.. दत्तात्रेय विरचिअत योगरहस्य ..
योगाध्यायः
ज्ञानपूर्वो वियोगो योः ज्ञानेन सह योगिनः |
सा मुक्तिर्ब्रह्मणा च ऐक्यमनैक्यं प्राकृतैर्गुणैः || १. १||
मुक्तिर्योगात्तथा योगः सम्यग्ज्ञानान्महीपते |
ज्ञानं दुःखोद्भवं दुःखं ममतासक्तचेतसाम् || १. २||
तस्मात्सङ्गं प्रयत्नेन मुमुक्षुः सन्त्यजेन्नरः |
सङ्गाभावे ममेत्यस्याः ख्यातेर्हाबिः प्रजायते || १. ३||
निर्ममत्वं सुखायैव वैराग्याद्दोषदर्शनम् |
ज्ञानादेव च वैराग्यं ज्ञानं वैराग्यपूर्वकम् || १. ४||
तद्गृहं यत्र वसतिस्तद्भोज्यं येन जीवति |
यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा || १. ५||
उपभोगेन पुण्यानामपुण्यानाञ्च पार्थिव |
कर्त्तव्यानाञ्च नित्यानामकामकरणात्तथा || १. ६||
असञ्चयादपूर्वस्य क्षयात्पूर्वार्ज्जितस्य च |
कर्मणो बन्धमाप्नोति शरीरं न पुनः पुनः || १. ७||
एतत्ते कथितं राजन्योगं चेमं निबोध मे |
यं प्राप्य ब्रह्मणो योगी शाश्वतान्नान्यतां व्रजेत् || १. ८||
प्रागेवात्मात्मना जेयो योगिनां स हि दुर्जयः |
कुर्वीत तज्जये यत्नं तस्योपायं शृणुस्व मे || १. ९||
प्राणायामैर्दहेद्दोषान्धारणाभिः च किल्विषम् |
प्रत्याहारेण विषयान्ध्यानेनानीश्वराङ्गुणान् || १. १०||
यथा पर्वतधातूनां दोषाः दह्यन्ति धाम्यताम् |
तथेन्द्रियकृता दोषाः दह्यन्ते प्राणनिग्रहात् || १. ११||
प्रथमं साधनं कुर्यात्प्राणायामस्य योगवित् |
प्राणापाननिरोधस्तु प्राणायाम उदाहृतः || १. १२||
लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः |
तस्य प्रमाणं वक्ष्यामि तदलर्क शृनुष्व मे || १. १३||
लघुः द्वादशमात्रस्तु द्विगुणः स तु मध्यमः |
त्रिगुणाभिस्तु मात्राभिः उत्तमः परिकीर्तितः || १. १४||
निमेषोन्मेषणो मात्राकालो लघ्वक्षरस्तथा |
प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रिकः || १. १५||
प्रथमेन जयेत्स्वेदम्मध्यमेन च वेपथुम् |
विषादं हि तृतीयेन जयेद्दोषाननुक्रमात् || १. १६||
मृदुत्वं सेव्यमानस्तु सिंहशार्दूलकुञ्जराः |
यथा यान्ति तथा प्राणो वश्यो भवति योगिनः || १. १७||
वश्यं नत्तं यथेच्छातो नागं नयति हस्तिपः |
तथैव योगी स्वच्छन्दः प्राणं नयति साधितम् || १. १८||
यथा हि साधितः सिंहो मृगान् हस्ति न मानवान् |
तद्वन्निषिद्धपवनः किल्विषं न नृणाः तनुम् || १. १९||
तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् |
श्रूयतां मुक्तिफलद तस्यावस्थाचतुष्टयम् || १. २०||
धवस्तिः प्राप्तिः तथा संवित्प्रसादश्च महीपते |
स्वरुपं शृणु चैतेषां कथ्यमानमनुक्रमात् || १. २१||
कर्मणामिष्टदुष्टानां जायते फलसंक्षयः |
चेतसो अपकषायत्व यत्र सा धवस्तिरच्यते || १. २२||
ऐहिकामुष्मिकान् कामान् लोभमोहात्मकान् स्वयम् |
निरुध्यास्ते यदा योगी प्राप्तिः सा सार्वकालिकी || १. २३||
अतीतानागतानर्थान्विप्रकृष्टतिरोहितान् |
विजानातीन्दुसूर्यर्क्षग्रहाणां ज्ञानसंपदा || १. २४||
तुल्यप्रभावस्तु सदा योगी प्राप्नोति संपदम् |
तदा संविदिति ख्याता प्राणायामस्य संस्थितिः || १. २५||
यान्ति प्रसादं येनास्य मनः पञ्च च बायवः |
इन्द्रियानीन्द्रियार्थाश्च स प्रसाद् इति स्मृतः || १. २६||
शृणूस्व च महीपाल प्राणायामस्य लक्षणम् |
युञ्जतश्च सदा योगं यादृग्विहितमासनम् || १. २७||
पद्मर्द्धासनं चापि तथा स्वस्तिकमासनम् |
आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि || १. २८||
