.. योगशिखोपनिषत् ..
योगज्ञाने यत्पदाप्तिसाधनत्वेन विश्रुते .
तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ..
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै .
तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः ..
सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः .
तेषां मुक्तिः कथं देव कृपया वद शङ्कर .. १..
सर्वसिद्धिकरं मार्गं मायाजालनिकृन्तनम् .
जन्ममृत्युजराव्याधिनाशनं सुखदं वद .. २..
इति हिरण्यगर्भः पप्रच्छ स होवाच महेश्वरः .
नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् .. ३..
सिद्धिमार्गेण लभते नान्यथा पद्मसंभव .
पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः .. ४..
स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते .
निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् .. ५..
तदेव जीवरूपेण पुण्यपापफलैर्वृतम् .
परमात्मपदं नित्यं तत्कथं जीवतां गतम् .. ६..
तत्त्वातीतं महादेव प्रसादात्कथयेश्वर .
सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् .. ७..
वायुवत्स्फुरितं स्वस्मिंस्तत्राहंकृतिरुत्थिता .
पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् .. ८..
सुखदुःखैः समायुक्तं जीवभावनया कुरु .
तेन जीवामिधा प्रोक्ता विशुद्धे परमात्मनि .. ९..
कामक्रोधभयं चापि मोहलोभमथो रजः .
जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा .. १०..
तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च .
एभिर्दोषैर्विनिर्मुक्तः स जीवः शिव उच्यते .. ११..
तस्माद्दोषविनाशार्थमुपायं कथयामि ते .
ज्ञानं केचिद्वदन्त्यत्र केवलं तन्न सिद्धये .. १२..
योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः .
योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि .. १३..
तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् .
ज्ञानस्वरूपमेवादौ ज्ञेयं ज्ञानैकसाधनम् .. १४..
अज्ञानं कीदृशं चेति प्रविचार्यं मुमुक्षुणा .
ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् .. १५..
असौ दोषैर्विनिर्मुक्तः कामक्रोधभयादिभिः .
सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते .. १६..
स्वात्मरूपं यथा ज्ञानं पूर्णं तद्व्यापकं तथा .
कामक्रोधादिदोषाणां स्वरूपान्नास्ति भिन्नता .. १७..
पश्चात्तस्य विधिः किंनु निषेधोऽपि कथं भवेत् .
विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः .. १८..
परिपूर्णं स्वरूपं तत्सत्यं कमलसंभव .
सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि .. १९..
कलिना स्फूर्तिरूपेण संसारभ्रमतां गतम् .
निष्कलं निर्मलं साक्षात्सकलं गगनोपमम् .. २०..
उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् .
एतद्रूपं समायातः स कथं मोहसागरे .. २१..
निमज्जति महाबाहो त्यक्त्वा विद्यां पुनः पुनः .
सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः .. २२..
तथा ज्ञानी यदा तिष्ठेद्वासनावासितस्तदा .
तयोर्नास्ति विशेषोऽत्र समा संसारभावना .. २३..
ज्ञानं चेदीदृशं ज्ञातमज्ञानं कीदृशं पुनः .
ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः .. २४..
विना देहेन योगेन न मोक्षं लभते विधे .
अपक्वाः परिपक्वाश्च देहिनो द्विविधाः स्मृताः .. २५..
अपक्वा योगहीनास्तु पक्वा योगेन देहिनः .
सर्वो योगाग्निना देहो ह्यजडः शोकवर्जितः .. २६..
जडस्तु पार्थिवो ज्ञेयो ह्यपक्वो दुःखदो भवेत् .
ध्यानस्थोऽसौ तथाप्येवमिन्द्रियैर्विवशो भवेत् .. २७..
तानि गाढं नियम्यापि तथाप्यन्यैः प्रबाध्यते .
शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानसैस्तथा .. २८..
अन्यैर्नानाविधैर्जीवैः शस्त्राग्निजलमारुतैः .
शरीरं पीड्यते तैस्तैश्चित्तं संक्षुभ्यते ततः .. २९..
तथा प्राणविपत्तौ तु क्षोभमायाति मारुतः .
ततो दुःखशतैर्व्यापत्ं चित्तं क्षुब्धं भवेन्नृणाम् .. ३०..
देहावसानसमये चित्ते यद्यद्विभावयेत् .
तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् .. ३१..
देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः .
तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः .. ३२..
पिपीलिका यथा लग्ना देहे ध्यानाद्विमुच्यते .
असौ किं वृश्चिकैर्द्रष्टो देहान्ते वा कथं सुखी .. ३३..
तस्मान्मूढा न जानन्ति मिथ्यातर्केण वेष्टिताः .
अहंकृतिर्यदा यस्य नष्टा भवति तस्य वै .. ३४..
देहस्त्वपि भवेन्नष्टो व्याधयश्चास्य किं पुनः .
जलाग्निशस्त्रखातादिबाधा कस्य भविष्यति .. ३५..
यदा यदा परिक्षीणा पुष्टा चाहंकृतिर्भवेत् .
तमनेनास्य नश्यन्ति प्रवर्तन्ते रुगादयः .. ३६..
कारणेन विना कार्यं न कदाचन विद्यते .
अहंकारं विना तद्वद्देहे दुःखं कथं भवेत् .. ३७..
शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम् .
तत्कथं कुरुते तेषां सुखदुःखादिकं फलम् .. ३८..
इन्द्रियाणि मनो बुद्धिः कामक्रोधादिकं जितम् .
तेनैव विजितं सर्वं नासौ केनापि बाध्यते .. ३९..
महाभूतानि तत्त्वानि संहृतानि क्रमेण च .
सप्तधातुमयो देहो दग्धा योगाग्निना शनैः .. ४०..
देवैरपि न लक्ष्येत योगिदेहो महाबलः .
भेदबन्धविनिर्मुक्तो नानाशक्तिधरः परः .. ४१..
यथाकाशस्तथा देह आकाशादपि निर्मलः .
सूक्ष्मात्सूक्ष्मतरो दृश्यः स्थूलात्स्थूलो जडाज्जडः .. ४२..
इच्छारूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः .
क्रीडते त्रिषु लोकेषु लीलया यत्रकुत्रचित् .. ४३..
अचिन्त्यशक्तिमान्योगी नानारूपाणि धारयेत् .
संहरेच्च पुनस्तानि स्वेच्छया विजितेन्द्रियः .. ४४..
नासौ मरणमाप्नोति पुनर्योगबलेन तु .
हठेन मृत एवासौ मृतस्य मरणं कुतः .. ४५..
मरणं यत्र सर्वेषां तत्रासौ परिजीवति .
यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै .. ४६..
कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते .
जीवन्मुक्तः सदा स्वच्छः सर्वदोषविवर्जितः .. ४७..
विरक्ता ज्ञानिनश्चान्ये देहेन विजिताः सदा .
ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः .. ४८..
देहान्ते ज्ञानिभिः पुण्यात्पापाच्च फलमाप्यते .
ईदृशं तु भवेत्तत्तद्भुक्त्वा ज्ञानी पुनर्भवेत् .. ४९..
पश्चात्पुण्येन लभते सिद्धेन सह सङ्गतिम् .
ततः सिद्धस्य कृपया योगी भवति नान्यथा .. ५०..
ततो नश्यति संसारो नान्यथा शिवभाषितम् .
