.. श्री वेङ्कटेश सुप्रभातम् ..
श्री वेङ्कटेश सुप्रभातम्
.. श्रीः ..
.. अथ श्री वेङ्कटेश सुप्रभातम् ..
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् .. १
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु .. २
मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यमूर्ते .
श्रीस्वामिनि श्रितजनप्रियदानशीले
श्रीवेङ्कटेशदयिते तव सुप्रभातम् .. ३
तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रमण्डले .
विधिशङ्करेन्द्रवनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे .. ४
अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां
आकाशसिन्धुकमलानि मनोहराणि .
आदाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ५
पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति .
भाषापतिः पठति वासर शुद्धिमारात्
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ६
ईषत्प्रफुल्लसरसीरुहनारिकेल
पूगद्रुमादिसुमनोहरपालिकानां .
आवाति मन्दमनिलस्सह दिव्यगन्धैः
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ७
उन्मील्य नेत्रयुगमुत्तम पंजरस्थाः
पात्रावशिष्टकदलीफलपायसानि .
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ८
तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तिचरितं तव नारदोऽपि .
भाषासमग्रमसकृत्करचाररम्यं
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ९
भृङ्गावली च मकरन्दरसानुविद्ध
झङ्कारगीत निनदैःसह सेवनाय .
निर्यात्युपान्तसरसीकमलोदरेभ्यः
शेषाद्रिशेखरविभो तव सुप्रभातम् .. १०
योषागणेन वरदध्निविमथ्यमाने
घोषालयेषु दधिमन्थनतीव्रघोषाः .
रोषात्कलिं विदधतेककुभश्च कुम्भाः
शेषाद्रिशेखरविभो तव सुप्रभातम् .. ११
पद्मेशमित्रशतपत्रगतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या .
भेरीनिनादमिव बिभ्रति तीव्रनादं
शेषाद्रिशेखरविभो तव सुप्रभातम् .. १२
श्रीमन्नभीष्ट वरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो .
श्रीदेवतागृहभुजान्तर दिव्य मूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १३
श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिंचसनन्दनाद्याः .
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १४
श्री शेषशैल गरुडाचल वेङ्कटाद्रि
नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् .
आख्याम् त्वदीय वसतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १५
सेवापराः शिवसुरेशकृशानुधर्म
रक्षोऽम्बुनाथ पवमान धनाधिनाथाः .
बद्धांजलि प्रविलसन्निजशीर्ष देशाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १६
घाटीषु ते विहगराज मृगाधिराज-
नागाधिराज गजराज हयाधिराजाः .
स्वस्वाधिकार महिमाधिकमर्थयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १७
सूर्येन्दु भौम बुध वाक्पति काव्य सौरि
स्वर्भानु केतु दिविषत्परिषत्प्रधानाः .
त्वद्दास दास चरमावधि दासदासाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १८
त्वत्पादधूलि भरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः .
कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. १९
त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः .
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २०
श्रीभूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते .
श्रीमन्ननन्त गरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २१
श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे .
श्रीवत्सचिन्ह शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २२
कन्दर्पदर्प हरसुन्दर दिव्यमूर्ते
कान्ताकुचाम्बुरुह कुट्मल लोलदृष्टे .
कल्याणनिर्मलगुणाकर दिव्यकीर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २३
मीनाकृते कमठ कोल नृसिंह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र .
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २४
एला लवङ्ग घनसार सुगन्धि तीर्थं
दिव्यं वियत्सरिति हेमघटेषु पूर्णम् .
धृत्वाऽऽद्य वैदिक शिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् .. २५
भास्वानुदेति विकचानि सरोरुहाणि
संपूरयन्ति निनदैः ककुभो विहङ्गाः .
श्रीवैष्णवास्सततमर्थित मङ्गलास्ते
धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् .. २६
ब्रह्मादयः सुरवरास्समहर्षयस्ते
सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः .
धामान्तिके तव हि मङ्गलवस्तु हस्ताः
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २७
लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसार सागर समुत्तरणैकसेतो .
वेदान्तवेद्यनिजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातम् .. २८
इत्थं वृषाचलपतेरिह सुप्रभातम्
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः .
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते .. २९
.. इति वेङ्कटेश सुप्रभातम् ..
.. अथ वेङ्कटेश स्तोत्रम् ..
कमला कुच चूचुक कुङ्कुमतो
नियतारुणितातुल नीलतनो .
कमलायतलोचन लोकपते
विजयी भव वेङ्कटशैलपते .. १
सचतुर्मुखषण्मुखपञ्चमुख
प्रमुखाखिलदैवतमौलिमणे .
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते .. २
अतिवेलतया तव दुर्विषहैः
अनुवेलकृतैरपराधशतैः .
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे .. ३
अधिवेङ्कटशैलमुदारमते
जनताभिमताधिकदानरतात् .
परदेवतया गदितान्निगमैः
कमलादयितान्न परं कलये .. ४
कलवेणुरवावशगोपवधू
शतकोटिवृतात्स्मरकोटिसमात् .
प्रतिवल्लविकाभिमतात्सुखदात्
वसुदेवसुतान्न परं कलये .. ५
अभिरामगुणाकर दाशरथे
जगदेकधनुर्धर धीरमते .
रघुनायक राम रमेश विभो
वरदोभव देव दयाजलधे .. ६
अवनीतनयाकमनीयकरं
रजनीकरचारुमुखाम्बुरुहं .
