.. श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् ..
अर्जुन उवाच
किं नु नाम सहस्राणि जपते च पुनः पुनः |
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव || १||
श्रीभगवानुवाच
मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् |
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् || २||
पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् |
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् || ३||
विश्वरूपं वासुदेवं रामं नारायणं हरिम् |
दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् || ४||
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् |
गवां कोटिप्रदानस्य अश्वमेधशतस्य च || ५||
कन्यादानसहस्राणां फलं प्राप्नोति मानवः |
अमायां वा पौर्णमास्यामेकादश्यां तथैव च || ६||
सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च |
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते || ७||
| इति श्रीकृष्णार्जुनसंवादे श्रीविष्णोरष्टाविंशतिनामस्तोत्रं सम्पूर्णम् |
Visit http://www.webdunia.com for additional texts with Hindi meanings.
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com