योगेन रहितं ज्ञानं न मोक्षाय भवेद्विधे .. ५१..
ज्ञानेनैव विना योगो न सिद्ध्यति कदाचन .
जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते .. ५२..
ज्ञानं तु जन्मनैकेन योगादेव प्रजायते .
तस्मायोगात्परतरो नास्ति मार्गस्तु मोक्षदः .. ५३..
प्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति मन्यते .
किमसौ मननादेव मुक्तो भवति तत्क्षणात् .. ५४..
पश्चाज्जन्मशन्तान्तरैर्योगादेव विमुच्यते .
न तथा भवतो योगाज्जन्ममृत्यू पुनः पुनः .. ५५..
प्राणापानसमायोगाच्चन्द्रसूर्यैकता भवेत् .
सप्तधातुमयं देहमग्निना रञ्जयेद्ध्रुवम् .. ५६..
व्याधयस्तस्य नश्यन्ति च्छेदखातादिकास्तथा ,
तदासौ परमाकाशरूपो देह्यवतिष्ठति .. ५७..
किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै .
देहीव दृश्यते लोके दग्धकर्पूरवत्स्वयम् .. ५८..
चित्तं प्राणेन संबद्धं सर्वजीवेषु संस्थितम् .
रज्ज्वा यद्वत्सुसंबद्धः पक्षी तद्वदिदं मनः .. ५९..
नानाविधैर्विचारैस्तु न बाध्यं जायते मनः .
तस्मात्तस्य जयोपायः प्राण एव हि नान्यथा .. ६०..
तर्कैर्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः .
न वशो जायते प्राणः सिद्धोपायं विना विधे .. ६१..
उपायं तमविज्ञाय योगमार्गे प्रवर्तते .
खण्डज्ञानेन सहसा जायते क्लेशवत्तरः .. ६२..
यो जित्वा पवनं मोहाद्योगमिच्छति योगिनाम् .
सोऽपक्वं कुम्भमारुह्य सागरं तर्तुमिच्छति .. ६३..
यस्य प्राणो विलीनोऽन्तः साधके जीविते सति .
पिण्डो न पतितस्तस्य चित्तं दोषैः प्रबाधते .. ६४..
शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते .
तस्माज्ज्ञानं भवेद्योगाज्जन्मनैकेन पद्मज .. ६५..
तस्माद्योगं तमेवादौ साधको नित्यमभ्यसेत् .
मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे .. ६६..
योगात्परतरं पुण्यं योगात्परतरं शिवम् .
योगात्परतरं सूक्ष्मं योगात्परतरं नहि .. ६७..
योऽपानप्राणयोरैक्यं स्वरजोरेतसोस्तथा .
सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः .. ६८..
एवं तु द्वन्द्वजालस्य संयोगो योग उच्यते .
अथ योगशिखां वक्ष्ये सर्वज्ञानेषु चोत्तमाम् .. ६९..
यदानुध्यायते मन्त्रं गात्रकम्पोऽथ जायते .
आसनं पद्मकं बद्ध्वा यच्चान्यदपि रोचते .. ७०..
नासाग्रे दृष्टिमारोप्य हस्तपादौ च संयतौ .
मनः सर्वत्र संगृह्य ॐकारं तत्र चिन्तयेत् .. ७१..
ध्यायते सततं प्राज्ञो हृत्कृत्वा परमेश्वरम् .
एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते .. ७२..
ईदृशे तु शरीरे वा मतिमान्नोपलक्षयेत् .
आदित्यमण्डलाकारं रश्मिज्वालासमाकुलम् .. ७३..
तस्य मध्यगतं वह्निं प्रज्वलेद्दीपवर्तिवत् .
दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे .. ७४..
भिन्दन्ति योगिनः सूर्यं योगाभ्यासेन वै पुनः .
द्वितीयं सुषुम्नाद्वारं परिशुभ्रं समर्पितम् .. ७५..
कपालसंपुटं पीत्वा ततः पश्यति तत्पदम् .
अथ न ध्यायते जन्तुरालस्याच्च प्रमादतः .. ७६..
यदि त्रिकालमागच्छेत्स गच्छेत्पुण्यसंपदम् .
पुण्यमेतत्समासाद्य संक्षिप्य कथितं मया .. ७७..
लब्धयोगोऽथ बुद्ध्येत प्रसन्नं परमेश्वरम् .
जन्मान्तरसहस्रेषु यदा क्षीणं तु किल्बिषम् .. ७८..
तदा पश्यति योगेन संसारोच्छेदनं महत् .
अधुना संप्रवक्ष्यामि योगाभ्यासस्य लक्षणम् .. ७९..
मरुज्जयो यस्य सिद्धः सेवयेत्तं गुरुं सदा .
गुरुवस्त्रप्रसादेन कुर्यात्प्राणजयं बुधः .. ८०..
वितस्तिप्रमितं दैर्घ्यं चतुरङ्गुलविस्तृतम् .
मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्षणम् .. ८१..
निरुध्य मारुतं गाढं शक्तिचालनयुक्तितः .
अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम् .. ८२..
पायोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्तदा .
मृत्युचक्रगतस्यापि तस्य मृत्युभयं कुतः .. ८३..
एतदेव परं गुह्यं कथितं तु मया तव .
वज्रासनगतो नित्यमूर्ध्वाकुञ्चनमभ्यसेत् .. ८४..
वायुना ज्वलितो वह्निः कुण्डलीमनिशं दहेत् .
सन्तप्ता साग्निना जीवशक्तिस्त्रैलोक्यमोहिनी .. ८५..
प्रविशेच्चन्द्रतुण्डे तु सुषुम्नावदनान्तरे .
वायुना वह्निना सार्धं ब्रह्मग्रन्थिं भिनत्ति सा .. ८६..
विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति .
ततस्तु कुम्भकैर्गाढं पूरयित्वा पुनःपुनः .. ८७..
अथाभ्यसेत्सूर्यभेदमुज्जायीं चापि शीतलीम् .
भस्त्रां च सहितो नाम स्याच्चतुष्टयकुम्भकः .. ८८..
बन्धत्रयेण संयुक्तः केवलप्राप्तिकारकः .
अथास्य लक्षणं सम्यक्कथयामि समासतः .. ८९..
एकाकिना समुपगम्य विविक्तदेशं
प्राणादिरूपममृतं परमार्थतत्त्वम् .
लघ्वाशिना धृतिमता परिभावितव्यं
संसाररोगहरमौषधमद्वितीयम् .. ९०..
सूर्यनाड्या समाकृष्य वायुमभ्यासयोगिना .
विधिवत्कुम्भकं कृत्वा रेचयेच्छ्रीतरश्मिना .. ९१..
उदरे बहुरोगघ्नं क्रिमिदोषं निहन्ति च .
मुहुर्मुहुरिदं कार्यं सूर्यभेदमुदाहृतम् .. ९२..
नाडीभ्यां वायुमाकृष्य कुण्डल्याः पार्श्वयोः क्षिपेत् .
धारयेदुदरे पश्चाद्रेचयेदिडया सुधीः .. ९३..
कण्ठे कफादि दोषघ्नं शरीराग्निविवर्धनम् .
नाडीजलापहं धातुगतदोषविनाशनम् .. ९४..
गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम् .
मुखेन वायुं संगृह्य घ्राणरन्ध्रेण रेचयेत् .. ९५..
शीतलीकरणं चेदं हन्ति पित्तं क्षुधां तृषम् .
