.. तुलसी पूजा ..
.. अथ तुलसी पूजा प्रारंभः ..
.. श्रीगणेशाय नमः ..
.. अथ तुलसीपूजनं लिख्यते ..
श्रीमहादेव उवाच..
शुभे पक्षे शुभे वारे शुभे ऋक्षे शुभोदये .
केशवार्थे शुभांशे च रोपयेत्तुलसीं मुनिः ..१..
गृहस्थो गृहमध्ये वा गृहस्थोपवनेपि वा .
शुचौ देशे तु तुलसीमर्च्चयेद्बुद्धिमान्नरः ..२..
मूले च वेदिकां कृत्वा आलवालसमन्विताम् .
प्रातःसंध्याविधिं कृत्वा स्नानपूर्वं दिने दिने ..३..
गायत्र्यष्टजपं कृत्वा तुलसीं पूजयेत्ततः .
प्राङ्मुखोदङ्मुखो वापि स्थित्वा प्रयतमानसः ..४..
ध्यायेच्च तुलसीं देवीं श्यामां कमललोचनाम्
प्रसन्नपद्मकल्हारवराभयचतुर्भुजाम् ..५..
किरीटहारकेयूरकुंडलादिविभूषिताम् .
धवलांशुकसंयुक्तां पद्मासननिषेदुषीम् ..६.. इति ध्यानम्..
देवि त्रैलोक्यजननि सर्वलोकैकपावनि .
आगच्छ भगवत्यत्र प्रसीद तुलसि द्रुतम् ..७.. आवाहनम्..
सर्व देवमये देवि सर्वदा विष्णुवल्लभे .
रत्नस्वर्णमयं दिव्यं गृहाणासनमव्यये ..८.. आसनम्..
सर्वदेवमयाकारे सर्वदेवनमोऽस्तुते .
पाद्यं गृहाण देवेशि तुलसि त्वं प्रसीद मे ..९.. पाद्यम्..
सर्व देवमयाकारे सर्वांगमणिशोभिते .
इदमर्घंगृहानत्वं देवि दैत्यांन्तकप्रिये ..१०.. अर्घ्यम्..
सर्वलोकस्य रक्षार्थं सदा संनिधिकाररिणि..
गृहाण तुलसि प्रीत्या इदमाचमनीयकं ..११.. आचमनम्..
गंगादिभ्यो नदीभ्यश्च समानीतमिदं जलम् .
स्नानार्थं तुलसि स्वच्छं प्रीत्या तत्प्रतिगृत्द्यताम् ..१२.. स्नानम्..
क्षिरोदमथनोद्भूते चंद्रलक्ष्मीसहोदरे .
गृत्द्यतां परिधानार्थमिदं क्षौमांबरं शुभे ..१३.. वस्त्रम्..
श्रीगंधं कुंकुमं दिव्यं कर्पूरागरुसंयुतम् .
कल्पितं ते महादेवि प्रीत्यर्थं प्रतिगृत्द्यताम् ..१४.. गंधम्..
नीलोत्पलं तु कल्हारमालत्यादीनि शोभने .
पद्मादिगंधवंतीनि पुष्पाणि प्रतिगृत्द्यताम् ..१५.. पुष्पम्..
धूपं गृहाण् देवेशि मनोहारि सगुग्गलम् .
आज्यमिस्रं तु तुलसि भक्ताभिष्टप्रदायिनि ..१६.. धूपम्..
अज्ञानतिमिरांधस्य ज्ञानदीपप्रदायिनी .
त्वया तु तुलसि प्रिता दीपोयं प्रतिगृत्द्यताम् ..१७.. दीपम् ..
नमस्ते जगतां नाथे प्राणिनां प्रियदर्शने .
यथाशक्ति मया दत्तं नैवेद्यम् प्रतिगृत्द्यताम् ..१८.. नैवेद्यम्..
नमो भगवते श्रेष्ठे नारयनजगन्मये .
तुलसि त्वरया देवि पानीयं प्रतिगृत्द्यताम् ..१९.. पानीयम्..
अमृतेमृतसंभूते तुलस्यमृतरूपिणि .
कर्पूरादिसमायुक्तं तांबूलं प्रतिगृत्द्यताम् ..२०.. तांबूलम्..
दक्षिणा दक्षिणकरे त्वद्भक्तानां प्रियंकरि .
करोमि ते सदा भक्त्या विष्णुकांते प्रदक्षिणाम् ..२१..
नमो नमो जगद्धात्र्यै जगदाद्यै नमो नमः .
नमो नमो जगद्भूत्यै नमस्ते परमेश्वरि ..२२..
प्रसीद मम देवेशि कृपया परया सदा .
अभिष्टफलसिद्ध्यर्थ कुरु मे माधवप्रिये ..२३..
इत्येवमर्च्चयेन्नित्यं प्रातरेव शुचिर्नरः .
मध्याह्ने वाथ सायाह्ने पूजयेत्प्रयतो नरः ..२४..
..इति तुलसीपूजासंपूर्णा..
Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com