.. वाअमदेवगीता..
९३
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः .
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पिता मह .. १..
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता .. २..
राजा वसु मना नाम कौसल्यो बलवाञ्शुचिः .
महर्षिं परिपप्रच्छ वामदेवं यशो विनम् .. ३..
धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् .
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः .. ४..
तमब्रवीद्वामदेवस्तपस्वी जपतां वरः .
हेमवर्णमुपासीनं ययातिमिव नाहुषम् .. ५..
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् .
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् .. ६..
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः .
ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते .. ७..
अधर्मदर्शी यो राजा बलादेव प्रवर्तते .
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ .. ८..
असत्पापिष्ठ सचिवो वध्यो लोकस्य धर्महा .
सहैव परिवारेण क्षिप्रमेवावसीदति .. ९..
अर्थानामननुष्ठाता कामचारी विकत्थनः .
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति .. १०..
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः .
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः .. ११..
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः .
बुद्धितो मित्र तश्चापि सततं वसुधाधिपः .. १२..
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता .
एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः .. १३..
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः .
अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते .. १४..
अदाता ह्यनति स्नेहो दण्डेनावर्तयन्प्रजाः .
साहस प्रकृतीराजा क्षिप्रमेव विनश्यति .. १५..
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धि मान् .
अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते .. १६..
अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः .
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः .. १७..
यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति .
सुखतन्त्रोऽर्थलाभेषु नचिरं महदश्नुते .. १८..
गुरु प्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता .
धर्मप्रधानो लोकेषु सुचिरं महदश्नुते .. १९..
९४
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः .
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः .. १..
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् .
अविनीत मनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति .. २..
यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः .
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते .. ३..
साहस प्रकृतिर्यत्र कुरुते किं चिदुल्बणम् .
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति .. ४..
योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते .
जितानामजितानां च क्षत्रधर्मादपैति सः .. ५..
द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे .
यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः .. ६..
शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि .
प्रियो भवति भूतानां न च विभ्रश्यते श्रियः .. ७..
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् .
नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् .. ८..
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः .
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् .. ९..
नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् .
न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः .. १०..
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् .
न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् .. ११..
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः .
तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया .. १२..
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये .
भक्तं भजेत नृपतिस्तद्वै वृत्तं सताम् इह .. १३..
अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् .
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि .. १४..
एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् .
भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि .. १५..
मूढमैन्द्रियकं लुब्धमनार्य चरितं शठम् .
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् .. १६..
त्यक्तोपात्तं मद्य रतं द्यूतस्त्री मृगया परम् .
कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः .. १७..
रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति .
प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते .. १८..
ये के चिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् .
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते .. १९..
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् .
श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः .. २०..
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः .
अबलानभियुञ्जीत न तु ये बलवत्तराः .. २१..
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् .
आहवे निधनं कुर्याद्राजा धर्मपरायणः .. २२..
मरणान्तमिदं सर्वं नेह किं चिदनामयम् .
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् .. २३..
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् .
मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही .. २४..
एतानि यस्य गुप्तानि स राजा राजसत्तम .
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् .. २५..
नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् .
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् .. २६..
दातारं संविभक्तारं मार्दवोपगतं शुचिम् .
असन्त्यक्त मनुष्यं च तं जनाः कुर्वते प्रियम् .. २७..
यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते .
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते .. २८..
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते .
शृणोति प्रतिकूलानि वि मना नचिरादिव .. २९..
अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते .
जितानामजितानां च क्षत्रधर्मादपैति सः .. ३०..
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् .
स वै व्यसनमासाद्य गाध मार्तो न विन्दति .. ३१..
यः कल्याण गुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते .
अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके .. ३२..
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि .
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति .. ३३..
नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत् .
प्रिये नातिभृशं हृष्येद्युज्येतारोग्य कर्मणि .. ३४..
के मानुरक्ता राजानः के भयात्समुपाश्रिताः .
मध्यस्थ दोषाः के चैषामिति नित्यं विचिन्तयेत् .. ३५..
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्व चित् .
भारुण्ड सदृशा ह्येते निपतन्ति प्रमाद्यतः .. ३६..
अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् .
अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् .. ३७..
एतां राजोपनिषदं ययातिः स्माह नाहुषः .
मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् .. ३८..
९५
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः .
जघन्यमाहुर्विजयं यो युद्धेन नराधिप .. १..
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति .
न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते .. २..
यस्य स्फीतो जनपदः सम्पन्नः प्रिय राजकः .
सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः .. ३..
यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः .
अल्पेनापि स दण्डेन महीं जयति भूमिपः .. ४..
पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः .
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः .. ५..
प्रभावकालावधिकौ यदा मन्येत चात्मनः .
तदा लिप्सेत मेधा वी परभूमिं धनान्युत .. ६..
भोगेष्वदयमानस्य भूतेषु च दया वतः .
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः .. ७..
तक्षत्यात्मानमेवैष वनं परशुना यथा .
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते .. ८..
न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः .
क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते .. ९..
यदार्य जनविद्विष्टं कर्म तन्नाचरेद्बुधः .
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् .. १०..
नैनमन्येऽवजानन्ति नात्मना परितप्यते .
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति .. ११..
इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः .
उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते .. १२..
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः .
तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः .. १३..
.. इति वाअमदेवगीता समाप्ता ..
Please send corrections to Sunder Hattangadi(sunderh@hotmail.com OR sanskrit@cheerful.com);
Last updated October 12 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com