स्तनयोरथ भस्त्रेव लोहकारस्य वेगतः .. ९६..
रेच्येत्पूरयेद्वायुमाश्रमं देहगं धिया .
यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् .. ९७..
कण्ठसंकोचनं कृत्वा पुनश्चन्द्रेण रेचयेत् .
वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् .. ९८..
कुण्डलीबोधकं वक्त्रदोषघ्नं शुभदं सुखम् .
ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाशनम् .. ९९..
सम्यग्बन्धुसमुद्भूतं ग्रन्थित्रयविभेदकम् .
विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् .. १००..
बन्धत्रयमथेदानीं प्रवक्ष्यामि यथाक्रमम् .
नित्यं कृतेन तेनासौ वायोर्जयमवाप्नुयात् .. १०१..
चतुर्णामपि भेदानां कुम्भके समुपस्थिते .
बन्धत्रयमिदं कार्यं वक्ष्यमाणं मयहि तत् .. १०२..
प्रथमो मूलबन्धस्तु द्वितीयोड्डीयनाभिधः .
जालन्धारस्तृतीयस्तु लक्षणं कथयाम्यहम् .. १०३..
गुदं पार्ष्ण्या तु संपीड्य पायुमाकुञ्चलेद्बलात् .
वारंवारं यथा चोर्ध्वं समायाति समीरणः .. १०४..
प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् .
गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः .. १०५..
कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः .
बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः .. १०६
तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः .
उड्डियानं तु सहजं गुरुणा कथितं सदा .. १०७..
अभ्यसेत्तदतन्द्रस्तु वृद्धोऽपि तरुणो भवेत् .
नाभेरूर्ध्वमधश्चापि त्राणं कुर्यात्प्रयत्नतः .. १०८..
षाण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः .
पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः .. १०९..
कण्ठसंकोचरूपोऽसौ वायुर्मार्गनिरोधकः .
कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया .. ११०..
बन्धो जालन्धराख्योऽयममृताप्यायकारकः .
अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते .. १११..
मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः .
वज्रासनस्थितो योगी चालयित्वा तु कुण्डलीम् .. ११२..
कुर्यादनन्तरं भस्त्रीं कुण्डलीमाशु बोधयेत् .
भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया .. ११३..
तथैव पृष्ठवंशः स्याद्ग्रन्थिभेदस्तु वायुना .
पिपीलिकायां लग्नायां कण्डूस्तत्र प्रवर्तते .. ११४..
सुषुम्नायां तथाभ्यासात्सततं वायुना भवेत् .
रुद्रग्रन्थिं ततो भित्त्वा ततो याति शिवात्मकम् .. ११५..
चन्द्रसूर्यौ समौ कृत्वा तयोर्योगः प्रवर्तते .
गुणत्रयमतीतं स्याद्ग्रन्थित्रयविभेदनात् .. ११६..
शिवशक्तिसमायोगे जायते परमा स्थितिः .
यथा करी करेणैव पानीयं प्रपिबेत्सदा .. ११७..
सुषुम्नावज्रनालेन पवमानं ग्रसेत्तथा .
वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः .. ११८..
सुषुम्नायां स्थितः सर्वे सूत्रे मणिगणा इव .
मोक्षमार्गे प्रतिष्ठानात्सुषुम्ना विश्वरूपिणी .. ११९..
यथैव निश्चितः कालश्चन्द्रसूर्यनिबन्धनात् .
आपूर्य कुम्भितो वायुर्बहिर्नो याति साधके .. १२०..
पुनःपुनस्तद्वदेव पश्चिमद्वारलक्षणम् .
पूरितस्तु स तद्द्वारैरीषत्कुम्भकतां गतः .. १२१..
प्रविशेत्सर्वगात्रेषु वायुः पश्चिममार्गतः .
रेचितः क्षीणतां याति पूरितः पोषयेत्ततः .. १२२..
यत्रैव जातं सकलेवरं मन-
स्तत्रैव लीनं कुरुते स योगात् .
स एव मुक्तो निरहंकृतिः सुखी
मूढा न जानन्ति हि पिण्डपातिनः .. १२३..
चित्तं विनिष्टं यदि भासितं स्या-
त्तत्र प्रतीतो मरुतोऽपि नाशः .
न चेद्यदि स्यान्न तु तस्य शास्त्रं
नात्मप्रतीतिर्न गुरुर्न मोक्षः .. १२४..
जलूका रुधिरं यद्वद्बलादाकर्षति स्वयम् .
ब्रह्मनाडी तथा धातून्सन्तताभ्यासयोगतः .. १२५..
अनेनाभ्यासयोगेन नित्यमासनबन्धतः .
चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा .. १२६..
रेचकं पूरकं मुक्त्वा वायुना स्थीयते स्थिरम् .
नाना नादाः प्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम् .. १२७..
नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषास्ततस्तदा .
स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् .. १२८..
कथितं तु तव प्रीत्या ह्येतदभ्यासलक्षणम् .
मन्त्रो लयो हठो राजयोगोऽन्तर्भूमिकाः क्रमात् .. १२९..
एक एव चतुर्धाऽयं महायोगोऽभिधीयते .
हकारेण बहिर्याति सकारेण विशेत्पुनः .. १३०..
हंसहंसेति मन्त्रोऽयं सर्वैर्जीवश्च जप्यते .
गुरुवाक्यात्सुषुम्नायां विपरीतो भवेज्जपः .. १३१..
सोऽहंसोऽहमिति प्रोक्तो मन्त्रयोगः स उच्यते .
प्रतीतिर्मन्त्रयोगाच्च जायते पश्चिमे पथि .. १३२..
हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते .
सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधीयते .. १३३..
हठेन ग्रस्यते जाड्यं सर्वदोषसमुद्भवम् .
क्षेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत् .. १३४..
तदैक्ये साधिते ब्रह्मंश्चित्तं याति विलीनताम् .
पवनः स्थैर्यमायाति लययोगोदये सति .. १३५..
लयात्संप्राप्यते सौख्यं स्वात्मानदं परं पदम् .
योनिमध्ये महाक्षेत्रे जपाबन्धूकसंनिभम् .. १३६..
रजो वसति जन्तूनां देवीतत्त्वं समावृतम् .
रजसो रेतसो योगाद्राजयोग इति स्मृतः .. १३७..
अणिमादिपदं प्राप्य राजते राजयोगतः .
प्राणापानसमायोगो ज्ञेयं योगचतुष्टयम् .. १३८..
संक्षेपात्कथितं ब्रह्मन्नान्यथा शिवभाषितम् .
क्रमेण प्राप्यते प्राप्यमभ्यासादेव नान्यथा .. १३९..
एकेनैव शरीरेण योगाभ्यासाच्छनैःशनैः .
चिरात्संप्राप्यते मुक्तिर्मर्कटक्रम एव सः .. १४०..
योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति .
पूर्ववासनया युक्तः शरीरं चान्यदाप्नुयात् .. १४१..
ततः पुण्यवशात्सिद्धो गुरुणा सह संगतः .
पश्चिमद्वारमार्गेण जायते त्वरितं फलम् .. १४२..
पूर्वजन्मकृताभ्यासात्सत्त्वरं फलमश्नुते .
एतदेव हि विज्ञेयं तत्काकमतमुच्यते .. १४३..
नास्ति काकमतादन्यदभ्यासाख्यमतः परम् .
