\Large Yatipanchakam
.. यतिपञ्चकम् ..
वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः .
विशोकवन्तः करणैकवन्तः
कौपीनवन्तः खलु भाग्यवन्तः .. १..
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममत्रयन्तः .
कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः .. २..
देहादिभावं परिमार्जयन्त
आत्मानमात्मन्यवलोकयन्तः .
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः .. ३..
स्वानन्दभावे परितुष्टिमन्तः
संशान्तसर्वेन्द्रियदृष्टिमन्तः .
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः .. ४..
पञ्चाक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदि भावयन्तः .
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः .. ५..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
यतिपञ्चक संपूर्णम् ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com