समः समासनो भूत्वा संहृत्य चरणावूभौ |
संवृतास्यः तथैवोरु सम्यग्विष्टभ्य चाग्रतः || १. २९||
पाष्णिभ्यां लिङ्गवृषणावस्पृशन्प्रयतः स्थितः |
किञ्चिदुनमितशिरा दन्तैः दन्तान्न संस्पृशेत् || १. ३०||
संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् |
रजसा तमसौ वृत्तिं सत्त्वेन रजसस्तथा |
स आद्य निर्मले तत्त्वे स्थितो युञ्जीत योगवित् || १. ३१||
इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च |
निगृह्य समवायेन प्रत्याहारमुपक्रमेत् || १. ३२||
यस्तु प्रत्याहरेत्कामान्सर्वाङ्गानीव कच्छपः |
सदात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि || १. ३३||
स बाह्याभ्यन्तरं शौचं निपाद्याकण्ठनाभितः |
पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् || १. ३४||
तथा वै योगयुक्तस्य योगिनो नियतात्मनः |
सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते || १. ३५||
वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान्पृथक् |
व्योमादिपरमाणुञ्च तथात्मानमकल्मषम् || १. ३६||
इत्थं योगी यताहारः प्राणायामपरायणः |
जितां जितां शनैर्भूमिमारोहेत यथा गृहम् || १. ३७||
दोषान्व्याधींस्तथा मोहमाक्रान्ता भूरनिर्जिता |
विवर्धयति नारोहेत्तस्माद्भूमिमनिर्जिताम् || १. ३८||
प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः |
धारणेत्युव्यते चेयं धार्य्यते यन्मनो यया || १. ३९||
शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः |
प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः || १. ४०||
उपायश्चात्र कथितो योगिभिः परमर्षिभिः |
येन ब्याध्यादयो दोषा न जायन्ते हि योगिनः || १. ४१||
यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः |
आपिबेयूस्तथा वायुं पिबेद्योगी जितश्रमः || १. ४२||
प्राण्नाभ्यां हृदये चात्र तृतीये च तथोरसि |
कण्ठे मुखे नासिकाग्रे नेत्रभ्रुमध्यमूर्द्धसु || १. ४३||
किञ्च तस्मात्परस्मिंश्च धारणा परमा स्मृता |
दशैता धारणाः प्राप्य प्राप्नोत्यक्षरसाम्यताम् || १. ४४||
तस्य नो जायते मृत्युर्न जरान च वै क्लमः |
न श्रान्तिरवसादोत्थ तुरीये सततं स्थितिः || १. ४५||
इयं वै योगभूमिः स्यात् सप्तैव परिकीर्त्तितः |
यत्र स्थिते ब्रह्मस्थितिं लभते नात्र संशयः || १. ४६||
नाध्मातः क्षूधितः श्रान्तो न च व्याकुलचेतनः |
युञ्जीत योगं राजेन्द्र!योगी सिद्ध्यर्थमादृतः || १. ४७||
नातिशीते न चोण्षे वै न द्वन्द्वेनानिलात्मके |
कालेस्वेतेषु युञ्जीत न योगं ध्यानतत्परः || १. ४८||
सशब्दाग्निजलाभ्यासे जीर्णगोष्ठे चतुष्पथे |
शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे || १. ४९||
सभये कूपतीरे वा चैत्यवल्मीकसंचये |
देषेष्वेतेषु तत्त्वज्ञो योगाब्यासं विवर्जयेत् || १. ५०||
सत्त्वस्यानुपपत्तौ च देशकालं विवर्जयेत् |
नासतो दर्शनं योगे तस्मात्तत्परिवर्जयेत् || १. ५१||
दृळ्हता चित्तशुद्धिश्च जयते नात्र संशयः |
स्थानकालप्रभावेण निश्चयं विद्धि भूमिप |
तन्मयस्य कुतश्चिन्ता देशकालमयी तथा || १. ५२||
देशानिताननादृत्य मूळ्हत्वाद्यो युनक्ति वै |
विघ्नाय तस्य वै दोषा जायन्ते तन्निबोध मे || १. ५३||
भाधिर्यं जळता लोपः स्मृतेर्मूकत्त्वमान्धता |
ज्वरश्च जायते सद्यस्तत्तदज्ञानयोगिनः || १. ५४||
प्रमादाद्योगिनो दोषा यद्येते स्युश्चिकित्सितम् |
तेषां नाशाय कर्त्तव्यं योगिनां तन्निबोध मे || १. ५५||