तेनैव प्राप्यते मुक्तिर्नान्यथा शिवभाषितम् .. १४४..
हठयोगक्रमात्काष्ठासहजीवलयादिकम् .
नाकृतं मोक्षमार्गं स्यात्प्रसिद्धां पश्चिमं विना .. १४५..
आदौ रोगाः प्रणश्यन्ति पश्चाज्जाड्यं शरीरजम् .
ततः समरसो भूत्वा चन्द्रो वर्षत्यनारतम् .. १४६..
धातूंश्च संग्रहेद्वह्निः पवनेन समन्ततः .
नाना नादाः प्रवर्तन्ते मार्दवं स्यात्कलेवरे .. १४७..
जित्वा वृष्ट्यादिकं जाड्यं खेचरः स भवेन्नरः .
सर्वज्ञोसौ भवेत्कामरूपः पवनवेगवान् .. १४८..
क्रीडते त्रिषु लिकेषु जायन्ते सिद्धयोऽखिलाः .
कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते .. १४९..
अहंकारक्षये तद्वद्देहे कठिना कुतः .
सर्वकर्ता च योगीन्द्रः स्वतन्त्रोऽनन्तरूपवान् .. १५०..
जीवन्मुक्तो महायोगी जायते नात्र संशयः .
द्विविधाः सिद्धयो लोके कल्पिताऽकल्पितास्तथा .. १५१..
रसौषधिक्रियाजालमन्त्राभ्यासाधिसाधनात् .
सिद्ध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः .. १५२..
अनित्या अल्पवीर्यास्ताः सिद्धयः साधनोद्भवाः .
साधनेन विनाप्येवं जायन्ते स्वत एव हि .. १५३..
स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्याद्दीश्वरप्रियाः .
प्रभूताः सिद्धयो यास्ताः कल्पनारहिताः स्मृताः .. १५४.
सिद्धानित्या महावीर्या इच्छारूपाः स्वयोगजाः .
चिरकालात्प्रजायन्ते वासनारहितेषु च .. १५५..
तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये .
विना कार्यं सदा गुप्तं योगसिद्धस्य लक्षणम् .. १५६..
यथाकाशं समुद्दिश्य गच्छद्भिः पथिकैः पथि .
नाना तीर्थानि दृश्यन्ते नानामार्गास्तु सिद्धयः .. १५७..
स्वयमेव प्रजायन्ते लाभालाभविवर्जिते .
योगमार्गे तथैवेदं सिद्धिजालं प्रवर्तते .. १५८..
परीक्षकैः स्वर्णकारैर्हेम संप्रोच्यते यथा .
सिधिभिर्लक्षयेत्सिद्धं जीवन्मुक्तं तथैव च .. १५९..
अलौकिकगुणस्तस्य कदाचिद्दृश्यते ध्रुवम् .
सिद्धिभिः परिहीनं तु नरं बद्धं तु लक्षयेत् .. १६०..
अजरामरपिण्डो यो जीवन्मुक्तः स एव हि .
पशुकुक्कुटकीटाद्या मृतिं संप्राप्नुवन्ति वै .. १६१..
तेषां किं पिण्डपातेन मुक्तिर्भवति पद्मज .
न बहिः प्राण आयाति पिण्डस्य पतनं कुतः .. १६२..
पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते .
देहे ब्रह्मत्वमायाते जलानां सैन्धवं यथा .. १६३..
अनन्यतां यदा याति तदा मुक्तः स उच्यते .
विमतानि शरीराणि इन्द्रियाणि तथैव च .. १६४..
ब्रह्म देहत्वमापन्नं वारि बुद्बुदतामिव .
दशद्वार पुरं देहं दशनाडीमहापथम् .. १६५..
दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् .
षडाधारापवरकं षडन्वयमहावनम् .. १६६..
चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् .
बिन्दुनादमहालिङ्गं शिवशक्तिनिकेतनम् .. १६७..
देहं शिवालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् .
गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् .. १६८..
शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते .
यत्र कुण्डलिनीनाम परा शक्तिः प्रतिष्ठिता .. १६९..
यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते .
यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते .. १७०..
यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः .
तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् .. १७१..
स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले षडस्रके .
नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम् .. १७२..
द्वादशारं महाचक्रं हृदये चाप्यनाहतम् .
तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव .. १७३..
कण्ठकूपे विशुद्ध्याख्यं यच्चक्रं षोडशास्रकम् .
पीठं जालन्धर नाम तिष्ठत्यत्र सुरेश्वर .. १७४..
आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् .
उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् .. १७५..
चतुरस्रं धरण्यादौ ब्रह्मा तत्राधिदेवता .
अर्धचन्द्राकृति चलं विष्णुस्तस्याधिदेवता .. १७६..
त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता .
वायोर्बिम्बं तु षट्कोणमीश्वरोऽस्याधिदेवता .. १७७..
आकाशमण्डलं वृत्तं देवतास्य सदाशिवः .
नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः .. १७८..
इति प्रथमोऽध्यायः .. १..
पुनर्योगस्य माहात्म्यं श्रोतुमिच्छामि शङ्कर .
यस्य विज्ञानमात्रेण खेचरीसमतां व्रजेत् .. १..
शृणु ब्रह्मन्प्रवक्ष्यामि गोपनीयं प्रयत्नतः .
द्वादशाब्दं तु शुश्रूषां यः कुर्यादप्रमादतः .. २..
तस्मै वाच्यं यथातथ्यं दान्ताय ब्रह्मचारिणे .
पाण्डित्यादर्थलोभाद्वा प्रमादाद्वा प्रयच्छति .. ३..
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् .
मूलमन्त्रं विजानाति यो विद्वान्गुरुदर्शितम् .. ४..
शिवशक्तिमयं मन्त्रं मूलाधारात्समुत्थितम् .
तस्य मन्त्रस्य वै ब्रह्मञ्छ्रोता वक्ता च दुर्लभः .. ५..
एतत्पीठमिति प्रोक्तं नादलिङ्गं चिदात्मकम् .
तस्य विज्ञानमात्रेण जीवन्मुक्तो भवेज्जनः .. ६..
अणिमादिकमैश्वर्यमचिरादेव जायते .
मननात्प्राणनाच्चैव मद्रूपस्यावबोधनात् .. ७..
मन्त्रमित्युच्यते ब्रह्मन्मदधिष्ठानतोऽपि वा .
मूलत्वात्सर्वमन्त्राणां मूलाधारात्समुद्भवात् .. ८..
मूलस्वरूपलिङ्गत्वान्मूलमन्त्र इति स्मृतः .
सूक्ष्मत्वात्कारणात्वाच्च लयनाद्गमनादपि .. ९..
लक्षणात्परमेशस्य लिङ्गमित्यभिधीयते .
संनिधानात्समस्तेषु जन्तुष्वपि च सन्ततम् .. १०..
सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते .
महामाया महालक्ष्मीर्महादेवी सरस्वती .. ११..
आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते .
सूक्ष्माभा बिन्दुरूपेण पीठरूपेण वर्तते .. १२..
बिन्दुपीठं विनिर्भिद्य नादलिङ्गमुपस्थितम् .
प्राणेनोच्चार्यते ब्रह्मन्षण्मुखीकरणेन च .. १३..
गुरूपदेशमार्गेण सहसैव प्रकाशते .
स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः .. १४..
पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते .
हिरण्यगर्भं सूक्ष्मं तु नादं बीजत्रयात्मकम् .. १५..
परं ब्रह्म परं सत्यं सच्चिदानन्दलक्षणम् .
अप्रमेयमनिर्देश्यमवाङ्मनसगोचरम् .. १६..
शुद्धं सूक्ष्मं निराकारं निर्विकारं निरञ्जनम् .
अनन्तमपरिच्छेद्यमनूपममनामयम् .. १७..
आत्ममन्त्रसदाभ्यासात्परतत्त्वं प्रकाशते .
तदभिव्यक्तचिह्नानि सिद्धिद्वाराणि मे शृणु .. १८..
दीपज्वालेन्दुखद्योतविद्युन्नक्षत्रभास्वराः .
दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य योगिनः .. १९..
अणिमादिकमैश्वर्यमचिरात्तस्य जायते .
नास्ति नादात्परो मन्त्रो न देवः स्वात्मनः परः .. २०..
नानुसन्धेः परा पूजा न हि तृप्तेः परं मुखम् .
गोपनीयं प्रयत्नेन सर्वदा सिद्धिमिच्छता .
मद्भक्त एतद्विज्ञाय कृत कृत्यः सुखी भवेत् .. २१..
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ .
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः .. २२.. इति ..
इति द्वितीयोऽध्यायः .. २..
यन्नमस्यं चिदाख्यातं यत्सिद्धीनां च कारणम् .
येन विज्ञातमात्रेण जन्मबन्धात्प्रमुच्यते .. १..
अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते .
मूलाधारगता शक्तिः स्वाधारा बिन्दुरूपिणी .. २..
तस्यामुत्पद्यते नादः सूक्ष्मबीजादिवाङ्कुरः .
तां पश्यन्तीं विदुर्विश्वं यया पश्यन्ति योगिनः .. ३..
हृदये व्यज्यते घोषो गर्जत्पर्जन्यसंनिभः .
तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते .. ४..
प्राणेन च स्वराख्येन प्रथिता वैखरी पुनः .
शाखापल्लवरूपेण ताल्वादिस्थानघट्टनात् .. ५..
अकारादिक्षकारान्तान्यक्षराणि समीरयेत् .
अक्षरेभ्यः पदानि स्युः पदेभ्यो वाक्यसंभवः .. ६..
सर्वे वाक्यात्मका मन्त्रा वेदशास्त्राणि कृत्स्नशः .
पुराणानि च काव्यानि भाषाश्च विविधा अपि .. ७..
सप्तस्वराश्च गाथाश्च सर्वे नादसमुद्भवाः .
एषा सरस्वती देवी सर्वभूतगुहाश्रया .. ८..
वायुना वह्नियुक्तेन प्रेर्यमाणा शनैः शनैः .
तद्विवर्तपदैर्वाक्यैरित्येवं वर्तते सदा .. ९..
य इमां वैखरी शक्तिं योगी स्वात्मनि पश्यति .
स वाक्सिद्धिमवाप्नोति सरस्वत्याः प्रसादतः .. १०..
वेदशास्त्रपुराणानां स्वयं कर्ता भविष्यति .
यत्र बिन्दुश्च नादश्च सोमसूर्याग्निवायवः .. ११..
इन्द्रियाणि च सर्वाणि लयं गच्छन्ति सुव्रत .
वायवो यत्र लीयन्ते मनो यत्र विलीयते .. १२..
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः .
यस्मिंस्थितो न दुःखेन गुरुणापि विचाल्यते .. १३..
यत्रोपरमते चित्तं निरुद्धं योगसेवया .
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति .. १४..
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् .
एतत्क्षराक्षरातीतमनक्षरमितीर्यते .. १५..
क्षरः सर्वाणि भूतानि सूत्रात्माऽक्षर उच्यते .
अक्षरं परमं ब्रह्म निर्विशेषं निरञ्जनम् .. १६..
अलक्षणमलक्षं तदप्रतर्क्यमनूपमम् .
अपारपारमच्छेद्यमचिन्त्यमतिनिर्मलम् .. १७..
आधारं सर्वभूतानामनाधारमनामयम् .
अप्रमाणमनिर्देश्यमप्रमेयमतीन्द्रियम् .. १८..
अस्थूलमनणुह्रस्वमदीर्घमजमव्ययम् .
अशब्दमस्पर्शरूपमचक्षुःश्रोत्रनामकम् .. १९..
सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये स्थितम् .
सुसंवेद्यं गुरुमतात्सुदुर्बोधमचेतसाम् .. २०..
निष्कलं निर्गुणं शान्तं निर्विकारं निराश्रयम् .
निर्लेपकं निरापायं कूटस्थमचलं ध्रुवम् .. २१..
ज्योतिषामपि तज्ज्योतिस्तमःपारे प्रतिष्ठितम् .
भावाभावविनिर्मुक्तं भावनामात्रगोचरम् .. २२..
भक्तिगम्यं परं तत्त्वमन्तर्लीनेन चेतसा .
भावनामात्रमेवात्र कारणं पद्मसंभव .. २३..
यथा देहान्तरप्राप्तेः कारणं भावना नृणाम् .
विषयं ध्यायतः पुंसो विषये रमते मनः .. २४..
मामनुस्मरतश्चित्तं मय्येवात्र विलीयते .
सर्वज्ञत्वं परेशत्वं सर्वसंपूर्णशक्तिता .
अनन्तशक्तिमत्त्वं च मदनुस्मरणाद्भवेत् .. २५.. इति..
इति तृतीयोऽध्यायः .. ३..
चैतनस्यैकरूपत्वद्भेदो युक्तो न कर्हिचित् .
जीवत्वं च तथा ज्ञेयं रज्ज्वां सर्पग्रहो यथा .. १..
रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी .
भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला .. २..
उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते .
तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् .. ३..
व्याप्यव्याप्यकता मिथ्या सर्वमात्मेति शासनात् .
इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः .. ४..
ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः .
तस्मादेतानि ब्रह्मैव भवन्तीति विचिन्तय .. ५..
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च .
कर्माण्यपि समग्राणि बिभर्तीति विभावय .. ६..
सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् .
ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् .. ७..
स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः .
यस्तिष्ठति विमूढात्मा भयं तस्यापि भाषितम् .. ८..
यदज्ञानद्भवेद्द्वैतमितरत्तत्प्रपश्यति .
आत्मत्वेन तदा सर्वं नेतरत्तत्र चाण्वपि .. ९..
अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् .
असद्रूपो यथा स्वप्न उत्तरक्षणबाधितः .. १०..
स्वप्ने जागरितं नास्ति जागरे स्वप्नता नहि .
द्वयमेव लये नास्ति लयोऽपि ह्यनयोर्न च .. ११..
त्रयमेव भवेन्मिथ्या गुणत्रयविनिर्मितम् .
अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः .. १२..
यद्वन्मृदि घटभ्रान्तिः शुक्तौ हि रजतस्थितिः .
तद्वद्ब्रह्मणि जीवत्वं वीक्षमाणे विनश्यति .. १३..
यथा मृदि घटो नाम कनके कुण्डलाभिधा .
शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे .. १४..
यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले .
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि .. १५..
यथैव शून्यो वेतालो गन्धर्वाणं पुरं यथा .
यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः .. १६..
यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् .
घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः .. १७..
