.. ..
.. Whom to Fear ..
कुर्मस्तारकचर्वणं त्रिभुवनमुत्पाटयामो बलात् .
किं भो न विजानास्यस्मान् रामकृष्णदासा वयम् ..
क्षीणाः स्म दीनाः सकरुणा जल्पंति मूढा जना
नास्तिक्यन्त्विदंतु अहह देहात्मवादातुराः .
प्राप्ताः स्म वीरा गतभया अभयं प्रतिष्ठां यदा
आस्तिक्यन्त्विदंतु चिनुमः रामकृष्णदासा वयम् ..
पीत्वा पीत्वा परमममृतं वीतसंसाररागाः
हित्वा हित्वा सकलकलहप्रापिणीं स्वार्थसिद्धिम् .
ध्यात्वा ध्यात्वा गुरुवरपदं सर्वकल्याणरूपम्
नत्वा नत्वा सकलभुवनं पातुमामंत्रयामः ..
प्राप्तं यद्वै त्वनादिनिधनं वेदोदधिं मथित्वा
दत्तं यस्य प्रकरणे हरिहरब्रह्मादिदेवैर्बलम् .
पूर्णं यत्तु प्राणसारैर्भौमनारायणानाम्
रामकृष्णस्तनुं धत्ते तत्पूर्णपात्रमिदं भोः ..
--स्वामी विवेकानन्द
Please send corrections to Sunder Hattangadi (sunderh@hotmail.com)
Last updated October 20 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com