.. उतथ्यगीता..
९१
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्म वित्तमः .
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत .. १..
स यथानुशशासैनमुतथ्यो ब्रह्म वित्तमः .
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर .. २..
धर्माय राजा भवति न कामकरणाय तु .
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता .. ३..
राजा चरति वै धर्मं देवत्वायैव गच्छति .
न चेद्धर्मं स चरति नरकायैव गच्छति .. ४..
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति .
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः .. ५..
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते .
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते .. ६..
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते .
तदेव मङ्गलं सर्वं लोकः समनुवर्तते .. ७..
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् .
भयमाहुर्दिवारात्रं यदा पापो न वार्यते .. ८..
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः .
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते .. ९..
वध्यानामिव सर्वेषां मनो भवति विह्वलम् .
मनुष्याणां महाराज यदा पापो न वार्यते .. १०..
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् .
असृजन्सुमहद्भूतमयं धर्मो भविष्यति .. ११..
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते .
यस्मिन्विलीयते धर्मं तं देवा वेषलं विदुः .. १२..
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् .
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् .. १३..
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा .
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् .. १४..
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः .
अकार्याणां मनुष्येन्द्र स सीमान्त करः स्मृतः .. १५..
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयं भुवा .
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रह कारणात् .. १६..
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः .
स राजा यः प्रजाः शास्ति साधु कृत्पुरुषर्षभः .. १७..
कामक्रोधावनादृत्य धर्ममेवानुपालयेत् .
धर्मः श्रेयः करतमो राज्ञां भरतसत्तम .. १८..
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा .
ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी .. १९..
तेषां ह्यकाम करणाद्राज्ञः सञ्जायते भयम् .
मित्राणि च न वर्धन्ते तथामित्री भवन्त्यपि .. २०..
ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः .
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी .. २१..
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् .
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे .. २२..
एतत्फलमसूयाया अभिमानस्य चाभिभो .
तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी .. २३..
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः .
तेन देवासुरा राजन्नीताः सुबहुशो वशम् .. २४..
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव .
राजा भवति तं जित्वा दासस्तेन पराजितः .. २५..
स यथा दर्पसहितमधर्मं नानुसेवते .
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि .. २६..
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः .
तदभ्यासादुपावर्तादहितानां च सेवनात् .. २७..
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः .
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् .. २८..
एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत् .
अत्यायं चाति मानं च दम्भं क्रोधं च वर्जयेत् .. २९..
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च .
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः .. ३०..
कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् .
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः .. ३१..
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति .
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते .. ३२..
क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् .
अधर्माः सम्प्रवर्तन्ते प्रजा सङ्करकारकाः .. ३३..
अशीते विद्यते शीतं शीते शीतं न विद्यते .
अवृष्टिरति वृष्टिश्च व्याधिश्चाविशति प्रजाः .. ३४..
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे .
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः .. ३५..
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति .
प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति .. ३६..
द्वावाददाते ह्येकस्य द्वयोश् च बहवोऽपरे .
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृप दूषणम् .. ३७..
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते .
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति .. ३८..
९२
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः .
सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः .. १..
यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् .
रक्तानि वा शोधयितुं यथा नास्ति तथैव सः .. २..
एवमेव द्विजेन्द्राणां क्षत्रियाणां विशाम् अपि .
शूद्राश्चतुर्णां वर्णानां नाना कर्मस्ववस्थिताः .. ३..
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि .
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु .. ४..
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् .
शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः .. ५..
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ .
राजवृत्तानि सर्वाणि राजैव युगमुच्यते .. ६..
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च .
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति .. ७..
राजैव कर्ता भूतानां राजैव च विनाशकः .
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः .. ८..
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा .
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति .. ९..
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतर गर्दभाः .
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव .. १०..
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते .
अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् .. ११..
यच्च भूतं स भजते भूता ये च तदन्वयाः .
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव .. १२..
दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च .
अविषह्य तमं मन्ये मा स्म दुर्बलमासदः .. १३..
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् .