जगन्नाम्ना चिदाभाति सर्वं ब्रह्मैव केवलम् .
यथा वन्ध्यासुतो नास्ति यथा नस्ति मरौ जलम् .. १८..
यथा नास्ति नभोवृक्षस्तथा नास्ति जगत्स्थितिः .
गृह्यमाने घटे यद्वन्मृत्तिका भाति वै बलात् .. १९..
वीक्ष्यमाणे प्रपञ्चे तु ब्रह्मैवाभाति भासुरम् .
सदैवात्मा विशुद्धोऽस्मि ह्यशुद्धो भाति वै सदा .. २०..
यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् .
यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः .. २१..
आत्मानात्मविवेकोऽयं मुधैव क्रियते बुधैः ..
सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका .. २२..
विनिर्णीता विमूढेन देहत्वेन तथात्मता .
घटत्वेन यथा पृथ्वी जलत्वेन मरीचिका .. २३..
गृहत्वेन हि काष्ठानि खड्गत्वेन हि लोहता .
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः .. २४.. इति..
इति चतुर्थोऽध्यायः .. ४..
पुनर्योगं प्रवक्ष्यामि गुह्यं ब्रह्मस्वरूपकम् .
समाहितमनाअ भूत्वा शृणु ब्रह्मन्यथाक्रमम् .. १..
दशद्वारपुरं देहं दशनाडीमहापथम् .
दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् .. २..
षडाधारापवरकं षडन्वयमहावनम् .
चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् .. ३..
बिन्दुनादमहालिङ्गविष्णुलक्ष्मीनिकेतनम् .
देहं विष्ण्वालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् .. ४..
गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् .
शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते .. ५..
यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता .
यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते .. ६..
यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते .
यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः .. ७..
तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् .
स्वाधिष्ठानह्वयं चक्रं लिङ्गमूले षडस्रकम् .. ८..
नाभिदेशे स्थितं चक्रं दशास्रं मणिपूरकम् .
द्वादशारं महाचक्रं हृदये चाप्यनाहतम् .. ९..
तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव .
कण्ठकूपे विशुद्धाख्यं यच्चक्रं षोडशास्रकम् .. १०..
पीठं जालन्धरं नाम तिष्ठत्यत्र चतुर्मुख .
आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् .. ११..
उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् .
स्थानान्येतानि देहेऽस्मिञ्छक्तिरूपं प्रकाशते .. १२..
चतुरस्रधरण्यादौ ब्रह्मा तत्राधिदेवता .
अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता .. १३..
त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता .
वायोर्बिंबं तु षट्कोणं संकर्षोऽत्राधिदेवता .. १४..
आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता .
नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः .. १५..
शांभवस्थानमेतत्ते वर्णितं पद्मसंभव .
अतः परं प्रवक्ष्यामि नाडीचक्रस्य निर्णयम् .. १६..
मूलाधारत्रिकोणस्था सुषुम्ना द्वादशाङ्गुला .
मूलार्धच्छिन्नवंशाभा ब्रह्मनाडीति सा स्मृता .. १७..
इडा च पिङ्गला चैव तस्याः पार्श्वद्वये गते .
विलंबिन्यामनुस्यूते नासिकान्तमुपागते .. १८..
इडायां हेमरूपेण वायुर्वामेन गच्छति .
पिङ्गलायां तु सूर्यात्मा याति दक्षिणपार्श्वतः .. १९..
विलंबिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता .
तत्र नाड्यः समुत्पन्नस्तिर्यगूर्ध्वमधोमुखाः .. २०..
तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थितम् .
गान्धारी हस्तिजिह्वा च तस्मान्नेत्रद्वयं गते .. २१..
पूषा चालम्बुसा चैव श्रोत्रद्वयमुपागते .
शूरा नाम महानाडी तस्माद्भ्रूमध्यमाश्रिता .. २२..
विश्वोदरी तु या नाडी सा भुङ्क्तेऽन्नं चतुर्विधम् .
सरस्वती तु या नाडी सा जिह्वान्तं प्रसर्पति .. २३..
राकाह्वया तु या नाडी पीत्वा च सलिलं क्षणात् .
क्षुतमुत्पादयेद् घ्राणे श्लेष्माणं संचिनोति च .. २४..
कण्ठकूपोद्भवा नाडी शङ्खिनाख्या त्वधोमुखी .
अन्नसारं समादाय मूर्ध्नि संचिनुते सदा .. २५..
नाभेरधोगतास्तिस्रो जाडयः स्युरधोमुखः .
मलं त्यजेत्कुहूर्नाडी मूत्रं मुञ्चति वारुणी .. २६..
चित्राख्या सीविनि नाडी शुक्लमोचनकारणी .
नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु .. २७..
स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः .
स्थूलं शुक्लात्मकं बिन्दुः सूक्ष्मं पञ्चाग्निरूपकम् .. २८..
सोमात्मकः परः प्रोक्तः सदा साक्षी सदाच्युतः .
पातालानामधोभागे कालाग्निर्यः प्रतिष्ठितः .. २९..
समूलाग्निः शरीरेऽग्निर्यस्मान्नादः प्रजायते .
वडवाग्निः शरीरस्थो ह्यस्थिमध्ये प्रवर्तते .. ३०..
काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये प्रवर्तते .
काष्ठपाषणजो वह्निः पार्थिवो ग्रहणीगतः.. ३१..
अन्तरिक्षगतो वह्निर्वैद्युतः स्वान्तरात्मकः .
नभस्थः सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः .. ३२..
विषं वर्षति सूर्योऽसौ स्रवत्यमृतमुन्मुखः .
तालुमूले स्थितश्चन्द्रः सुधां वर्षत्यधोमुखः .. ३३..
भ्रूमध्यनिलयो बिन्दुः शुद्धस्फटिकसंनिभः .
महाविष्णोश्च देवस्य तत्सूक्ष्मं रूपमुच्यते .. ३४..
एतत्पञ्चाग्निरूपं यो भावयेद्बुद्धिमान्धिया .
तेन भुक्तं च पीतं च हुतमेव न संशयः .. ३५..
सुखसंसेवितं स्वप्नं सुजीर्णमितभोजनम्.ज् .
शरीरशुद्धिं कृत्वादौ सुखमासनमास्थितः .. ३६..
प्राणस्य शोधयेन्मार्गं रेचपूरककुम्भकैः .
गुदमाकुञ्च्य यत्नेन मूलशक्तिं प्रपूजयेत् .. ३७..
नाभौ लिङ्गस्य मध्ये तु उड्यानाख्यं च बन्धयेत् .
उड्डीय याति तेनैव शक्तितोड्यानपीठकम् .. ३८..
कण्ठं सङ्कोचयेत्किंचिद्बन्धो जालन्धरि ह्ययम् .
बन्धयेत्खेचरि मुद्रां दृढचित्तः समाहितः .. ३९..
कपालविवरे जिह्वा प्रविष्टा विपरीतगा .
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी .. ४०..
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः .
न पीयूषं पतत्यग्नौ न च वायुः प्रधावति .. ४१..
न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते .
न च मृत्युर्भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् .. ४२..
ततः पूर्वापरे व्योम्नि द्वादशान्तेऽच्युतात्मके .
उड्ड्यानपीठे निर्द्वन्द्वे निरालम्बे निरञ्जने .. ४३..
ततः पङ्कजमध्यस्थं चन्द्रमण्डलमध्यगम् .
