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् .
न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् .. २१..
न पदार्था न पूजार्हं नाभिषेको न चार्चनम् .
न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् .. २२..
न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि .
न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् .. २३..
न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् .
न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः .. २४..
न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः .
न दुःसहं दुरालापं न किरातो न कैतवम् .. २५..
न पक्षपातं न पक्षं वा न विभूषणतस्करौ .
न च दम्भो दाम्भिको वा न हीनो नाधिको नरः .. २६..
नैकं द्वयं त्रयं तुर्यं न महत्वं न चाल्पता .
न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः .. २७..
न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता .
न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता .. २८..
न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः .
न महावाक्यमैक्यं वा नाणिमादिविभूतयः .. २९..
सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि .
सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् .. ३०..
ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा .
तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् .. ३१..
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः .
ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियः .. ३२..
ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः .
ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः .. ३३..
ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः .
ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः .. ३४..
इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः .
कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् .. ३५..
एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् .
दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः .. ३६..
लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः .
पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् .. ३७..
जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् .
सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् .. ३८..
स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन .
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् .. ३९..
नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन .
अणुमात्रलसद्रूपमणुमात्रमिदं जगत् .. ४०..
अणुमाअत्रं शरीरं वा ह्यणुमात्रमसत्यकम् .
अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् .. ४१..
ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् .
आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन .. ४२..
चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् .
अहमेव जगत्सर्वमहमेव परं पदम् .. ४३..
अहमेव गुणातीत अहमेव परात्परः .
अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः .. ४४..
अहमेवाखिलाधार अहमेव सुखात्सुखम् .
आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत्सुखं न च .. ४५..
आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् .
आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं नहि .. ४६..
आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् .
ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि .. ४७..
ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् .
ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् .. ४८..
ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् .
ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च .. ४९..
ब्रह्मणोऽन्यदह नास्ति ब्रह्मणोऽन्यत्फलं नहि .
ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि .. ५०..
ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः .
ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदन्ते नहि क्वचित् .. ५१..
स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किञ्चन .
यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः .. ५२..
यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि .
कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ..५३..
लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् .
कालभेदं देशभेदं वस्तुभेदं जयाजयम् .. ५४..
यद्यद्भेदं च तत्सर्वमसदेव हि केवलम् .
असदन्तःकरणकमसदेवेन्द्रियादिकम् .. ५५..
असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् .
असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः .. ५६..
असत्यं षड्विकारादि असत्यमरिवर्गकम् .
असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा .. ५७..
सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् .
आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः .. ५८..
सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः .
अहमेव परानन्द अहमेव परात्परः .. ५९..
ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः .
सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकम् .. ६०..
अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् .
त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् .. ६१..
चिदाकारं चिदाकाशं चिदेव परमं सुखम् .
आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः .. ६२..
सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् .
कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न .. ६३..
अहमेव हरिः साक्षादहमेव सदाशिवः .
शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः .. ६४..
अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् .
सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् .. ६५..
सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् .
सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः .. ६६..
परमात्मा परं ज्योतिः परं धाम परा गतिः .
सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः .. ६७..
योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः .
सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः .. ६८..
तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः .
चिदक्ष्रोऽन् सत्योऽहं वासुदवोऽजररोऽमरः .. ६९..
अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् .
शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् .. ७०..
सच्चिदानन्दरूपोऽहमनुन्त्पन्नमिदं जगत् .
सत्यासत्यं जगन्नास्ति सङ्कल्पकलनादिकम् .. ७१..
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् .
अनन्तमव्ययं शान्तमेकरूपमनामयम् .. ७२..
मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका .
वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन .. ७३..
शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् .
मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् .. ७४..
नरशृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि .
गन्धर्वनगरे सत्ये जगद्भवति सर्वदा .. ७५..
गगने नीलिमासत्ये जगत्सत्यं भविष्यति .
शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् .. ७६..
रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः .
जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् .. ७७..
विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्भवः .
रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्भवेत् .. ७८..
सद्यः कुमारिकरूपैः पाके सिद्धे जगद्भवेत् .
चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् .. ७९..
मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् .
तक्रं क्षीरस्वरूपं चेत्क्वचिन्नित्यं जगद्भवेत् .. ८०..
गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् .
भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा .. ८१..
कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे .
नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् .. ८२..
तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् .
अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा .. ८३..
ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् .
ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् .. ८४..
महच्छैलेन्द्रनीलं वा सम्भवच्चेदिदं जगत् .
मेरुरागत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् .. ८५..
निगिरेच्चेद्भृङ्गसूनुर्मेरुं चलवदस्त्विदम् .
मशकेन हते सिंहे जगत्सत्यं तदास्तु ते .. ८६..
अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्भवेत् .
तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्भवेत् .. ८७..
स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः .
नदीवेगो निश्चलश्चेत्केनापीदं भवेज्जगत् .. ८८..
क्षुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् .
जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत्सदा .. ८९..
नपुंसककुमारस्य स्त्रीसुखं चेद्भवज्जगत् .
निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् .. ९०..
सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् .
वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् .. ९१..
काको वा हंसवद्गच्छेज्जगद्भवतु निश्चलम् .
महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः .. ९२..
महाखरो गजगतिं गतश्चेज्जगदस्तु तत् .
सम्पूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् .. ९३..
चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद्दृश्यते जगत् .
भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् .. ९४..
दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् .
शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा .. ९५..
ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा .
श्वानेन सागरे पीते निःशेषेण मनो भवेत् .. ९६..
शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् .
भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् .. ९७..
शुद्धाकाशे वने जाते चलिते तु तदा जगत् .
केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् .. ९८..
अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्नहि .
सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते .. ९९..
मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् .
देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः .. १००..
हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मचक्रकम् .
संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् .. १०१..
अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणम् .
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् .. १०२..
एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् .
ब्रह्मैव सर्वभवनं भुवनं नाम सन्त्यज .. १०३..
अहं ब्रह्मेति निश्चित्य अहंभावं परित्यज .
सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् .. १०४..
न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् .
न भूतं न च कार्यं च न चावस्थाचतुष्टयम् .. १०५..
लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् .
सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय .. १०६..
अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् .
सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज .. १०७..
शाङ्करीयं महाशास्त्रं न देयं यस्य कस्यचित् .
नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने .. १०८..
गुरुभक्तिविशुद्धान्तःकरणाय महात्मने .
सम्यक्परीक्ष्य दातव्यं मासं षाण्मासवत्सरम् .. १०९..
सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् .
तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा .. ११०..
सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् .
ब्रह्मैव भवति स्वयमित्युपनिषत् ..
ॐ सह नाववतु .. सह नौ भुनक्तु ..
सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
इति तेजोबिन्दूपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com