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः स बान्धवम् .. १४..
न हि दुर्बलदग्धस्य कुले किं चित्प्ररोहति .
आमूलं निर्दहत्येव मा स्म दुर्बलमासदः .. १५..
अबलं वै बलाच्छ्रेयो यच्चाति बलवद्बलम् .
बलस्याबल दग्धस्य न किं चिदवशिष्यते .. १६..
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति .
अमानुष कृतस्तत्र दण्डो हन्ति नराधिपम् .. १७..
मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् .
मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् .. १८..
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् .
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् .. १९..
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु .
न हि पापं कृतं कर्म सद्यः फलति गौरिव .. २०..
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति .
महान्दैवकृतस्तत्र दण्डः पतति दारुणः .. २१..
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव .
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः .. २२..
राज्ञो यदा जनपदे बहवो राजपूरुषाः .
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् .. २३..
यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा .
कृपणं याचमानानां तद्राज्ञो वैशसं महत् .. २४..
महावृक्षो जायते वर्धते च
तं चैव भूतानि समाश्रयन्ति .
यदा वृक्षश्छिद्यते दह्यते वा
तदाश्रया अनिकेता भवन्ति .. २५..
यदा राष्ट्रे धर्ममग्र्यं चरन्ति
संस्कारं वा राजगुणं ब्रुवाणाः .
तैरेवाधर्मश्चरितो धर्ममोहात्
तूर्णं जह्यात्सुकृतं दुष्कृतं च .. २६..
यत्र पापा ज्यायमानाश् चरन्ति
सतां कलिर्विन्दति तत्र राज्ञः .
यदा राजा शास्ति नरान्नशिष्यान्
न तद्राज्ञ्य वर्धते भूमिपाल .. २७..
यश्चामात्यं मानयित्वा यथार्हं
मन्त्रे च युद्धे च नृपो नियुज्ञ्यात् .
प्रवर्धते तस्य राष्ट्रं नृपस्य
भुङ्क्ते महीं चाप्यखिलां चिराय .. २८..
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् .
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् .. २९..
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते .
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते .. ३०..
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा .
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते .. ३१..
यदा शारणिकान्राजा पुत्र वत्परिरक्षति .
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते .. ३२..
यदाप्त दक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः .
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते .. ३३..
कृपणानाथ वृद्धानां यदाश्रु व्यपमार्ष्टि वै .
हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते .. ३४..
विवर्धयति मित्राणि तथारींश्चापकर्षति .
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते .. ३५..
सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति .
पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते .. ३६..
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ .
अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् .. ३७..
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः .
संयच्छन्भवति प्राणान्न संयच्छंस्तु पापकः .. ३८..
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च .
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते .. ३९..
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः .
तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः .. ४०..
सहस्राक्षेण राजा हि सर्व एवोपमीयते .
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ .. ४१..
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् .
भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा .. ४२..
सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् .
पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः .. ४३..
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् .
भरो हि सुमहांस्तात राज्यं नाम सुदुष्करम् .. ४४..
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् .
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा .. ४५..
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः .
सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणाम् अपि .. ४६..
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् .
स्वदेशे परदेशे वा न ते धर्मो विनश्यति .. ४७..
धर्मश्चार्थश्च कामश् च धर्म एवोत्तरो भवेत् .
अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते .. ४८..
त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः .
सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् .. ४९..
अप्रमादश्च शौचं च तात भूतिकरं महत् .
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः .. ५०..
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः .
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् .. ५१..
एतद्वृत्तं वासवस्य यमस्य वरुणस्य च .
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय .. ५२..
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् .
आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ .. ५३..
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत .
देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः .. ५४..
स एवमुक्तो मान्धाता तेनोतथ्येन भारत .
कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् .. ५५..
भवानपि तथा सम्यङ्मान्धातेव महीपतिः .
धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि .. ५६..
.. इति उतथ्यगीता समाप्ता ..
Please send corrections to Sunder Hattangadi(sunderh@hotmail.com OR sanskrit@cheerful.com);
Last updated October 12 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com