नारायणमनुध्यायेत्स्रवतममृतं सदा .. ४४..
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः .
क्षीयन्ते चास्य कर्माणि तस्मिद्नृष्टे परावरे .. ४५..
अथ सिद्धिं प्रवक्ष्यामि सुखोपायं सुरेश्वर .
जितेन्द्रियाणां शान्तानां जितश्वासविचेतसाम् .. ४६..
नादे मनोलयं ब्रह्मन्दूरश्रवणकारणम् .
बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात् .. ४७..
कालात्मनि मनो लीनं त्रिकालज्ञानकारणम् .
परकायमनोयोगः परकायप्रवेशकृत् .. ४८..
अमृतं चिन्तयेन्मूर्ध्नि क्षुत्तृषाविषशान्तये .
पृथिव्यां धारयेच्चित्तं पातालगमनं भवेत् .. ४९..
सलिले धारयेच्चित्तं नाम्भसा परिभूयते .
अग्नौ सन्धारयेच्चित्तमग्निना दह्यते न सः .. ५०..
वायौ मनोलयं कुर्यादाकाशगमनं भवेत् .
आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात् .. ५१..
विराड्रूपे मनो युञ्जन्महिमानमवाप्नुयात् .
चतुर्मुखे मनो युञ्जञ्जगत्सृष्टिकरो भवेत् .. ५२..
इन्द्ररूपिणमात्मानं भावयन्मर्त्यभोगवान् .
विष्णुरूपे महायोगी पालयेदखिलं जगत् .. ५३..
रुद्ररूपे महायोगी संहरत्येव तेजसा .
नारायणे मनो युञ्जन्सर्वसिद्धिमवाप्नुयात् .. ५४..
यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः .
तथा तत्तदवाप्नोति भाव एवात्र कारणम् .. ५५..
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाच्युतः .
न गुरोरधिकः कश्चित्त्रिषु लोकेषु विद्यते .. ५६..
दिव्यज्ञानोपदेष्टारं देशिकं परमेश्वरम् .
पूजयेत्परया भक्त्या तस्य ज्ञानफलं भवेत् .. ५७..
यथा गुरुस्तथैवेशो यथैवेशोस्तथा गुरुः .
पूजनीयो महाभक्त्या न भेदो विद्यतेऽनयोः .. ५८..
नाद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् .
अद्वैतं भावयेद्भक्त्या गुरोर्देवस्य चात्मनः .. ५९..
योगशिखां महागुह्यं यो जानाति महामतिः .
न तस्य किंचिदज्ञातं त्रिषु लोकेषु विद्यते .. ६०..
न पुण्यपापे नास्वस्थो न दुःखं न पराजयः .
न चास्ति पुनरावृत्तिरस्मिन्संसारमण्डले .. ६१..
सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः .
तथा विज्ञाततत्त्वोऽसौ मुक्त एव न संशयः .. ६२..
इत्युपनिषत् .. इति पञ्चमोऽध्यायः .. ५..
उपासनाप्रकारं मे ब्रूहि त्वं परमेश्वर .
येन विज्ञातमात्रेण मुक्तो भवति संसृतेः .. १..
उपासनाप्रकारं ते रहस्यं श्रुतिसारकम् .
हिरण्यगर्भ वक्ष्यामि श्रुत्वा सम्यगुपासय .. २..
सुषुम्नायै कुण्डलीन्यै सुधायै चन्द्रमण्डलात् .
मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने .. ३..
शतं चैका च हृदयस्य नाड्य-
स्तासां मूर्धानमभिनिःसृतैका .
तयोर्ध्वमायन्नमृतत्वमेति
विश्वङ्ङ्न्या उत्क्रमणे भवन्ति .. ४..
एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता .
सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी .. ५..
इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु .
तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित् .. ६..
प्राणान्सन्धारयेत्तस्मिन्नासाभ्यान्तरचारिणः .
भूत्वा तत्रायतप्राणः शनैरेव समभ्यसेत् .. ७..
गुदस्य पृष्ठभागेऽस्मिन्वीणादन्डः स देहभृत् .
दीर्घास्तिदेहपर्यन्तं ब्रह्मनाडीति कथ्यते .. ८..
तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरभिः .
इडापिङ्गलयोर्मध्ये सुषुम्ना सूर्यरूपिणी .. ९..
सर्वं प्रतिष्ठितं तस्मिन्सर्वगं विश्वतोमुखम् .
तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः .. १०..
भूतलोका दिशः क्षेत्राः समुद्राः पर्वताः शिलाः .
द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः .. ११..
स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः .
बीजं बीजात्मकस्तेषां क्षेत्रज्ञः प्राणवायवः .. १२..
सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् .
नानानाडीप्रसवगं सर्वभूतान्तरात्मनि .. १३..
ऊर्ध्वमूलमधःशाखं वायुमार्गेण सर्वगम् .
द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः .. १४..
सर्वमार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मताः .
अधश्चोर्ध्वं च कुण्डल्याः सर्वद्वारनिरोधनात् .. १५..
वायुना सह जीवोर्ध्वज्ञानान्मोक्षमवाप्नुयात् .
ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा पायुं च मध्यगम् .. १६..
कृत्वा तु चैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् .
द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे .. १७..
सुषुम्ना शाम्भवी शक्तिः शेषास्त्वन्ये निरर्थकाः .
हृल्लेखे परमानन्दे तालुमूले व्यवस्थिते .. १८..
अत ऊर्ध्वं निरोधे तु मध्यमं मध्यमध्यमम् .
उच्चारयेत्परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम् .
यदि भ्रमरसृष्टिः स्यात्संसारभ्रमणं त्यजेत् .. १९..
गमागमस्थं गमनादिशून्यं
चिद्रूपदीपं तिमिरान्धनाशम् .
पश्यामि तं सर्वजनान्तरस्थं
नमामि हंसं परमात्मरूपम् .. २०..
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः .
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिषोऽन्तर्गतं मनः .
तन्मनो विलयं याति तद्विष्णोः परमं पदम् .. २१..
केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती .
आधाराज्जायते विश्वं विश्वं तत्रैव लीयते .. २२..
तस्मात्सर्वप्रयत्नेन गुरुपादं समाश्रयेत् .
आधारशक्तिनिद्रायां विश्वं भवति निद्रया .. २३..
तस्यां शक्तिप्रबोधेन त्रैलोक्यं प्रतिबुध्यते .
आधारं यो विजानाति तमसः परमश्नुते .. २४..
तस्य विज्ञानमात्रेण नरः पापैः प्रमुच्यते .. २५..
आधारचक्रमहसा विद्युत्पुञ्जसमप्रभा .
तदा मुक्तिर्न सन्देहो यदि तुष्टः स्वयं गुरुः .. २६..
आधारचक्रमहसा पुण्यपापे निकृन्तयेत् .
आधारवातरोधेन लीयते गगनान्तरे .. २७..
आधारवातरोधेन शरीरं कंपते यदा .
आधारवातरोधेन योगी नृत्यति सर्वदा .. २८..
आधारवातरोधेन विश्वं तत्रैव दृश्यते .
सृष्टिमाधारमाधारमाधारे सर्वदेवताः .
आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत् .. २९..
आधारे पश्चिमे भागे त्रिवेणीसङ्गमो भवेत् .