स्निग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत् |
वातगुल्मप्रशान्त्यर्थमुदावर्त्ते तथोदरे || १. ५६||
यबागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् |
तद्वत् कल्पे महाशैलं स्थिरं मनस् धारयेत् || १. ५७||
विघाते वचनो वाचं वाधिर्य्यं श्रवणेन्द्रियम् |
यथैवाम्रफलं ध्यायेत्तृष्णार्त्तो रसनेन्द्रिये || १. ५८||
यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारिणीम् |
धारयेद्धारणामुष्णे शीतां शीते च दाहिनीम् || १. ५९||
कीलं शिरसि संस्थाप्य काष्थं काष्ठेन ताडयेत् |
लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते || १. ६०||
द्यावापृथिव्यौ वाय्वग्नी व्यापिनावपि धारयेत् |
अमानुषात्सस्त्वजाद्वा वाधास्त्वेताश्चिकित्सिताः || १. ६१||
अमानुयं सत्त्वमन्तर्योगिनं प्रविशेद्यदि |
वाय्वग्निधारणेनैनं देहसंस्थं विनिर्द्दहेत || १. ६२||
एवं सर्वात्मना रक्षा कार्य्या योगविदा नृप!|
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः || १. ६३||
प्रवृत्तिलक्षणाख्यानादेयागिनो विस्मयात् तथा |
विज्ञानं विलयं याति तस्माद्गोप्याः प्रवृत्तयः || १. ६४||
अलोल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् |
कान्तिः प्रसादः स्वासौम्यता च योगप्रवृत्तेः प्रथमं हि चिहुम् || १. ६५||
अनुरागी जनो याति परोक्षे गुणकीर्त्तनम् |
न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् || १. ६६||
शीतोष्णादिभिरत्युग्रैर्यस्य वाधा न विद्यते |
न भीतिमेति चान्यभ्यस्तस्य सिद्धिरुपस्थिता || १. ६७||
इति योगाध्यायः ||
योगसिद्धिः
उपसर्गाः प्रवर्त्तन्ते दृष्टे ह्यात्मनि योगिनः |
ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे || २. १||
काम्याः क्रियास्तथा कामान् मानुषानभिवाज्ञति |
स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् || २. २||
देवत्वममरेशत्वं रसायनचयः क्रियाः |
मरुत्प्रपतनं यञ्जं जलाग्न्यावेशनं तथा |
श्राद्धानां सर्वदानानां फलानि नियमांस्तथा || २. ३||
तथोपवासात्पूर्त्ताच्च देवताभ्यर्च्चनादपि |
तेभ्यश्चेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्चति || २. ४||
चित्तमिथं वर्त्तमानं यत्नादेयागी निवर्त्तयेत् |
ब्रह्मसङ्गि मनः कुर्व्वन्नुपसर्गात्प्रमुच्यते || २. ५||
उपसर्गैर्जितैरेभिरूपसर्गास्तुतः पुनः |
योगिनः सम्प्रवर्त्तन्ते सात्त्वराजसतामसाः || २. ६||
प्रातिभः श्रावणो दैवो भ्रमावर्त्तौ तथापरौ |
पञ्चैते योगिनां योगविघ्नाय कटुकोदया || २. ७||
वेदार्थाः काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः |
प्रतिभान्ति यदस्त्येति प्रातिभः स तु योगिनः || २. ८||
शब्दार्थानखिलान् वेत्ति शब्दं गृह्नति चैव यत् |
योजनानां सहस्त्रेभ्यः श्रावणः सोऽभिधीयते || २. ९||
समन्ताद्वीक्षते चाष्टौ स यदा देवतोपमः |
उपसर्गं तमप्यान्थर्दैवमुन्मत्तवद्बुधाः || २. १०||
भ्राम्यते यन्निरालम्बं सनो दोषेण योगिनः |
समस्ताचारविभ्रंशाद्भ्रमः स परिकीर्त्तितः || २. ११||
आवर्त्त इव तोयस्य ज्ञानावत्तो यदाकुलः |
नाशयेच्चित्तमावर्त्त उपसर्गः स उच्यते || २. १२||
एतैर्नाशितयोगास्तु सकला देवयोनयः |
उपसर्गैर्महाघोरैरावर्त्तन्ते पुनः पुनः || २. १३||
प्रावृत्य कन्वलं शुल्कं योगी तस्मान्मनोमयं |
चिन्तयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः || २. १४||
योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः |
सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्द्ध्न धारयेत् || २. १५||
धरित्रीं धारयेद्योगी तत्सौख्यं प्रतिपद्यते |
आत्मानं मन्यते चोर्व्विं तद्बन्धञ्च जहाति सः || २. १६||
तथैवाप्सुरसं सूक्ष्मं तद्वद्रूपञ्च तेजसि |
स्पर्शं वायौ तथा तद्वद्विभ्रतस्तस्य धारणाम् |
व्योम्नः सूक्ष्मां प्रवृत्तिञ्च शब्दं तद्वज्जहाति सः || २. १७||
मनसा सर्व्वभूतानां मनस्याविशते यदा |
मानसीं धारणां विभ्रन्मनः सूक्ष्मञ्च जायते || २. १८||
तद्वद्बुद्धिमशेषाणां सत्त्वानामेत्य योगवित् |
परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुतमम् || २. १९||
परित्यजति सूक्ष्माणि सप्त त्वेतानि योगवित् |
सम्यग्विज्ञाय योऽलर्क!तस्यावृत्तिर्न विद्यते || २. २०||
एतासां धारणानन्तु सप्तानां सौक्ष्म्यमात्मवान् |
दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परं व्रजेत् || २. २१||
यस्मिन् यस्मिंश्च कुरुते भुते रागं महीपते!|
तस्मिंस्तस्मिन् समासक्तिं सम्प्राप्य स विनश्यति || २. २२||
तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् |
परित्यजति यो देही स परं प्राप्नुयात्पदम् || २. २३||
एतान्येव तु सन्धाय सप्त सूक्ष्माणि पार्थिव |
भूतादीनां विरागोऽत्र सद्भावज्ञस्य मुक्तये || २. २४||
गद्धादिषु समासक्तिं सम्प्राप्य स विनश्यति |
पुनरावर्त्तते भूप!स ब्रह्मापरमानुषम् || २. २५||
सप्तैता धारणा योगी समतीत्य यदिच्छति |
तस्मिंस्तस्मिंल्लयं सूक्ष्मे भूते याति नरेश्वर!|| २. २६||
देवानामसुराणां वा गन्धर्व्वोरगरक्षसाम् |
देहेषु लयमायाति सङ्गं नाप्नोति च क्वचित् || २. २७||
अणिमा लघिमा चैव महिमा प्राप्तिरेव च |
प्राकाम्यञ्च तथेशित्वं वशित्वञ्च तथापरम् || २. २८||
यत्र कामावसायित्वं गुणानेतांस्तथैश्वरान् |
प्राप्नोत्यष्टौ नरव्याघ्र!परं निर्व्वाणसूचकान् || २. २९||
सूक्ष्मात् सूक्ष्मतमोऽणीयान् शीघ्रत्वं लघिमा गुणः |
महिमाऽशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यतः || २. ३०||
प्राकाम्यस्य च व्यापित्वादीशित्वञ्चेश्वरो यतः |
वशित्वाद्वशिमा नाम योगिनः सप्तमो गुणः || २. ३१||
यत्रेच्चास्थानमप्युक्तं यत्र कामावसायिता |
त्रैश्वर्य्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा || २. ३२||
मुक्तिसंसूचकं भूप!परं निर्वाणमात्मनः |
ततो न जायते नैव वर्द्धते न विनश्यति || २. ३३||
नापि क्षयमवाप्नोति परिणामं न गच्छति |
छेदं क्लेदं तथा दाहं शोषं भुयादितो न च || २. ३४||
भुतवर्गादवाप्नोति शब्दाद्यैर्ह्रियते न च |
न चास्य सन्ति शब्दाद्यास्तद्भोक्ता तैर्न युज्यते || २. ३५||
यथा हि कनकं खन्तमपद्रव्यवदग्निना |
दग्धदोषं द्वितीयेन खन्तेनैक्यं व्रजेन्नृप!|| २. ३६||
न विशेषमवाप्नोति तद्वद्योगाग्निना यतिः |
निर्द्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह || २. ३७||
यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् |
तदाख्यस्तन्मयो भुतो न गृह्येत विशेषतः || २. ३८||
परेण ब्रह्मणा तद्वत् प्राप्यैक्यं दग्धकिल्विषः |
योगी याति पृथग्भावं न कदाचिन्महीपते!|| २. ३९||
यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति |
तथात्मा साम्यमभ्येति योगिनः परमात्मनि || २. ४०||
इति योगसिद्धिः ||
योगिचर्य्या
अलर्क उवाच |
भगवन्!योगिनश्चर्य्यं श्रोतुमिच्छामि तत्त्वतः |
