.. याज्ञवल्क्योपनिषत् ..
संन्यासज्ञानसंपन्ना यान्ति यद्वैष्णवं पदम् .
तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ..
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच
भगवन्संन्यासमनुब्रूहीति कथं संन्यासलक्षणम् . स
होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् .
गृहाद्वनी भूत्वा प्रव्रजेत् . यदि वेतरथा ब्रह्मचर्यादेव
प्रव्रजेद्गृहाद्वा वनाद्वा . अथ पुनर्व्रती वाव्रती वा स्नातको
वाऽस्नातको वा उत्सन्नाग्निरनग्नोकोऽवा यदहरेव विरजेत्तदहरेव
प्रव्रजेत् . तदेके प्राजापत्यामेवेष्टिं कुर्वन्ति . अथ वा न
कुर्यादाग्नेय्यामेव कुर्यात् . अग्निर्हि प्राणः . प्राणमेवैतया करोति .
त्रैधातवीयामेव कुर्यात् . एतयैव त्रयो धातवो यदुत सत्त्वं
रजस्तम इति अयं ते योनिरृत्विजो यतो जातो अरोचथाः . तं जानन्नग्न
आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेत् . एष वा
अग्नेर्योनिर्यः प्राणं गच्छ स्वां योनिं गच्छ स्वाहेत्येवमेवैत-
दाग्रामादग्निमाहृत्य पूर्ववदग्निमाजिघ्रेत् यदग्निं न विन्देदप्सु
जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति
साज्यं हविरनामयम् . मोक्षमन्त्रस्त्रय्येवं वेद तद्ब्रह्म
तदुपासितव्यम् . शिखां यज्ञोपवीतं छित्त्वा संन्यस्तं मयेति
त्रिवारमुच्चरेत् . एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः .. १..
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं यज्ञोपवीती
कथं ब्राह्मण इति . स होवाच याज्ञवल्क्य इदं
प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा . प्राश्याचम्यायं
विधिरथ वा परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही
भैक्षमाणो ब्रह्म भूयाय भवति . एष पन्थाः
परिव्राजकानां वीराध्वनि वाऽनाशके वापां प्रवेशे
वाग्निप्रवेशे वा महाप्रस्थाने वा . एष पन्था ब्रह्मणा
हानुवित्तस्तेनेति स संन्यासी ब्रह्मविदिति . एवमेवैष भगवन्निति
वै याज्ञवल्क्य . तत्र परमहंसा नाम संवर्तकारुणि-
श्वेतकेतुदूर्वासऋभुनिदाघदत्तात्रेयशुकवामदेव-
हारीतकप्रभृतयोऽव्यक्तलिङ्गाऽव्यक्ताचारा अनुन्मत्ता
उन्मत्तवदाचरन्तः परस्त्रीपुरपराङ्मुखास्त्रिदण्डं
कमण्डलुं भुक्तपात्रं जलपवित्रं शिखां यज्ञोपवीतं
बहिरन्तश्चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मान-
मन्विच्छेत् . यथा जातरूपधरा निर्द्वन्द्वा निष्परिग्रहा-
स्तत्त्वब्रह्ममार्गे सम्यक्संपन्नाः शुद्धमानसाः
प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचर-
न्नुदरपात्रेण लाभालाभौ समौ भूत्वा करपात्रेण वा
कमण्डलूदकपो भैक्षमाचरन्नुदरमात्रसंग्रहः
पात्रान्तरशून्यो जलस्थलकमण्डलुरबाधकरहःस्थल-
निकेतनो लाभालाभौ समौ भूत्वा शून्यागारदेवगृह-
तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदी-
पुलुनगिरिकुहरकोटरकन्दरनिर्झरस्थण्डिलेष्वनिकेतनिवास्य-
प्रयत्नःशुभाशुभकर्मनिर्मूलनपरः संन्यासेन
देहत्यागं करोति स परमहंसो नामेति . आशाम्बरो न
नमस्कारो न दारपुत्राभिलाषी लक्ष्यालक्ष्यनिर्वर्तकः
परिव्राट् परमेश्वरो भवति . अत्रैते श्लोका भवन्ति .
यो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि .
तस्मै प्रणामः कर्तव्यो नेतराय कदाचन .. १..
प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः .
संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः .. २..
नामादिभ्यः परे भूम्नि स्वाराज्ये चेत्स्थितोऽद्वथे .
प्रणमेत्कं तदात्मज्ञो न कार्यं कर्मणा तदा .. ३..
ईश्वरो जीवकलया प्रविष्टो भगवानिति .
प्रणमेद्दण्डवद्भूमावाश्वचण्डालगोखरम् .. ४..
मांसपाञ्चालिकायास्तु यन्त्रलोकेऽङ्गपञ्जरे .
स्नाय्वस्थिग्रन्थिशालिन्यः स्त्रियः किमिव शोभनम् .. ५..
त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने .
समालोकय रम्यं चेत्किं मुधा परिमुह्यसि .. ६..
मेरुशृङ्गतटोल्लासि गङ्गाजलस्योपमा .
दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लसशालिता .. ७..
श्मनानेषु दिगन्तेषु स एव ललनास्तनः .
श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः .. ८..
केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः .
दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् .. ९..
ज्वलना अतिदूरेऽपि सरसा अपि नीरसाः .
स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् .. १०..
कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः .
नार्यो नरविहङ्गानामङ्गबन्धनवागुराः .. ११..
जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् .
पुंसां दुर्वासनारज्जुर्नारीबडिशपिण्डिका .. १२..
सर्वेषां दोषरत्नानां सुसमुद्गिकयानया .
दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया .. १३..
यस्य स्त्री तस्य भोगेच्छा निस्त्रीकस्य क्व भोगभूः .
स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् .. १४..
अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् .
लब्धो हि गर्भपातेन प्रसवेन च बाधते .. १५..
जातस्य ग्रहरोगादि कुमारस्य च धूर्तता .
उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते .. १६..
यूनश्च परदारादि दारिद्र्यं च कुटुम्बिनः .
पुत्रदुःखस्य नास्त्यन्तो धनी चेन्म्रियते तदा .. १७..
न पाणिपादचपलो न नेत्रचपलो यतिः .
न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः .. १८..
रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यतः .
विवेकिनः कुतः कोपः स्वदेहावयवेष्विव .. १९..
अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते .
धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि .. २०..
नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् .
कोपस्य मम वैराग्यदायिने दोषबोधिने .. २१..
यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी .
प्रबुद्धा यत्र ते विद्वान्सुषुप्तिं याति योगिराट् .. २२..
चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च .
चित्त्वं चिदहमेते च लोकाश्चिदिति भावय .. २३..
यतीनां तदुपादेयं पारहंस्यं परं पदम् .
नातः परतरं किञ्चिद्विद्यते मुनिपुङ्गवः .. २४..
इत्युपनिषत् ..
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
इति याज्ञवल्क्योपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com