रजनीचरराजतमोमिहिरं
महनीयमहं रघुराम मये .. ७
सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुखायममोघशरं .
अपहाय रघूद्वहमन्यमहं
न कथञ्चन कञ्चन जातु भजे .. ८
विना वेङ्कटेशं न नाथो नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि .
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ .. ९
अहं दूरतस्ते पदाम्भोजयुग्म
प्रणामेच्छयाऽऽगत्य सेवां करोमि .
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश .. १०
अज्ञानिना मया दोषान्
अशेषान्विहितान् हरे .
क्षमस्व त्वं क्षमस्व त्वं
शेषशैल शिखामणे .. ११
.. इति वेङ्कटेश स्तोत्रम् ..
.. अथ वेङ्कटेश प्रपत्ति ..
ईशानां जगतोऽस्य वेङ्कटपतेः विष्णोः परां प्रेयसीं
तद्वक्षस्स्थल नित्य वासरसिकां तत्क्षान्ति संवर्धिनीं .
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वंदे जगन्मातरं .. १
श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् .
स्वामिन् सुशीलसुलभाश्रितपारिजात
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये .. २
आनूपुरार्पितसुजातसुगन्धिपुष्प
सौरभ्यसौरभकरौ समसन्निवेशौ .
सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये .. ३
सद्योविकासिसमुदित्वरसान्द्रराग
सौरभ्यनिर्भरसरोरुहसाम्यवार्तां .
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये .. ४
रेखामयध्वजसुधाकलशातपत्र
वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः .
भव्यैरलङ्कृततलौ परतत्व चिन्हैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये .. ५
ताम्रोदरद्युतिपराजितपद्मरागौ
बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ .
उध्यन्नखांशुभिरुदस्तशशाङ्कभासौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये .. ६
सप्रेमभीति कमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ .
कान्ताववाङ्ग्मनसगोचरसौकुमार्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये .. ७
लक्ष्मीमहीतदनुरूपनिजानुभाव
नीलादिदिव्यमहिषीकरपल्लवानां .
आरुण्यसङ्क्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये .. ८
नित्यान्नमद्विधिशिवादिकिरीटकोटि
प्रत्युप्त दीप्त नवरत्न महःप्ररोहैः .
नीराजना विधिमुदारमुपादधानौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये .. ९
विष्णोः पदे परम इत्युतिदप्रशंसौ
यौ मध्व उत्स इति भोग्यतयाऽप्यपात्तौ .
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये .. १०
पार्थाय तत्सदृश सारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति .
भूयोऽपि मह्यमिहतौ करदर्शितौ ते
श्री वेङ्कटेश चरणौ शरणं प्रपद्ये .. ११
मन्मूर्ध्नि कालियफणे विकटाटवीषु
श्री वेङ्कटाद्रिशिखरे शिरसि श्रुतीनां ..
चित्तेऽप्यनन्यमनसां सममाहितौते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये .. १२
अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्रीवेङ्कटाद्रि शिखराभरणायमानौ .
आनन्दिताखिल मनो नयनौ तवैतौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये .. १३
प्रायः प्रपन्न जनता प्रथमावगाह्यौ
मातुस्स्तनाविव शिशोरमृतायमानौ .
प्राप्तौपरस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये .. १४
सत्वोत्तरैस्सतत सेव्यपदाम्बुजेन
संसारतारकदयार्द्र दृगंचलेन .
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये .. १५
श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्ये त्वयि स्वयमुपेयतयास्फुरन्त्या .
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम् .. १६
.. इति वेङ्कटेश प्रपत्ति ..
.. अथ वेङ्कटेश मङ्गलाशासनम् ..
श्रियः कान्ताय कल्याण निधये निधयेऽर्थिनां
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् .. १
लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रमचक्षुषे
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् .. २
श्री वेङ्कटाद्रि शृङ्गाङ्ग्र मङ्गलाभरणाङ्घ्रये
मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् .. ३
सर्वावयवसौन्दर्य संपदा सर्वचेतसां
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् .. ४
नित्याय निरवद्याय सत्यानन्दचिदात्मने
सर्वान्तरात्मने श्रीमद् वेङ्कटेशाय मङ्गलम् .. ५
स्वतस्सर्वविदे सर्व शक्तये सर्वशेषिणे
सुलभाय सुशीलाया वेङ्कटेशाय मङ्गलम् .. ६
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने
प्रयुंजे परतत्त्वाय वेङ्कटेशाय मङ्गलम् .. ७
आकाल तत्त्वमश्रान्तं आत्मनां अनुपश्यतां
अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् .. ८
प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना
कृपयाऽऽदिशते श्रीमद् वेङ्कटेशाय मङ्गलम् .. ९
दयामृत तरङ्गिण्यास्तरङ्गैरिव शीतलैः
अपांगैः सिंचते विश्वं वेङ्कटेशाय मङ्गलम् .. १०
स्रग्भूषाम्बरहेतीनां सुषमावह मूर्तये
सर्वार्ति शमनायास्तु वेङ्कटेशाय मङ्गलम् .. ११
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे
रमया रममाणाय वेङ्कटेशाय मङ्गलम् .. १२
श्रीमद्सुन्दरजामातृमुनि मानसवासिने
सर्वलोक निवासाय श्रीनिवासाय मङ्गलम् .. १३
मङ्गलाशासनपरैर्मदाचार्य पुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् .. १४
.. इति वेङ्कटेश मङ्गलाशासनम् ..
.. ॐ तत् सत् ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com