तत्र स्नात्वा च पीत्वा च नरः पापात्प्रमुच्यते .. ३०..
आहारे पश्चिमं लिङ्गं कवाटं तत्र विद्यते .
तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात् .. ३१..
आधारपश्चिमे भागे चन्द्रसूर्यौ स्थिरौ यदि .
तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत् .. ३२..
आधारपश्चिमे भागे मूर्तिस्तिष्ठति संज्ञया .
षट् चक्राणि च निर्भिद्य ब्रह्मरन्ध्राद्बहिर्गतम् .. ३३..
वामदक्षे निरुन्धन्ति प्रविशन्ति सुषुम्नया .
ब्रह्मरन्ध्रं प्रविश्यान्तस्ते यान्ति परमां गतिम् .. ३४..
सुषुम्नायां यदा हंसस्त्वध ऊर्ध्वं प्रधावति .
सुषुम्नायां यदा प्राणं भ्रामयेद्यो निरन्तरम् .. ३५..
सुषुम्नायां यदा प्राणः स्थिरो भवति धीमताम् .
सुषुम्नायां प्रवेशेन चन्द्रसूर्यौ लयं गतौ .. ३६..
तदा समरसं भावं यो जानाति स योगवित् .
सुषुम्नायां यदा यस्य म्रियते मनसो रयः .. ३७..
सुषुम्नायां यदा योगी क्षणैकमपि तिष्टति .
सुषुम्नायां यदा योगी क्षणार्धमपि तिष्ठति .. ३८..
सुषुम्नायां यदा योगी सुलग्नो लवणाम्बुवत् .
सुषुम्नायां यदा योगी लीयते क्षीरनीरवत् .. ३९..
भिद्यते च तदा ग्रन्थिश्चिद्यन्ते सर्वसंशयाः .
क्षीयन्ते परमाकाशे ते यान्ति परमां गतिम् .. ४०..
गङ्गायां सागरे स्नात्वा नत्वा च मणिकर्णिकाम् .
मध्यनाडीविचारस्य कलां नार्हन्ति षोडशीम् .. ४१..
श्रीशैलदर्शनान्मुक्तिर्वाराणस्यां मृतस्य च .
केदारोदकपानेन मध्यनाडीप्रदर्शनात् .. ४२..
अश्वमेधसहस्राणि वाजपेयशतानि च .
सुषुम्नाध्यानयोगस्य कलां नार्हन्ति षोडशीम् .. ४३..
सुषुम्नायां सदा गोष्ठीं यः कश्चित्कुरुते नरः .
स मुक्तः सर्वपापेभ्यो निश्रेयसमवाप्नुयात् .. ४४..
सुषुम्नैव परं तीर्थं सुषुम्नैव परं जपः .
सुषुम्नैव परं ध्यानं सुषुम्नैव परा गतिः .. ४५..
अनेकयज्ञदानानि व्रतानि नियमास्तथा .
सुषुम्नाध्यानलेशस्य कलां नार्हन्ति षोडशीम् .. ४६..
ब्रह्मरन्ध्रे महास्थाने वर्तते सततं शिवा .
चिच्छक्तिः परमादेवी मध्यमे सुप्रतिष्ठिता .. ४७..
मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजे तथा .
नादरूपा पराशक्तिर्ललाटस्य तु मध्यमे .. ४८..
भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके .
बिन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तते .. ४९..
हृदये स्थूलरूपेण मध्यमेन तु मध्यगे .. ५०..
प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति .
वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते .. ५१..
आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः .
प्राणापानसमाक्षिप्तस्तथा जीवो न विश्रमेत् .. ५२..
अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति .
हकारेण बहिर्याति सकारेण विशेत्पुनः .. ५३..
हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा .
तद्विद्वानक्षरं नित्यं यो जानाति स योगवित् .. ५४..
कन्दोर्ध्वे कुण्डलीशक्तिर्मुक्तिरूपा हि योगिनाम् .
बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् .. ५५..
भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्याऽग्निदेवताः .
यासु मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति .. ५६..
त्रयः कालास्त्रयो देवास्त्रयो लोकास्त्रयः स्वराः .
त्रयो वेदाः स्थिता यत्र तत्परं ज्योतिरोमिति .. ५७..
चित्ते चलति संसारो निश्चलं मोक्ष उच्यते .
तस्माच्चित्तं स्थिरीकुर्यात्प्रज्ञया परया विधे .. ५८..
चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् .
तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः .. ५९..
मनोहं गगनाकारं मनोहं सर्वतोमुखम् .
मनोहं सर्वमात्मा च न मनः केवलः परः .. ६०..
मनः कर्माणि जायन्ते मनो लिप्यति पातकैः .
मनश्चेदुन्मनीभूयान्न पुण्यं न च पातकम् .. ६१..
मनसा मन आलोक्य वृत्तिशून्यं यदा भवेत् .
ततः परं परब्रह्म दृश्यते च सुदुर्लभम् .. ६२..
मनसा मन आलोक्य मुक्तो भवति योगवित् .
मनसा मन आलोक्य उन्मन्यन्तं सदा स्मरेत् .. ६३..
मनसा मन आलोक्य योगनिष्ठः सदा भवेत् .
मनसा मन आलोक्य दृश्यन्ते प्रत्यया दश .. ६४..
यदा प्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत् .. ६५..
बिन्दुनादकलाज्योतीरवीन्दुध्रुवतारकम् .
शान्तं च तदतीतं च परंब्रह्म तदुच्यते .. ६६..
हसत्युल्लसति प्रीत्या क्रीडते मोदते तदा .
तनोति जीवनं बुद्ध्या बिभेति सर्वतोभयात् .. ६७..
रोध्यते बुध्यते शोके मुह्यते न च संपदा .
कंपते शत्रुकार्येषु कामेन रमते हसन् .. ६८..
स्मृत्वा कामरतं चित्तं विजानीयात्कलेवरे .
यत्र देशे वसेद्वायुश्चित्तं तद्वसति ध्रुवम् .. ६९..
मनश्चन्द्रो रविर्वायुर्दृष्टिरग्निरुदाहृतः .
बिन्दुनादकला ब्रह्मन् विष्णुब्रह्मेशदेवताः .. ७०..
सदा नादानुसन्धानात्संक्षीणा वासना भवेत् .
निरञ्जने विलीयेत मरुन्मनसि पद्मज .. ७१..
यो वै नादः स वै बिन्दुस्तद्वै चित्तं प्रकीर्तितम् .
नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत् .. ७२..
मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् .
मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् .. ७३..
षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् .
प्रविशेद्वायुमाकृष्य तथैवोर्ध्वं नियोजयेत् .. ७४..
वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् .
समाधिमेकेन समममृतं यान्ति योगिनः .. ७५..
यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना .
विना चाभ्यासयोगेन ज्ञानदीपस्तथा नहि .. ७६..
घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते .
भिन्ने तस्मिन् घटे चैव दीपज्वाला च भासते .. ७७..
स्वकायं घटमित्युक्तं यथा जीवो हि तत्पदम् .
गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं प्रकाशते .. ७८..
कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववदृढम् .
अभ्यासवासनाशक्त्या तरन्ति भवसागरम् .. ७९..
इत्युपनिषत् . इति योगशिखोपनिषदि षष्ठोऽध्यायः .. ६..
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै .
तेजस्विनवधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः .. ॐ तत्सत् ..
इति योगशिखोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com