ब्रह्मवर्त्मन्यनुसरन् यथा योगी न सीदति || ३. १||
दत्तात्रेय उवाच |
मानापमानौ यावेतौ प्राप्त्युद्वेगकरौ नृणाम् |
तावेव विपरीतार्थौ योगिनः सिद्धिकारकौ || ३. २||
मानापमानौ यावेतौ तावेवान्थर्विषामृते |
अपमानोऽमृतं तत्र मानस्तु विषमं विषम् || ३. ३||
चक्षुःपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् |
सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् || ३. ४||
आतित्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च |
म्हाजनञ्च सिद्ध्यर्थं न गच्छेद्योगवित् क्वचित् || ३. ५||
व्यस्ते विधूमे व्यङ्गारे सर्वस्मिन् भुक्रवर्ज्जने |
अदेत योगविद्भैक्ष्यं न तु त्रिष्वेव नित्यशः || ३. ६||
यथैवमवमन्यन्ते जनाः परिभवस्ति च |
तथा युक्तश्चरेद्योगी सतां वर्त्म न दूषयन् || ३. ७||
भैक्ष्यं चरेद्गृहस्थेषु यायावरगृहेषु च |
श्रेष्ठा तु प्रथमा चेति वृत्तिरस्योपदृश्यते || ३. ८||
अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः |
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु || ३. ९||
अत ऊर्द्धं पुनश्चापि अदुष्ठापतितेषु च |
भैक्ष्यचर्य्या विवर्णेषु जघन्या वृत्तिरिष्यते || ३. १०||
भैक्ष्यं यवागूं तक्रं वा पयो यावकमेव वा |
फलं मूलं प्रियङ्गुं वा कणपिण्याकशक्तवः || ३. ११||
इत्येते च शुभाहारा योगिनः सिद्धिकारकाः |
तत्प्रयुञ्ज्यान्मुनिर्भक्त्या परमेण समाधिना || ३. १२||
अपः पूर्वं सकृत् प्राश्य तुष्णीन्भूत्वा समाहितः |
प्राणारेति ततस्तस्य प्रथमा ह्यान्थतिः स्मृता || ३. १३||
अपानाय द्वितीया तु समानायेति चापरा |
उदानाय चतुर्थी स्यात् व्यानायेति च पञ्चमी || ३. १४||
प्राणायामैः पृथक् कृत्वा शेषं भुञ्जीत कामतः |
अपः पुनः सकृत् प्राश्य आचम्य हृदयं स्पृशेत् || ३. १५||
अस्तेयं ब्रह्मचर्यञ्च त्यागोऽलोभस्तथैव च |
व्रतानि पञ्च भिक्षुणामहिंसापरमाणि वै || ३. १६||
अक्रोधो गुरुशुश्रुषा शौचमाहारलाघवम् |
नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्त्तिताः || ३. १७||
सारभूतमुपासीत ज्ञानं यत् कार्य्यसाधकम् |
ज्ञानानां व धा षेयं योगविघ्नकरा हिन्सा || ३. १८||
इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् |
अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् || ३. १९||
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः |
विधाय बुद्ध्ह्या द्वाराणि मनो ध्याने निवेशयेत् || ३. २०||
शून्येष्वेवावकाशेषु गुहासु च वनेषु च |
नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् || ३. २१||
वाग्दन्तः कर्मदन्तश्च मनोदन्तश्च ते त्रयः |
यस्मैते नियता दन्ताः स त्रिदन्ती महायतिः || ३. २२||
सर्वमात्ममयं यस्य सदसज्जगदीदृशम् |
गुणागुणमयं तस्य कः प्रियः को नृपाप्रियः || ३. २३||
विशुद्धबुद्धिः समलोष्ठ्रकाञ्चनः समस्तभूतेषु च तत्समाहितः |
स्थानं परं शाश्वतमव्यञ्च परं हि गत्वा न पुनः प्रजायते || ३. २४||
वेदाः श्रेष्ठाः सर्वयज्ञक्रियाश्च यज्ञाज्जप्यं ज्ञानमार्गश्च जप्यात् |
ज्ञानाद्ध्यानं सङ्गरागव्यपेतं तस्मिन्प्राप्ते शाश्वतस्योपलब्धिः || ३. २५||
समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकान्तरतिर्यतेन्द्रियः |
समाप्नुयाद्योगमिमं महात्मा विमुक्तिमाप्नोति ततः स्वयोगतः || ३. २६||
इति योगिचर्य्या
Encoded by Vlad Sovarel svlad1972@rediffmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com